This page has been fully proofread once and needs a second look.

मुग्धे दु[^१]ष्करमेतदित्यतितमामुद्दामहासं बला-
दाश्लिप्ष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६ ॥
 
सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमुकसखी वेषं
कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा यद्येवं
परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेत-
त्त्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हटाठादालिङ्ग्याद्य
रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण
मुष्टास्मीति भावः । अत्र कामुकस्य हटाठाश्लेष उद्दामहासोपलम्भेन नायिकाया अपसरणं
सूचयति । अन्यथा सखीभ्रमेण स्वयं कृता श्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र
पत्यौ सखीमोहः रहस्यमुदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः । यथा-
'

"
अभिव्यक्तालीकः सकलविफलोपायविभवधिश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपु-
णम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमाश्लिष्यति
वधूम् ॥'" समयाभियोगश्चायं नायकस्य । यदुक्तम्- ' — "प्रदोषे निशि तमसि च योपिषितो
मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति'" इति । प्रदोषागमे छलिते-
त्युचितम् । अन्यस्यापि यस्य भूतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य
प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते - यदैव सा छलिता तदैव नायकः संप्रतिपत्तिमात्रं
कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी
लालनीया भवति । अगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं
निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते । ततश्चाद्यशब्दः कथमुपप-
द्यते । अत्रोच्यते लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने
अद्य रात्रौ मया स्वप्नो दृष्ट इति व्यवह्रियते । तथा अद्य प्रदोषागमे इत्यत्रापि ॥
 
कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरति-
 
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा-
द्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवैव[^२]चनं सख्या सहाभाषते
तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४७ ॥
 
तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वाखवस्वव-
स्थासु स्पृहणीयेति भावः । कथमित्याह आशङ्क्येत्यादि । एष प्रणामं करिष्यतीति
चेष्टाविशेषैरनुमीय प्रयत्नाद्वस्त्राञ्चलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति ।
कोपस्य स्वल्पत्वात् । पूर्वानुभूतस्य कस्यचिन्नर्मण उल्लेखेनाकस्मादागतं हास्यं किमिद-
.
 

[^
१. '] "दुष्कर एष इत्यतितरामुक्त्वा सहासं बलादालिङ्ग्य'" इति शृङ्गारदीपिका.
[^२. '] "वचना संख्या समं भाषते'" इति शृङ्गारदीपिका.