2022-10-14 12:42:12 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
युज्यते । अस्मिन्प्रेमवैशसे तव स्वल्पोऽपि दोषो नास्ति । अस्माकमेव दैवं वक्ष्यमाणम-
रणाध्यवसायेन प्रतिकूलम् । अस्माकमिति बहुवचनमौदासीन्यव्यञ्जकम् । अनेकार्थत्वाद-
व्ययानां । तुशब्दोऽवधारणार्थ: । केन प्रकारेण विधिः पराङ्मुख इत्याह --- तव यदीत्या-
दि । तव यद्यनिर्वचनीयेन प्रकारेण कोटिं प्राप्तं प्रेम इमां प्रसादनसमयेऽप्यन्यासक्तिशं-
सनलक्षणामवस्थां प्रपन्नमस्मादस्माकं स्वभावगत्वरे निन्द्यजीविते गते का व्यथा । अपि
तु न कापि । प्रकर्षप्राप्तस्य प्रेम्णो विपर्यासे त्वेषैव स्थितिः । यथा रत्नावल्याम् ----
"समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।
प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमहो प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भव-
ति ॥" तनुरपि न ते दोष इत्यत्र तवैव गरीयान्दोष इति विपरीतलक्षणया निषेधे वि-
धिः । एवं च त्वयि निरनुक्रोशेऽस्माकं विधिः पराङ्मुख इति प्रीत्यतिशयः । तवेत्यर्था-
न्तरसंक्रमितत्वेन शठस्येत्यर्थः । वयं त्वदेकशरणाः, तस्मात्का नः पीडा । अपि तु तवैव ।
प्रकृतितरले इत्यनेन संसारस्यानित्यता प्रतिपाद्यते । वैराग्यं च शृङ्गारोपनिबन्धे वयं
तावदनुचितं मन्यामहे । यथोदाहृतं दोषनिर्णये मम्मटालकाभ्याम् --- "प्रसादे वर्तस्व
प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां
<erro>क्षणभिमुखं</error><fix>क्षणमभिमुखं</fix> स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥" अत्र शृङ्गारे
प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी ।
यद्यपि शुद्धतार्किकाणां जातिघोटिक(?)वैयाकरणानामैकान्तिकच्छान्दसानां च दन्त-
कलहो न निवर्तिष्यते, यद्यपि च करणीय(?)सहृदयाः प्रस्रवणनिरोधवाधिता (?) इव
नासासंकोचं करिष्यन्ति, तथापि परमार्थसहृदयैः कृतयोगक्षेमाः पाठान्तरमभिदध्महे---
"अकृतविफले का नः पीडा गते हतजीविते" इति नायकस्यान्यासक्तिलक्षणस्य नायि-
'कायाः प्रीतिलक्षणस्यान्तरस्य प्रतीतिजनको भावो नामालंकारः । यदुक्तम्- "अभिधे-
यमभिदधानं तदेव तदसदृशसकलदोषगुणम् । अर्थान्तरमवगमयति वाक्यं तदसौ परो
भावः" इति ॥
काचित्स्वैरिणी जरदभिसारिकया सोपदेशमभिधीयते ----
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकत्रा[^१]सोत्कम्पं दिशः समुदीक्षसे ॥ ३१ ॥
हे मुग्धे, यदि त्वमित्थं वादितपटहा प्रियं प्रत्याभिमुख्येन गच्छसि, तदा अधिक-
त्रासेनोत्कम्पो यत्र तद्यथा भवत्येवं ककुभः किमित्युत्कंधरमीक्षसे । एवमाहतडिण्डिमा ।
एवं कथमित्याह---वक्षसि पारिप्लवं मुक्तादाम न्यस्तम् । शब्दायमाना मेखला नितम्बे
[^१.] "त्रासोत्कम्पा" इति शृङ्गारदीपिका.
४