This page has not been fully proofread.

मिति मिथ्यापदार्थनिर्वर्णनार्थ ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते । मय्यन्य-
तोमुखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वाङ्मश्रणार्थमालापयुक्ते तदन्तरार्थ सख्या सह
विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम्- 'दोषीभावो यस्मिन्गुणस्य दोषस्य
वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति' ॥
 
यावन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृतागसो द्रुततरं संलप्य पत्युः पुरः ।
प्रौरेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४८ ॥
 
मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृता-
पराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुक्रव
दुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः।
यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलीक-
वचनै रित्यत्रालीकशब्दो व्यलीकवदपराधार्थः । यथा – 'अभिव्यक्तालीकः' इत्यादि ।
तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थं मिथ्यापराधारोपकै-
रिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल-
तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतः सिद्धं तथाप्यमुकं
कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥
 
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बुपूर्णक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९ ॥
 
अहो आश्चर्यम् । यजातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् ।
कथं तथा जातमित्याह - दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षां
ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नी-
तम् । वफुं प्रवृत्ते सत्यद्यापि निःशङ्को वदन्वर्तत इत्याक्षेपबुद्ध्या स्फारितम् । बलादा-
लिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुश्चित-
भ्रूलतम् । अत्रारुणतासकाशादञ्चित भूलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु
सत्स्वपि विशेषतः कोपाञ्चितेत्यमुना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः ।
 
१. 'सा यावन्ति' इति शृङ्गारदीपिका. २. 'व्याहृत्य' इति शृङ्गारदीपिका. ३. 'प्रा०
रब्धा' इति शृङ्गारदीपिका. ४. 'संकुञ्चितचूलतम्' इति शृङ्गारदीपिका. ५. 'पूर्णे-
क्षणात्' इति शृङ्गारदीपिका.