This page has been fully proofread once and needs a second look.

तैरेव पीयूषं लब्धं यैः सहर्षोत्तरलं मनस्विनी चुम्बिता । अधररस एवामृतमित्यर्थः ।
यावदप्रसादं हि मानिनी महान्तं संतापमुत्पादयति, प्रसन्ना च लोकोत्तरमानन्दम् ।
अत एवाचेतनैरमरैः खेदाय विलोडितः क्षीरोदः । किं कुर्वती चुम्बिता, दष्टाधरत्वा-
त्कराग्रं समन्ताद्धुन्वती । कथम् । सचकितम् । चकितमत्र चमत्कृतिरेव । क्व सति । ओष्ठ-
प्रवाले हठात्खण्डिते सति । किंविशिष्टा । सविलासतरङ्गितभ्रूवलिः । कैर्विशिष्टा । मा मा
मुञ्च शठेति कोपवचनैः । मा मेति पर्याकुलताप्रतिपादकाभ्यां शब्दाभ्याम्, मुञ्चेति क्रियया
च संभोगाभियोगस्य निषेधः । न तु ताभ्यां मुञ्चेति क्रियायाः । कोपस्य वचनैरेव, न तु
वास्तवेन कोपेन । पुनः कीदृशी । सीत्काराञ्चितलोचना सीत्कारपूर्वकं विलासदशास्पर्शेन
कूणिते लोचने यया सा तथोक्ता । कलहरूपं चैतत्सुरतम् । यदुक्तम् – "कलहरूपं
सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य" इति । सीत्कारः कामिनीनां
दयितस्पर्शसुखातिशयेन हृदयोल्लासचमत्कारपूर्वकः श्वसितात्मा मन्मथोद्दीपनो मुखस्य
चेष्टाविशेषः । आक्षेपोलंऽकारः । यथा — "कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥" अनुभवी वक्ता । यदपि चामी श्लोकाः संभो-
गमीर्ष्यामानं प्रणयमानेन, प्रणयमानमभिसरणेन, अभिसरणं प्रवासविप्रलम्भेन, तिरयन्ति
तदपि कवेरभिसंधानम् । अतिनिरन्तरमेकरसोपनिबन्धोऽप्युद्वेजको भवति । यथा ना-
टकादावभिनेयः सान्तरोपनिबन्धो रसश्चमत्कारी स्यात्तथैवंविधकाव्येषु श्रव्योऽपीति ।
किलकिञ्चितं चात्र नाट्यालंकारः । यदुक्तम् – "क्रोधाश्रुहर्षभीत्यादिसंकरः किलकिञ्चि-
तम् ।" यथा —"रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकल-
कण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रोधोद्भ्रान्तं पुनरपि विद-
ध्यान्मयि मुखम् ॥" "सानन्दान्तः कुट्टमिते कुप्येत्केशाधरग्रहे" इत्यनेन कुट्टमित-
मपीति ॥
 
काचिन्नर्मसख्याः पुरतः कथयति -
 
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावेशितया मया स[^1]रलया न्यस्तं मुखं तन्मुखे ।
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चतो
लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३७ ॥
 
हे सखि, अयं ते दयितः सुप्तैस्तस्मादस्माभिरपि सुप्यतामिति मां प्रत्युक्त्वा <error>सख्या</error><fix>सख्यो</fix>
गताः । ततः प्रघटनानन्तरं प्रेमग्रहगृहीतया तत्रापि प्राञ्जलया मया प्रियमुखे स्वमुखं
निवेशितम् । अथ तस्य धूर्तस्य रोमाञ्चचिह्नेन नेत्रयोर्मिथ्यासंकोचने ज्ञाते मम व्रीडा
बभूव । तेन च संभोगसमयोचिताभिर्नीवीव्यपनयनप्रायाभिः परिपाटीभिः सापि लु-
ण्ठिता । कोऽर्थः— अहमपि तत्कालोचितप्रवृत्तिरभूवम् । सुप्यतामिति पदस्याग्रे
 
[^१.] "तरलया" इति शृङ्गारदीपिका.