2022-10-15 16:36:57 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
तस्मात् "किंचाञ्चितभ्रूलतम्" इति यत् कैश्चित्पाठान्तरं कृतं तद्व्यर्थश्रमपर्यालोचितमरम-
णीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यञ्जकेन बाष्पा-
म्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञाद्यो-
तकम् । कर्तृक्रियादीपकमलंकारः ॥
अङ्गानामतितानवं कुत इदं क[^१]स्मादकस्मादिदं
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।
तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर-
व्यापी बाष्पभरस्तया व[^२]लितया निःश्वस्य मुक्तोऽन्यतः ॥ ५० ॥
तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया बाष्पोत्पीडो निःश्वासपूर्वमुक्तः ।
किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमङ्गतानवादिकं स्वभावादेव । क्व सति । <error>प्राणे</error><fix>प्राणे-</fix>
श्वरे मया सह यथाकथंचिदेव वाङ्मिश्रणं करोत्वित्यनुसंधानेनेति <error>पर्युनुयुञ्जाने</error><fix>पर्यनुयुञ्जाने</fix> । इति किम् ।
हे मनोहरे, अवयवानामतिकार्श्यं कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम् । क-
थम् । अकस्मात् । कोऽभिप्रायः — मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न
चेष्टितमस्तीति स्वापराधापह्नवः । प्राणेश्वरशब्दस्य चायमभिप्रायः — य एव प्राणेश्वरः
स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपू-
र्वमन्यतो भूत्वाश्रुमोक्षः कृतः । व्याजोक्तिरलंकारः । यदुक्तम् — "व्याजोक्तिश्छद्मनोद्भि-
न्नवस्तुरूपनिगूहनम्" । यथा — "शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादि-
विसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैल्यं तुहिनाचलस्य करयोरित्यूचिवान्स-
स्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः" ॥
कश्चित्कुपितनायिकाप्रसादनारम्भनिरुपायः कस्यापि रहःसहचरस्याग्रे निवेदयति —
पु[^३]रस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।
[^१.] "कम्पश्च कस्मादयं" इति शृङ्गारदीपिका. [^२.] "दयितया" इति शृङ्गारदीपिका.
[^३.] एतद्युग्मं शृङ्गारदीपिकायां नास्ति, किं तु दशरूपावलोकस्य चतुर्थपरिच्छेदेऽसू-
योदाहरणे धनिकेनामरुशतकनाम्नैव समुद्धृतमस्ति.