2022-10-15 07:10:30 by Dhunee_Sarayu
This page has not been fully proofread.
त्याह — गाढेत्यादि । अतिनिर्भरादेषेणावामनौ वामनौ कृती यी कुचौ तत्र प्रकर्षेणो-
द्भुतः पुलकोद्गमो यस्याः सा तथोक्ता । कथमुलापिनीति । मा, मा, मानद मानखण्डन,
मा अतिशयेन । मामलमित्यत्र पीडयति क्रियां विना पर्याकुलताद्योतकमर्धोक्तम् ।
मा मेल्यादि पौनरुक्त्यं च सुन्दरम् । अत्रापि यदि कथ्यते तदा वधू रुष्यति, यदि मौ
नाम्यते तदा गृहं नश्यति । तथापि करुणवीभत्सस्मारकं मृतेति पदं न मानयामः ।
तस्मात् 'किं म्लाना शयिता नु किं मनसि मे लीना विलीना नु किम्' इति पठिष्यामः ।
संशयोऽलंकारः । यदुक्तम् –'वस्तुनि यत्रैकस्मिन्ननेक विषयस्तु भवति संदेहः । प्रतिपत्तुः
सादृश्यादनिश्चयः संशयः स इति ॥
अभिनवनुषा प्रथमनमरम्भे किं करोतीत्याह-
पटालने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
नं शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ४१ ॥
✔
वस्त्राञ्चलाकर्षिणि प्रिये किंचिदङ्गीकाराज्जातप्रश्रया मुखं नमयति । बलात्कारेण परि-
रम्भमाकाङ्क्षति सत्यङ्गानि निभृतं यथा भवत्येवमन्यतो नयति । न तु मध्यावतसभङ्गा-
भ्यसूयाभिनयपूर्व कमपहरति । अत्रैवावसरे स्मितमुखीं वरसंनिधिं प्रापयितुमागतां सह-
चरीं प्रति क्षिप्तलोचना तत्कालोचितप्रियप्रश्नोत्तरमाख्यातुं न क्षमते । यदि कथमपि
सखी नाभविष्यत्तदा सा कदाचित्किंचिदाख्यातुमप्यक्षमिष्यतेत्यर्थः । इत्थमन्तःकरणे ल
जया ताम्यति । लज्जा तस्याः प्रियतमस्वच्छन्दसंगमप्रतिकूला वैरिणी जातेत्यर्थः ।
यदुक्तम्
– 'दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते । ताम्यन्ति वेपमानाः शयने
नवपरिणया वध्वः ॥' मुग्धानां च प्रियोपक्रान्तसंभोगच्छलारम्भ एवाकल्पिकेयमिति
कौतुकिन्यः सख्यो न सत्वरमेव संनिधानमुज्झन्ति । जातिरलंकारः । यदुक्तम् – 'सं-
स्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा
जातिः ॥' 'हरति रुचिरं गाढाषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं
परिचुम्बने । यदपि बहुशः पृष्टा किंचिद्रवीत्यपरिस्फुटं रमयतितरां तेनैवासौ मनोऽभि-
नवा वधूः ॥' रते वामा मुग्धा नायिका । विहृतं नाम नाट्यालंकारः । 'प्राप्तकालं न
यद्रयाद्रीडया विहृतं हि तत्' ।
नोपेतोऽनुनयेन यः प्रियसुहद्वाक्यैर्न यः संहतो
यो दीर्घे दिवसं विषह्य विषेमं यत्नात्कथंचिद्धृतः ।
१. 'अशक्ता चाख्यातुं' इति शृङ्गारदीपिका. २. 'हृदये' इति शृङ्गारदीपिका.