2022-10-14 11:09:19 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
प्रायः । तत्प्रियतमास्तनविलेपनलाञ्छितस्य वक्षसो रक्षणं तव महत्प्रयोजनम्, चरणा-
नतिव्यतिकरस्तु मिथ्यारम्भ इति । यद्यपि तस्या इति पदस्य स्तनयुगपदेन सह संब-
न्धस्तथापि वक्षःपदेन सह संबन्धविधायको भिन्नविभक्तिनिर्देश उचितः । तस्याश्च आ-
धीनं तव हृदयमिति प्रतीतेः । आश्लिष्टापि मानं तत्याज न वेत्याह - तस्याश्च परिरम्भ-
सुखवशात्तद्विलेपनं विस्मृतम् । चशब्दस्तुल्यकालताप्रतिपादनार्थः । यदैवालिङ्गिता तदैव
कोपकारणं विस्मृतवतीति प्रीतिप्रकर्षः । अत्र कोपस्य शान्तिरित्यत्र भावशान्तिः । ईर्ष्या-
मानात्मकविप्रलम्भारम्भपर्यवसितः संभोगः । नायको वक्ता पूर्ववत् । पिहितमलंकारः ।
यदुक्तम्— "यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं विदध्यादा-
विर्भूतमपि तत्पिहितम् ॥" "व्यक्तागा वितथो धृष्टः" इत्यनेन धृष्टो नायकः । माननर्म
चैतत् । यथा — "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसति मा गाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥"
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिका[^१]संस्पृशि ।
शय्योपान्तनिविष्टसस्मितस[^२]खीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २७ ॥
अलीकवचनानामुपन्यासो यत्र तद्यथा भवत्येवं वयस्याजनः शनकैर्निर्गतः । किं-
विशिष्टः । शय्योपान्तेत्यादि । कान्तशय्योपान्ते [निविष्टा] या सखी नायिका तस्या
नेत्रोत्सवेन प्रमुदितः । क्व सति । कञ्चुलिकाया वीटिकासंस्पृशि प्रियतमे इत्यभिधायिनि
सति । इतीति किम् । हे विह्वलाक्षि, त्वं कञ्चलिकामन्तरेणैव रमणीयां शोभां दधासि ।
अत्र मदनालसलोचनां दृष्ट्वा ग्राम्येतरभङ्गीभणितिप्रक्रमेण रिरंसुः कामी मुग्धाक्षीति
संबुबुधे । सत्यां कञ्चलिकायामङ्गसौन्दर्यस्य प्रत्युत पिधानं भवतीति विनैवेत्येवकारस्य
तात्पर्यम् । कञ्चुलिका चेयं दाक्षिणात्यचोलिकारूपैव । तस्या एव ग्रथनपदार्थे वीटिका-
व्यपदेशः । अन्यत्र क[^३]षातनिकेत्येवमादयः । भवतीष्वप्युपविष्टास्वयमेवंविधं चेष्टत इति
सलज्जकृतस्मिताया नायिकायाः सखीजनं प्रत्यवलोकनमात्रमेव नेत्रोत्सवः । ननु स्पर्श-
सुखेन नयननिमीलनं नायिकानां प्रसिद्धम् । यदाह कालिदासः - "मधु द्विरेफः कुसुमै-
कपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्ण-
सारः ॥" इत्यादिषु तिर्यक्संभोगेऽपि तदेव श्लाघ्यम् । तत्कथमत्र विकस्वरदृष्टिता व्या-
ख्यायते । अत्रोच्यते — नहि सर्वासामेव नायिकानां स्पर्शसुखेन लोचननिमीलनं स्पृह-
णीयम् । प्रौढनायिकानामेवोपवर्ण्यमानत्वात् । ता हि सुरतारम्भ एवाचेतना भवन्ति ।
इयं च मध्या नायिका मुग्धाक्षीति मदनालसलोचनेति कान्तं प्रत्यनभियोगित्वात् ।
[^१.] "वेणिका" इति शृङ्गारदीपिका. [^२.] "वधू" इति शृङ्गारदीपिका. [^३.] "कस"
"तनी" इति तद्वाचकौ हिन्दीभाषाशब्दौ.