This page has been fully proofread once and needs a second look.

यदुक्तम् – एवमपरेऽपि व्रीडानुपहताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति ।
यथा-- "स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभ-
रोत्कम्पेऽपि वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्ग्या हठकेश-
कर्षणघनाश्लेषामृते लुब्धया ॥" सद्भावरहःसहचरीणां परस्परसौभाग्यसाक्षात्कारेणा-
ह्लादो भवतीत्यालीजन आनन्दितः । कविर्वक्ता । विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यनेन विभावनालंकारः । यदुक्तम् – "सेयं विभावनाख्या यस्यामुपलभ्यमान-
मभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥ "अत्रार्थशक्त्याक्षिप्तो रिरं-
सालक्षणोऽर्थः कविना सखीजनसव्याजगमनात्मिकया स्वोक्त्या भूयोऽपि व्यञ्जितः । <error>यदु</error><fix>यदु-</fix>
क्तम् – "शब्दार्थशक्त्याक्षिप्तोऽपिं व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या
सान्यैवालंकृतिर्ध्वनेः ॥" यथा - "अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवस-
प्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥" मनोहारिणीं
लक्ष्मीमित्यनेन शोभा नाम नाट्यालंकारः - "रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।"
यथा - "तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभा-
ह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥" मुग्धाक्षीत्यनेन कान्तिश्च –"मन्मथा-
प्यायिता छाया सैव कान्तिरिति स्मृता ॥"
 
यथा मानं त्याजिता सती तत्कालमवलम्ब्यमानेर्ष्यातिरेकेण संयुज्यमाना रहसि रमणे
रतिरमणरहस्यसर्वस्वमुन्मुद्रयति न तथा नित्यमेवेत्यनुसंधाय सखीभिः प्रणयमानं
शिक्षिता सती ताः प्रति काचिदाह -
 
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २८ ॥
 
लोचनगोचरे सति तस्मिञ्जने मानस्य निर्वाहः कथं भविष्यति, अपि तु न कथमपि
तस्मिन्नित्यनिर्वचनीयचमत्कारे जने इत्यर्थान्तरसंक्रमितत्वेन प्राणेश्वर इत्यर्थः । नहि
कृत्रिमैरुपायैरयुतसिद्धं वस्तु निह्नोतुं शक्यते । तदत्र क उपायः किं च वस्त्वित्याह-
भ्रूभङ्ग इत्यादिना । एवमेव तावत्प्रियतमं दृष्टिः सोत्कण्ठमुद्वीक्षते । भ्रुकुटिकौटिल्ये
नाटिते पुनरधिकं सोत्कण्ठमुद्वीक्षते । यथा कश्चित्पक्षी बलात्कारेण रुध्यमानः कथं-
कथमप्युड्डीय यत्रत्यो भवति तत्रैव गत्वा रमते । अभिनीतेऽपि वाचंयमत्वे ममेदं दग्ध-
मुखं सस्मितं भवति । धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यन्ते । अथ च तेन सार्ध-
मालापनमन्तरेणाप्रयोजनमाननं दग्धमेव । काठिन्यं गत इत्येव न, अपि तु काठिन्यं
गमिते । तथाभूतेऽपि मनसि तनुः पुलकं बिभर्ति । अथ च प्रिये काठिन्यं गमिते