This page has been fully proofread once and needs a second look.

किं तत्समयोचितं न कृतं त्वया । अपि तु सर्वं कृतम् । अत एव नृमृत्युभयं परित्यक्तं
मया । अतःपरं निःसंशयं जीविष्यामीत्यर्थः । इदानीं गम्यताम् । यतः कृच्छ्रमास्ते
भवान् । यच्चेदानीं मुद्गरसप्रायं पथ्यं करिष्यामि तदाकर्णयिष्यतिसि । कोऽर्थः– पथ्यं
श्रुतिविषयमेवास्तु, न तु दृष्टिविषयम् । दृष्टिविषये किल भवदीयकार्यसंकोचक्लेशकारिणी
वेला लगिष्यति । अथ प्रातःप्रातरुपागतोऽसि, न तु रात्रौ । तदा हि कदाचित्संगमा-
वकाशोऽपि संभवति । अन्यच्चान्याङ्गनासङ्गशंसीन्यधरक्षतादीन्यपि प्रातर्दृश्यन्ते । तानि
चाक्षिदुःखमुत्पादयन्ति । अत एव जनिता निनिंर्निद्रिता चक्षुषोः । अन्यथा विरहवेदना-
जागरितसकलरात्रेर्दिवा कदाचिन्निद्रापि मुहूर्तं घटते । कचाकर्षणताद्यकरणादक्षमाय-
मम बहुमानो व्यपगमितः । तुच्छता तु प्रकर्षेण जनिता । अथ वा किं तद्यत्त्वया विरुद्धं
न कृतम् । अत एव मया मरणे निश्चयः कृतः । तदितः स्थानाद्गम्यताम् । यतोऽत्र
दुःखं तिष्ठसि । तत्रैव ते सुखमित्यर्थः । यच्चेदानीं प्राणपरित्यागलक्षणमुचितं करिष्यामि
तदवश्यं श्रोष्यसि । न तु कर्णपिधानादिना शोकावेगं सूचयिष्यसि । तवैव समीहित -
त्वात् । कर्तास्मीत्यत्र लुटि उत्तमैकवचनम् । मन्दामशब्दशक्त्युद्भव उपमालंकारः । यथा
सरागा वराकीति संभाव्यते तथा त्वयाहं संभावितेति प्रतीतेः । यदुक्तम् – '"ननु शब्द-
शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदानीं श्लेषस्य विषयोऽप-
हृत एव स्यात् । नापहृत इत्याह - '"आक्षिप्त एवालंकारः शब्दशक्त्या प्रकाशते । य.-
स्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः"
 
कस्यांचिदनुरक्तः कश्चित्स्वयं सवितर्कमनुसंधत्ते । विस्रम्भपात्रस्य वा प्रतिविधानप्र-
त्याशया कस्याप्यग्रे निवेदयति -
 
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ३४ ॥
 
सा अनिर्वचनीया मुग्धा, वयं च तदप्राप्तिपर्याकुलतया अप्रगल्भमनसः । अथ च
यत्रैव बाल्यं तत्रैवाप्रगल्भमनस्कत्वं युज्यते । सा स्त्री, वयं च तां विना स्थातुं न शक्नुम
इति गतधैर्याः । अथ च यत्रैव स्त्रीत्वं तत्रैव कातरत्वमुचितं भवति । सा पीनं चोन्नति-
मच्च एवंविधं स्तनयुगलं बिभर्ति, वयं च तद्गाढालिङ्गनमप्राप्नुवन्तः सखेदाः । अथ च य
एव गुरुपदार्थभारं वहति स एव सखेदो दृश्यते । '"भरं'" इति पाठे स्तनभारं विबिभर्ती-
त्यर्थः । अत्र पाठे धरभरमित्यनुप्रासालंकारः । भारश्च साक्षादुक्तः । पूर्वत्र तु पाठे पी-
नोन्नतिमत्त्वेन भार आक्षिप्यत इति । सा महता नितम्बभरेणाक्रान्तां, वयं च तां त-
त्प्राग्भारलीलालसगामिनीं स्मरन्तो जडिम्ना गन्तुं न क्षमाः । अथ च य एव महता भा-
रेणाक्रान्तो भवति स एव गन्तुं न शक्नोति । एवं सत्यन्यजनावलम्बि मिभिर्दोषैर्वयमसौष्ठवाः