2022-10-14 12:00:19 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
चेतसि तनुः तनुस्वे (?) कृशेत्यर्थः । तस्मिन्दृष्टे मानस्य कथं निर्वाहो भविष्यति ।
कोऽर्थः – मया भ्रूभङ्गादीनि दुष्कराणि कृतानि, परंतु न मानो निर्व्यूढः । तस्मादतः-
परं मानार्थे यत्नमपि न करिष्यामीति प्रीतिप्रकर्षो भविष्यत्या व्यज्यते । उत्तरयत्नाक्षे-
पालंकारौ ॥
सा[^१] पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठ[^२]ल्लोलोदकैरश्रुभिः ॥ २९ ॥
सा बाला भर्तुर्व्यलीकप्रस्तावे केवलं रोदित्येव । कीदृशी । लम्बितपक्ष्मलोचनेन्दीवरा ।
कैर्विशिष्टा । अश्रुभिः । कथंभूतैः । निर्मलकपोलयोर्यन्मूलं नेत्रयोरधोभागस्तत्र क्षरितैः ।
पुनः किंविशिष्टैः । लुठल्लोलोदकैः निमेषार्धबद्धबिन्दुजालतया लुठत्पतनशीलत्वेन लोल-
मुदकं येषां तैः । पुनः कीदृशैः । नैरन्तर्येण प्रथममेवोन्मृष्टकज्जलत्वात्स्वच्छैः । अथ-
वा ईर्ष्यामानेऽप्यनुपन्यस्तवक्रोक्त्यादेर्नायिकायाः स्वच्छतानुमापकैः । उपचारेणाश्रु-
भिरपि स्वच्छैः । ननु किमिति रोदित्येवमुल्लुण्ठनादिकमेव किमिति नारभत इत्याह---
नो जानाति । किं तत् । <error>सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् सहेलं</error><fix>सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनं सहेलं</fix> भ्रूक्षेपादिभिरङ्गवल-
नादिभिरनृजुभणितिभिश्चापराधस्य सम्यगनुमानम् । तदेव किमिति न वेत्तीत्याह---
सख्योपदेशं विना सख्येनोपदेशः अर्थात्सख्यास्तं विना । अत्र तावत्कविः प्रायस्तटस्थो
वक्ता । सेति पदं च दूतीदूतप्रभृतिकस्य रतिवासनालिङ्गितान्तःकरणस्य वा वक्तुर्युज्यते,
न तु तटस्थस्य । तस्मात् "कान्तस्य प्रथमेऽपराधसमये" इति पाठो युक्तः । अथानुरक्त
एव वक्तास्तु । मैवम् । पत्युरित्यनुपपन्नत्वात् ॥
काचिदन्यनायिकानुरक्तं नायकं प्रति ब्रूते-
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ ३० ॥
हे प्रिय, भवतु अनुनयोपक्रमैरालापैरास्ताम् । कोऽर्थः - ज्ञातं तव स्वरूपम् । प्रसाद-
नप्रवृत्तस्यापि सर्वाकारमन्यासक्तिशंसिन्येव च्छाया बाह्याकारेण दाक्षिण्यमात्रमेतत् । अत
एव व्यर्थालापैः पूर्यताम् । त्वदधीनं मे जीवितमित्यादीनामालापानामर्थस्य विगतत्वाद्व्य-
र्थता । तस्माद्यत्रैव प्रतिभासते तत्रैव गम्यताम् । नहि प्रियस्य समीहितप्रतिबन्धः कर्तुं
[^१.] "प्राणेशप्रणयापराधसमये" इति शृङ्गारदीपिका. [^२.] "लोलालकैः" इति शृङ्गार-
दीपिका.