This page has been fully proofread once and needs a second look.

संवृत्ता इत्याश्चर्यमेतत् । असंगतिरलंकारः । यदुक्तम् – "विस्पष्टं समकालं कारणमन्यत्र
कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयाऽसंगतिः सेयम् ॥" दोषैरित्यत्र विपरीतलक्षणया
गुणैरित्यर्थः । अत एवानिर्वचनीयताद्योतकः सर्वत्र साशब्दः । अथ च तस्या एव दोषो
या यथाकथंचिदागत्य संकेते मया सह न संगच्छत इत्यभिप्रायः । अन्यच्च सा बाला
चेष्टाविशेषानुमेयानुरागापि प्रच्छन्नचाराद्ययोग्यतया संगमोपायं न जानातीत्युभयानुरागः।
एकानुरागे हि शृङ्गाराभास एव स्यात् । यथा बालरामायणस्योन्मत्तदशाननाङ्के । तत्र
हि सुलभानेकस्त्रीरत्नस्यापि रावणस्य यदप्राप्तावुन्मादो जातस्तस्याः प्राणेश्वररामचन्द्रै-
कचेतसो जानक्याः स्पृहणीयतातिशयः प्रतिपादितो भवति, न तु रसोपनिबन्धः । उ-
भयानुरागाभावात् ॥
 
काचिद्भाविप्रोषितभर्तृका आत्मानं प्रति सोपालम्भमाचष्टे —
 
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमा[^१]सितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे स[^२]र्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु[^३] त्यज्यते ॥ ३६ ॥
 
हे जीवित, कृत्याकृत्यविवेकपराङ्मुखतया प्रियतमे देशान्तरं गन्तुं निःसंदेहमनसि
सति सर्वे सुहृदः सहैव प्रचलिताः । कथमित्याह — प्रस्थानं वलयैरित्यादि । दौर्बल्यवशेन
पतनशीलतया हस्ताभरणैः प्रस्थानं कृतम् । किं विशिष्टेः । प्रियसखैः वल्लभसहचरैः ।
प्रिये तिष्ठति तिष्टद्भिर्गच्छति गच्छद्भिरित्यर्थः । एवमस्रादिष्वपि प्रियसखत्वं योज्यम् ।
अस्रैरप्यनवरतं गतम् । अश्रूणामप्रवृत्तिरेवावस्थितिः गतिश्च प्रवृत्तिरेव । न त्वभाव
एव । तथा सत्यश्रूणामभाव एव स्यात् । संतोषेण क्षणमपि न स्थितम् । मनसापि पुनः
प्रथममेव गन्तुमुपक्रान्तम् । तत्त्वयाप्यवश्यगन्तव्ये सति कुतो हेतोः प्रियसुहृत्संघातः
परित्यज्यते । गम्यतामेवेत्यर्थः । आस्तां तावत्प्रियतमे गते, गन्तुं निश्चितचेतस्यपि
नायिका जीवितनिरपेक्षा बभूवेति भावः । सहोक्तिरलंकारः । यदुक्तम् — "भवति यथा-
रूपोऽर्थः कुर्वन्नेवापरं तथारूपम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥"
यथा – "कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं
कुचकलशनितम्बभित्तिभरः" ॥
 
संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वतीं
मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ३६ ॥
 
[^१.] "आस्थितं" इति शृङ्गारदीपिका. [^२.] "सर्वैः समं प्रस्थितं" इति शृङ्गारदीपिका.
[^३.] "किमुत्सृज्यते" इति शृङ्गारदीपिका..