This page has been fully proofread once and needs a second look.

निवेशिता । किंविशिष्टे । घने । प्रचुरपरिणाहिनीत्यर्थः । चरणौ च शिञ्जानरत्नमञ्जीरौ ।
हारश्चाकचक्यायमानतया प्रकाशकः, काञ्चीनूपुरौ च सशब्दत्वेन । पादौ रणन्मणिनूपु-
रावित्यत्र यद्यपि बहुव्रीहिणैव प्रकाशमानात्मकोऽर्थः संघटते, तथाप्युरसि हारवज्जघने
काञ्चीवदाधाराधेयभावेनाप्रयोगादुपक्रमभङ्गो दूषणम् । ईषद्दूषणत्वाच्चादूषणप्रायम् । मुग्धे
इत्यत्र मोहः प्रियसंगमौत्सुक्यवती विह्वलतैव अन्यथोपलम्भकारणानि भङ्क्त्वा किमित्य-
भिसरणमारभते । आहतडिण्डिमेत्यत्र लक्षणया सुप्रकाशकत्वमर्थः । अधिकत्रासोत्कम्प-
मित्यत्र च संकल्पकल्पितेन प्रियसमागमेन सात्त्विक एव तावदुत्कम्पः । त्रासेन पुनर-
धिक इति । अथ चाहतडिण्डिमा यदि प्रियमभिसरसि तदा किमद्यापि दिशः समुदी-
क्षसे । वेगेन गत्वा समीहितं साधयेति साभ्यसूयं कार्यशिक्षा । विषमोऽलंकारः । यदु-
क्तम् - "विषम इति प्रथितोऽयं वक्ता विघटयति कमपि संबन्धम् । यत्रार्थयोरसन्तं
परमतमाशङ्क्य तत्सत्त्वे ॥" यथा -– "यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः ।
सततं खलेषु भवतां क्व खलाः क्व च सज्जनस्तुतयः ॥" अभिसारिकाश्च प्रदोषेषु विवा-
हादिप्रकरणेषु मध्याह्नशून्येषु मार्गेषु वसन्तोत्सवे उद्यानयात्रासु विदूरेषु चैवंविधेष्वन्ये-
ष्वपि<error> संविधानक्रेषु</error><fix> संविधानकेषु </fix>कामुकमभिसरन्ति । यदुक्तम् --- "अटव्यामन्धकारे वा शून्ये वापि
सुरालये । उद्याने वा सरित्कुञ्जे प्रदेशे गर्हितेऽथवा । परदारेषु संकेतः कर्तव्यो रति-
सिद्धये । दूतीवक्रेण निश्चित्य स्वयं तत्र पुरा व्रजेत् ॥ ततः प्राप्तां प्रियां शीघ्रं सेवेत
रतिकोविदः । प्रेषयेदन्यमार्गेण स्वयमन्येन च व्रजेत् ॥ यथा न ज्ञायते कैश्चित्सुनिगूढो
विचक्षणः ॥" अभिसारयन्ति च दूत्यो नायिकामनेककौतुकवासनाभिः । यदुक्तमीश्वर-
कामिते – "प्रागेव स्वभवनस्थां ब्रूयात् अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणी-
यकानि दर्शयिष्यामीति । काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि ।
मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपिकां चित्रकर्माणि यन्त्राणि क्रीडामृगान्-"
इत्यादि । भवननर्म चैतत् । यथा रत्नावल्यामालेख्यदर्शनावसरे– "जा[^१]णिदो मए एसो
सव्वो वुत्तन्तो समं चित्तफलएण । ता गदुअ देवीए कहइस्सम् ।" इत्यादि ॥
 
काचित्प्रोषितभर्तृका विरहार्तिमोहेन प्रतिविधानमाकाङ्क्षन्ती वर्षारम्भबलाहकं
प्रत्याह ---
 
मलयमरुतां व्राता याता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटयितुं तं निःस्नेहं य एव निवर्तने
प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ ३२ ॥
 
हे घन, चैत्रीयाश्चन्दनसमीरा वहन्ति स्म । निदाघकालोऽपि पर्यवसितः । किं-
 
[^१.] "ज्ञातो मया एष सर्वो वृत्तान्तः समं चित्रफलकेन । तद्गत्वा देव्यै कथयिष्यामि ।"
इति च्छाया.