2022-10-15 13:57:04 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
म्योच्चैरधिरुह्यते । प्राप्तयो रित्येतावन्मात्रे वाच्येऽधिरूढयोरिति लक्षणया लब्धोत्कर्षयो-
रित्यर्थः । यथा कश्चिदभिमानी गजस्कन्धाधिरूढः । संपूर्णमनोरथत्वेन किंचिन्न मान-
यति । दिन एव किंविशिष्टयोरित्याह - रत्युत्कण्ठाश्लथीकृतगात्रयोः । अस्मिन्दुरात्मनि
दिने गते प्राप्तैकान्तौ स्वच्छन्दं रंस्यावह इति सुरतोत्कलिकया शिथिलीकृतान्यज्ञाङ्गानि
याभ्यां तयोः । रिरंसोर्हि प्रतिक्षणमुद्धृषितहृदयस्यावयवाः शिथिलीभवन्ति । पुनः क-
थंभूतयोः । भूयो नूतनमिव संसारमभिलक्ष्यीकृत्य समुद्धृतयोः । कदा । चिरात् । कोऽर्थः ।
अद्य प्राग्विरहनिष्फलत्वेन जगन्नष्टमिति ताभ्यां चिन्तितम् ।वहीबह्वीशब्दस्यायमभिप्रा-
यः-
- — रतिरपि बह्वी परं कथामानेन न भवति । सुरतान्तरालेषु परस्परवृत्तान्तोपवर्णन-
प्रश्नपरम्पराभिर्विभावरी प्रयाति, निद्रायाः कथैव नास्तीति तात्पर्यम् ॥
दीर्घा वन्दनमालिका विरचिता दृष्टट्यैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
दैद[^१]त्तः स्वेदमुचा पयोधरभरेणा[^२]र्धो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४५ ॥
<erro>यथ</error><fix> यथा </fix> कश्चिद्वशीकर्तुकामः सर्वाधिकारेषु स्वीयमेव कुटुम्बं नियुङ्क्ते तथा दयितस्य गृहं
प्रविशतः कृशामङ्ग्याः खैस्वैरेवाङ्गैर्मङ्गलमुपढौकितम् । किं तदित्याह - दीर्घेत्यादि । उत्स-
वेषु या तोरणादिसंनिवेशनीया लोकप्रसिद्धा वन्दनमाला सा दृष्टयैव दीर्घा सूत्रिता न
तु कुवलयैः । कुसुमानामितस्ततः प्रक्षेप ईषद्धसितेनैव निर्मितो न पुनर्मालत्यादिभिः ।
स्वेदस्यन्दिना स्तनप्राग्भारेणैवार्धःघः संपादितः, न तु कलशतोयेन । दृष्टट्यैवेत्यत्र य एवकारः
स एव स्मितेनेत्यत्र पयोधरभरेणेत्यत्र चानुवर्तते । वन्दनमालिकेत्यत्र स्वार्थे कप्रत्ययः । न
तु ह्रस्वार्थे । तथासति दीर्घेत्यस्यानुपपद्यमानत्वात् । दैर्घ्येण स्निग्धश्यामलत्वेन पक्ष्मलत्वेन
च दृष्ट्यैव यदर्थः साधितस्तैरिन्दीवरैः किम् । सौकुमार्येण वैशद्येन परिमलेन च स्मितेनैव
यत्कार्यमनुष्ठितं तेन पुष्पप्रकरेणालम् । काठिन्येन प्रथिम्ना सजलत्वेन गरिम्णा च पयो-
धरेणैव यद्विधेयं संपादितं तेन कुम्भाम्भसा पर्याप्तमित्याक्षेपोऽलंकारः । इन्दीवरैः कुन्द-
जात्यादिभिरिति बहुवचनापेक्षया दृष्टिस्मितयोरेकवचनेन महानुत्कर्षः । अयमवश्यं गृह-
प्रवेशो देशान्तरादागतस्यावधार्यमाणो रसपुष्टिमाधत्ते । अत एव तन्व्येति ।'"भाविन्या-
गमने भर्तुरात्मानं च गृहं च या । अलंकरोति हर्षेण सा स्याद्वासकसज्जिका ॥'" इत्यनेन
तत्कालं वासकसज्जा नायिका ॥
अय लद्य त्वमन्यादृशी, वयमेव दुर्जनीभूताः स्मः । युवां पुनरभिन्नावेवेति सस्मितं संसख्या
प्रभाते पृष्टा काचित्तां प्रत्याह-—
कान्ते सागसिशाँशा[^३]पिते प्रियसखीवेपंषं विधायागते.
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
[^१. '] "दत्तम्'" इति शृङ्गारदीपिका. [^२. '] "अर्ध्घ्यम्'" इति शृङ्गारदीपिका. ३. '"यापिते'"
इति शृङ्गारदीपिका.
रित्यर्थः । यथा कश्चिदभिमानी गजस्कन्धाधिरूढः । संपूर्णमनोरथत्वेन किंचिन्न मान-
यति । दिन एव किंविशिष्टयोरित्याह - रत्युत्कण्ठाश्लथीकृतगात्रयोः । अस्मिन्दुरात्मनि
दिने गते प्राप्तैकान्तौ स्वच्छन्दं रंस्यावह इति सुरतोत्कलिकया शिथिलीकृतान्य
याभ्यां तयोः । रिरंसोर्हि प्रतिक्षणमुद्धृषितहृदयस्यावयवाः शिथिलीभवन्ति । पुनः क-
थंभूतयोः । भूयो नूतनमिव संसारमभिलक्ष्यीकृत्य समुद्धृतयोः । कदा । चिरात् । कोऽर्थः ।
अद्य प्राग्विरहनिष्फलत्वेन जगन्नष्टमिति ताभ्यां चिन्तितम् ।
यः
-
प्रश्नपरम्पराभिर्विभावरी प्रयाति, निद्रायाः कथैव नास्तीति तात्पर्यम् ॥
दीर्घा वन्दनमालिका विरचिता दृष्
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
<erro>यथ</error><fix> यथा </fix> कश्चिद्वशीकर्तुकामः सर्वाधिकारेषु स्वीयमेव कुटुम्बं नियुङ्क्ते तथा दयितस्य गृहं
प्रविशतः कृशा
वेषु या तोरणादिसंनिवेशनीया लोकप्रसिद्धा वन्दनमाला सा दृष्टयैव दीर्घा सूत्रिता न
तु कुवलयैः । कुसुमानामितस्ततः प्रक्षेप ईषद्धसितेनैव निर्मितो न पुनर्मालत्यादिभिः ।
स्वेदस्यन्दिना स्तनप्राग्भारेणैवार्
स एव स्मितेनेत्यत्र पयोधरभरेणेत्यत्र चानुवर्तते । वन्दनमालिकेत्यत्र स्वार्थे कप्रत्ययः । न
तु ह्रस्वार्थे । तथासति दीर्घेत्यस्यानुपपद्यमानत्वात् । दैर्घ्येण स्निग्धश्यामलत्वेन पक्ष्मलत्वेन
च दृष्ट्यैव यदर्थः साधितस्तैरिन्दीवरैः किम् । सौकुमार्येण वैशद्येन परिमलेन च स्मितेनैव
यत्कार्यमनुष्ठितं तेन पुष्पप्रकरेणालम् । काठिन्येन प्रथिम्ना सजलत्वेन गरिम्णा च पयो-
धरेणैव यद्विधेयं संपादितं तेन कुम्भाम्भसा पर्याप्तमित्याक्षेपोऽलंकारः । इन्दीवरैः कुन्द-
जात्यादिभिरिति बहुवचनापेक्षया दृष्टिस्मितयोरेकवचनेन महानुत्कर्षः । अयमवश्यं गृह-
प्रवेशो देशान्तरादागतस्यावधार्यमाणो रसपुष्टिमाधत्ते । अत एव तन्व्येति ।
गमने भर्तुरात्मानं च गृहं च या । अलंकरोति हर्षेण सा स्याद्वासकसज्जिका ॥
तत्कालं वासकसज्जा नायिका ॥
अ
प्रभाते पृष्टा काचित्तां प्रत्याह
कान्ते सागसि
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
[^१.
इति शृङ्गारदीपिका.