2022-10-15 16:17:37 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
मिति मिथ्यापदार्थनिर्वर्णनार्थथं ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते । मय्यन्य-
तोमुखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वाङ्ममिश्रणार्थमालापयुक्ते तदन्तरार्थथं सख्या सह
विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम्- ' — "दोषीभावो यस्मिन्गुणस्य दोषस्य
वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति'" ॥
या[^१]वन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृतागसो द्रुततरं [^२]संलप्य पत्युः पुरः ।
प्रौरा[^३]रेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४८ ॥
मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृता-
पराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुक्रव-
दुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः।
यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलीक-
वचनै रित्यत्रालीकशब्दो व्यलीकवदपराधार्थः । यथा – '— "अभिव्यक्तालीकः'" इत्यादि ।
तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थं मिथ्यापराधारोपकै-
रिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल-
तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतः सिद्धं तथाप्यमुकं
कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने को[^४]पाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाप्ष्पाम्बुपूर्णणे[^५]क्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९ ॥
अहो आश्चर्यम् । यज्जातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् ।
कथं तथा जातमित्याह-— दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षां
ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नी-
तम् । वफुंक्तुं प्रवृत्ते सत्यद्यापि निःशङ्को वदन्वर्तत इत्याक्षेपबुद्ध्या स्फारितम् । बलादा-
लिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुश्चित-
भ्रूलतम् । अत्रारुणतासकाशादञ्चित भूभ्रूलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु
सत्स्वपि विशेषतः कोपाञ्चितेत्यमुना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः ।
[^१. '] "सा यावन्ति'" इति शृङ्गारदीपिका. [^२. '] "व्याहृत्य'" इति शृङ्गारदीपिका. [^३. 'प्रा०] "प्रा-
रब्धा'" इति शृङ्गारदीपिका. [^४. '] "संकुञ्चितचूभ्रूलतम्'" इति शृङ्गारदीपिका. ५. '"पूर्णे-
क्षणात्'" इति शृङ्गारदीपिका.
तोमुखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वाङ्
विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम्
वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति
या[^१]वन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृतागसो द्रुततरं [^२]संलप्य पत्युः पुरः ।
प्
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४८ ॥
मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृता-
पराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुक्रव-
दुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः।
यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलीक-
वचनै
तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थं मिथ्यापराधारोपकै-
रिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल-
तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतः
कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने को[^४]पाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बा
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९ ॥
अहो आश्चर्यम् । यज्जातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् ।
कथं तथा जातमित्याह
ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नी-
तम् । व
लिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुश्चित-
भ्रूलतम् । अत्रारुणतासकाशादञ्चित
सत्स्वपि विशेषतः कोपाञ्चितेत्यमुना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः ।
[^१.
रब्धा
क्षणात्