This page has not been fully proofread.

पि नास्तीत्यर्थः । परगृहभङ्गव्यसनिनां कर्णेजपानां वचनै रिममिति त्वद्वैमुख्येनैवं विधदुः-
खस्थं जनमतिविधेयं मां दुःखं प्रापयितुं न ते युक्तम् । अथवा अलमनेन कियन्मे जी-
वितेन प्रयोजनम् । तस्मात्सत्यं कथय अचेतने, किमिदं त्वया ममोपरि विनिश्चितं
किं पर्याप्तम् । हे प्रिये, यत्किंचिदभिवाञ्छितं तन्मे विधाय सुखं स्थीयताम् । तवैव
सुखार्थमहमकारणोत्पन्नं मानं त्याजयामि । ममाभावे (?) चेत्तव सुखं तत्किं मानत्या-
जनेनेत्यर्थः । युक्तमित्यत्र 'नपुंसके भावे क्तः' । तेन 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसां-
प्रतम्' इत्यादिवत् 'प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत्प्रकाशते' इति
न्यायेमं जनमित्यत्र न प्रथमा । तत्र तु सांप्रतमित्यत्र द्वितीया न युज्यत इति
कर्मविवक्षा ॥
 
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं।
मानस्थापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ५४ ॥
 
कस्मिंश्चिद्ब्रामे यामिन्यामध्वगेन मुक्ताश्रुणा तेन प्रकारेण तत्कालोचितं किंचिदुत्क-
लिकया गीतम्, यथा 'ककुभोत्था विभाषैव निर्दिष्टा याष्टिकेन या । धैवतांसग्रहन्यासा-
महीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसौ ॥' एवंप्रायम् । किं वि-
शिष्टम् । विरहक्लेशसूचकम् । अथ वात्मशब्देन जीवात्मा अत एवोत्तरार्धम् 'आस्तां
जीवितहारिणः' इत्यादि । कीदृशेन । वारिभरालसजलधररसितोद्विग्नेन । अत्र लाक्षणिके-
नालसशब्देन गर्भवेदनाक्रान्त युवतिस्तनितवद्द्वर्जितस्य निःसीमगम्भीरता व्यज्यते ।
निशीथे हि निवातनिर्भरं वर्षन्तो बलाहकास्तथैव गर्जन्ति, भवन्ति च वराकाणां वियो-
गिनामुद्वेजनाद्दुर्ललिताः । अत एवोक्तमुपाध्यायेन – 'या क्रिया मान्मथैर्बाणैः शल्यितेषु
वियोगिषु । जलं ददति यत्तस्यै तेनामी जलदाः स्मृताः ॥' तथा कथं गीतमित्याह-
आस्तां तावत्प्राणहारिणः प्रवासनानो ग्रहणं यावत्प्रेमवर्त्माभिज्ञेन लोकेनोभयरूपस्यापि
मानस्य जलाअलिर्दत्तः । लक्षणया लोकान्तरं गतो मान इत्यर्थः । 'त्वं तावदाख दूरे
भृत्यावयवोऽपि ते निहन्त्यहितान्' इत्यादिवदत्र विषमालंकारः ॥
कश्चिद्वियोगी मत्तनायिकायाः प्रणयमान मनुस्मरति-
 
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीबाविचार्येया
गच्छन्ती व नु गच्छसीति विधृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सबाप्पनयना मां मुञ्च मुञ्चेति सा
कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ ५५ ॥
 
१. 'सा मुञ्च मुञ्चेति मां रोष' इति शृङ्गारदीपिका.