This page has been fully proofread once and needs a second look.

अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुपंषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५२॥ (युगलम्)
 
तन्व्या पुरतो वार्तान्तरेऽन्याङ्गनानामोच्चारणचकितोऽहं किंचिदवाञ्चितवदनः प्रति-
कूलविधिप्रेरितो वैलक्ष्यात्किंचिल्लिखितुं प्रवृत्तः । अथ मयि लिखत्येव केनाप्यनिर्वचनी-
यप्रकारेण व्यक्तः स कोऽपि रेखालेखस्तादृशं परिपाकं गतो येन यस्या एव गोत्रस्खल-
नमापतितं सैव युवतिर्नामापेक्षया पुनरप्यङ्गैरभिव्यक्तितिं जगाम । ततश्चित्रनायिकामुप-
लभ्य तथाया वामोऽथ च प्रतिकूलश्चरणश्चण्डिम्ना निक्षिप्तः । किंविशिष्टः । रूपकालंकारेण
ब्रह्मास्त्रम् । यथा वारंवारमतिप्रहारिणि शत्रावनन्योपायतया ब्रह्मास्त्रं मुच्यते तथा मयि
प्रथममपराधिनि पुनर्गोत्रस्खलनकारिणि पश्चादन्याङ्गनाचित्रलेखिनि वामपदो न्यस्त
इत्यर्थः । किं कृत्वा । अश्रुकलुषं यथा भवत्येवमित्यभिधाय । इति किम् । अहो आश्चर्यमा-
श्चर्यमभिव्यक्तम् । कोऽभिप्रायः - लोकाः, पश्यत दुरात्मनोऽस्य तस्यां तदेकतानताम् ।
गोत्रस्खलने न पर्याप्तमिदानीं तामेव लिखन्वर्तते । किं विशिष्टया सत्या निगद्य । आरू-
ढप्रणयेत्यादि । प्रकर्षं प्राप्तेन प्रेमविशेषेण य एव मे तथा वशीभूत आसीत्स एवाय मित्थ-
मुद्वृत्तो जात इत्याश्चर्य कोपव्यञ्जकेन हासेन सह वर्तत इति सहसा उद्गतरोदनस्वना च
गीर्यथा स्यात्तथा । कुटस्यादिः कुटादिरिति षष्ठीतत्पुरुषेण कुटादिसंबन्धाल्लिखितुमित्यत्र
गुणप्रतिषेधसमर्थनम् । अन्यथा लेखितुमित्येव प्राप्नोति । यथा-'
-'
— "सृष्ट्वा सृष्ट्वा समस्तं ज-
नमनुलिखता भूरिभाग्याक्षराणि क्षिप्रं विद्वल्ललाटे कथमपि विधिना लेखितुं विस्मृता
श्रीः । दत्वास्मिन्हंसपादं मलयजतिलकच्छद्मना क्ष्मातलेन्दो हस्ते दत्तैः सुवर्णैः प्रति-
कृति भवता शोधितो भालदेशः ॥' य" यच्च लेखनारम्भे सैव तरुणी व्यक्तिं गता तत्र ना-
यकस्य तन्मयी चित्तवृत्तिर्निमित्तम् । चित्रकला च विलासिनां प्रसिद्धैव । यदुक्तम्-
'

"
गीतं वाद्यं नृत्तं चालेख्यं विशेषकपत्रच्छेद्यम्'" इत्यादि । विषममलंकारः । यदु-
तम् – '

क्तम् — "
यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते
विषमम्'"
 
कश्चिन्नायिकां समासोक्तिभिरनुनयति-

कठिनहृदये मुञ्च भ्रान्ति व्यलीकक[^१]थाश्रितां
पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् ।
किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं

यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५३ ॥

मामनपराधमुपेक्ष्य मत्संगमं विनैव तिष्सीति हेतोः हे कठिनहृदये, अपराधकथावि-
षयां मिथ्याबुद्धिं त्यज । व्यलीककथाश्रितां न तु व्यलीकाश्रिताम् । व्यलीकस्य कथा-

[^
१. '] "कथाश्रयां'" इति शृङ्गारदीपिका.