This page has been fully proofread once and needs a second look.

उक्त्वेत्यध्याहरणीयम् । सुप्तमुखचुम्बनं च नायिकानां रागोद्दीपनम् । यदुक्तम् — "सुप्तस्य
मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्" इति । यच्च तेन रिरंसुना विज
नमाकाङ्क्षतालीकनिमीलनं कृतं तत्सख्यो जानन्ति, अत एवायमित्यर्थान्तरसंक्रमितत्वेन
धूर्तोऽस्मन्निर्गमाय सुप्त इत्युपन्यस्य स्वयमुत्थाय गताः । अर्थान्तरसंक्रमितस्योदाहरणमे-
तत् — "स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृ-
दामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु
कथं भविष्यति हहा हा देवि धीरा भव ॥" अत्र हि पितृमरणादिदुःखसहनक्षमत्ववि-
शिष्टो राम इति संज्ञा प्रतीयते न तु संज्ञिमात्रम् । यदुपज्ञेन ध्वनिवर्त्मना संचरमाणाः
सचेतसः प्रहर्षं प्राप्नुवन्ति तेषामाचार्याणामुक्तिषु मीमांसायां के वयम् । परं तथाप्या-
त्मावबोधार्थमिदमुदाहरणं परामृशामः — ननु सर्वंसहत्वे हेतुभूतकठोरहृदयत्वेनैव राम
इति संज्ञिनो वैशिष्ट्यमुच्यते । यदि कठोरहृदयत्वमत्र सर्वंसहत्वे हेतुभूतमभविष्यत्तदा
राम इति पदमेव न प्रायोक्ष्यत । वैदेही तु कथं भविष्यतीत्यनेनैव दाशरथिप्रतीतेः ।
तस्मात्कठोरहृदयत्वविशिष्टस्यैव संज्ञिनस्तत्त्वान्तरं ध्वननीयम् । येन मया प्रवासकाले
मातृभिः स्थाप्यमाना त्वमयोध्यायामुपेक्षिता सोऽहं शतकोटिकोटिकर्कशचेताः सर्वं-
सहः । नहि मया त्वमाहूता, अपि तु स्वयमागता । यथा — "कृतककुपितैर्बाष्पाम्भोभिः
सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः
पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥" यच्चालोचनका-
रेण पितृमरणादिदुःखसहनक्षमत्वं ध्वनिविषयीकृतं तदसत् । दुःखस्य विजातीयत्वात् ।
नहि प्रियाविरहसंतप्तः पुमाञ्जीवतो लोकान्तरितस्य वा पितुः स्मरति ॥
 
काचिन्मानिनी बहुभिरुपायैरतिनिर्बन्धप्रसादनेन गतकल्पं मानं परित्यक्तुमनाः प्रियं
प्रति ब्रवीति -
 
कोपो यत्र भ्रुकुटिरचना निग्र[^१]हो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृ[^२]ष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ ३८ ॥
 
तस्यावयोरेवंविदितस्य प्रेम्णस्तदिदमतिगर्हितमधुना वैशसं विनाशो जातः पश्य,
मान्धो भूः । तस्य कस्येत्याह - यत्र प्रणयकलहेषु भ्रुकुटेरभिनय एव रोषः । वाक्पा-
रुष्येणापि मनसो दूषयितुमशक्यत्वाद्वचननिरोध एव यस्मिन्निग्रहः । क्रीडाकमलादि-
नापि ताडनस्य दुष्करत्वात्परस्परमनुवृत्तिवशीकरणव्यञ्जकमीषद्धसितमेव प्रसादनम् ।
सामदानाद्युपायानामपि भेदसूचकत्वात् । उभयोरपि तुल्यकालमेव प्रसादनमभिलषित-
मिति प्रतिपादयितुमन्योन्यशब्दप्रयोगः । दृष्टिक्षेप एव यत्रानुग्रहः । चरणपतनाद्यसंभवे
 
[^१.] "विग्रहो" इति शृङ्गारदीपिका. २. "यत्र दृष्टिः प्रसादः" इति शृङ्गारदीपिका.