2022-10-15 07:11:17 by Dhunee_Sarayu
This page has not been fully proofread.
अन्योन्यस्य हृते मुखे निहितंयोस्तिर्यक्कथंचिद्दशोः
से द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥ ४२ ॥
स प्रणयमानो द्वाभ्यामतिशयेन विस्मृतानुसंधानः स्वयं विहस्य मुक्तः । कयोः सत्योः ।
दृशोस्तिर्यक्कथंचिन्निक्षिप्तयोः । क्व । मुखे । कस्य । अन्योन्यम्य । किंविशिष्टे । कोपाद-
न्यतो नीते । दृशोर्मुखे इत्युभयत्रान्योन्यस्येति संबन्धः । स कः । यः प्रसादनेन नाप-
गतः । यः सखीप्रभृतीनां वचनैर्न शमितः । यश्च वियोगव्यथया दीर्घ विषयं च दिवसं
प्रतिपाल्प गतकल्पोऽपि लाघवशङ्कया यत्नात्कथंचित्कथमपि व्यवस्थापितः । 'यत्रासं-
भाव्यभावों वा' इति विषममलंकारः ॥
काचिन्मनस्विनी दयितव्यलीकखेदं सख्याः कथयति -
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसा-
न्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ४३ ॥
हे प्रियसखि, न वेद्मि किं कारणं यन्मे हृदयं शतधा न स्फुटति । कस्मिन्सती-
त्याह—स्नेहानुबन्धे गते । अन्योन्यगुणवशीकारगौरवे गलिते । निष्प्रपञ्चनायां निवृत्ता-
याम् । विधेये प्रियतमे उदासीन इव गच्छति । किं कृत्वा हृदयं शतधा न याति, त
त्पूर्वोक्तं पर्यालोच्य षड्गुण यत्वेति (?) लोकोक्तिः । न परं तदुत्प्रेक्षा । विधेयेन प्रेयसा
सह व्यतीतांस्तान निर्वचनीयवासरान् । इदानींतनदुःखं प्राक्तनं सुखमनुस्मृत्येत्यर्थः ।
यथा किंचिदपक्कपात्रस्थितमवष्टम्भेन विना विदीर्यते तथा मानाध्मातं हृदयं प्रेमवन्धेन
विना किमिति न स्फुटतीत्युक्तिलेशः । नायिकाः खलु सानुरागमपि नायकमीर्ष्या कालेषु
निरनुरागं व्यपदिशन्तीत्येकानुरागो नात्र शङ्कनीय इति ॥
चिरविरहिणोरैत्युत्कण्ठाश्लथीकृतगात्रयो-
र्नवमिव जगज्जातं भूयश्चिराद्भिनन्दतोः ।
कथमिव दिने दीर्घे याते निशामधिरूढयोः
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ४४ ॥
बहुदिनवियोगिनोर्भागधेयैः संगतयोस्तरुणयोर्यथा लम्भकानुपलम्भकैर्भूयसी गृहदे-
शान्तरानुभूतवृत्तान्तकथा प्रसरति न तथा संभोगः । किं विशिष्टयोः । महता कटेन
दीर्घेऽहनि व्यतीते सति रात्रिमधिरूढयोः । अथ च दीर्घं निःश्रेणिकाप्रायं पदार्थमतिक्र-
१. 'विहितयोः' इति शृङ्गारदीपिका. २. 'संबन्धे सपदि स्मितव्यतिकरे' इति
शृङ्गारदीपिका. ३. 'प्रेमावेशे' इति शृङ्गारदीपिका. ४. 'उत्कण्ठार्त्या' इति शृङ्गारदी-
पिका. ५. 'याते दीर्घे' इति शृङ्गारदीपिका.