This page has not been fully proofread.

मया मुग्धा वस्त्राश्चले गृहीता । किं कुर्वती । गच्छन्ती । कया ईर्ष्यया । किं कृत्वा ।
स्वमेव नखपदं दृष्ट्वा । पुनः किं कृत्वा । अविचार्य । यतो मदिरामदमत्ता मया किं
कृत्वा विधृता । नु इति प्रश्ने । क्व गच्छसीत्युक्त्वा । अथ सा वलितवदना सास्रदृष्टिः
कोपकम्प्रौष्ठी मां त्यज त्यजेति यदवोचत्तत्केन विस्मार्यते । अपि तु न केनापि । अत
एव स्वं करजक्षतं दृष्ट्वा न खन्याङ्गनायाः । तस्य तदेकचित्तत्वात् । अत्र बालाशब्दो-
ऽज्ञानमात्रापेक्षया न तु वयोपेक्षया । बालानायिका विधेय नखपदादी नामवर्ण्यमानत्वात् ।
ताः प्रत्युत संगमेषु पराङ्मुख्यो भवन्ति । निर्वन्धेन नीवी निरसनोद्युक्ते प्रेयसि बुलात्सु
रतप्रतीपं विदधति । किं च मिथ्यानखपदारोपणेऽपि कम्पन्ते यदुक्तं मुग्धाविसम्भणे -
'अप्रतिपद्यमानां च भीषयेत् । अहं खलु दन्तपदानि तवाधरे करिष्यामि । स्वनम-
ण्डले नखपदानि । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य वक्ष्यामि ।'
यथानर्घराघवस्य अभिषेकसुग्रीवाङ्के(सुग्रीवाभिषेकाङ्के) – 'स्ववपुषि नखलक्ष्म स्वेन
कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति सुतनु रहस्ते भीषितायाः
स्मरामि स्मर परिमलमुद्राभङ्गसर्वसहायाः॥'मधुमदक्षीवेति रतावसानिकम् । यदुक्तम्-
'सव्येन बाहुना परिरभ्य चषकं गृहीत्वा सान्त्वयन्पाययेत् । भृष्टमांसमातुलुङ्गचुक्रा-
द्युपदंशान्मधुरमिदं मृदु विशदमिदमिति विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितायाश्च-
न्द्रिकासेवनार्थमासनम् । तत्र चानुकूलाभिः कथाभिरनुवर्तेत । अङ्गसंलीनायाश्चन्द्रमसं
पश्यन्त्या नक्षत्रपङ्किव्यक्ती करणमरुन्धतीध्रुवसप्तर्षिमण्डलदर्शनं च ॥' इति ॥
 
काचिन्मानिनीं शिक्षयति-
 
चपलहृदये किं खातन्त्र्यात्तथा गृहमागत-
श्चरणपतितः प्रेमाद्रिः प्रियः समुपेक्षितः ।
तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहख रुषां फलम् ॥ ५६ ॥
 
कार्याकार्यपर्यालोचनशून्यतया हे अव्यवस्थितहृदये, कुतो हेतोर्वल्लभोऽवधीरितः ।
किंविशिष्टः। गृहमागतः । कथम् । तथा । कोऽर्थः प्रसाद्य संगमाकाङ्क्षया । पुनः कीदृशः ।
चरणप्रणतः । पुनरपि कथंभूतः । प्रेमाद्रिः । लक्षणयातिसरसकोमल इत्यर्थः । कस्मात्स
मुपेक्षितः, स्वातन्त्र्यात् । मामवेत्यर्थः । तदिदानीं दुरुत्पन्नानां निजक्रुधां फलमनु-
भव । कीदृशी सती । रुदितशरणा । किं तत्फल मित्याह - निरस्त सुखोदया । कियन्तं
कालम् । यावज्जीवम् । जीवोऽपि तव क्षणस्थायीति भावः । रुषामिति बहुवचनेन वारंवारं
त्वया कोपं कृत्वा सर्व विनाशितमिति प्रतीयते । किं स्वातन्त्र्यादित्यत्र स्वातन्त्र्यमेव
त्वया कुतः कृतमिति किंशब्दार्थः । अन्यथा स्वातन्त्र्यहेतुके प्रियसमुपेक्षणे सिद्धे
किंशब्दोऽधिकः स्यात् । परिकरोऽलंकारः । यदुक्तम् – 'साभिप्रायैः सम्यग्विशेषणैर्वस्तु
यद्विशेष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥' यथा – 'उचितपरिणाम-