This page has not been fully proofread.

कस्मात्त्वमद्य विमना इव लक्ष्यसे इत्यादि केनचित्पृष्टः कश्चिन्नायकः कान्ताप्रणयमा-
नचेष्टामाचष्टे-
 
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मां नालपतीत्ययं खलु शठः कोपस्याप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाप्पस्तु मुक्तस्तया ॥ २४ ॥
 
पश्यामस्तावदियं मयि स्वयं कीदृशीमालपनादिप्रतिपत्तिमुपक्रमत इत्यपेक्षया मया
निर्व्यापारेण स्थितम् । एष निश्चयेन कितवः कस्मान्मां न भाषत इति मनसि विभाव्य
तया कोपः स्वीकृतः । इत्यमुना प्रकारेणान्योन्यस्य या विलक्षा दृष्टिस्तत्र चतुरं यत्को-
पप्रसादरूपाया अवस्थाया मध्यं तस्मिन्मया संप्रतिपत्तिप्रवृत्तेन किमपि मिथ्यैवोद्भाव्य
हसितम् । तया पुनर्धृतिहरो बाष्पस्त्यक्तः । धृतिं हृतवान् । "पचादिभ्यश्च" इत्यच् । अ-
धृतं सूचितवानित्यर्थः । नहि बाष्पः प्रथममुत्पद्य धृतिं जहार । अपि त्वभृतिसमनन्तर-
मुत्पन्नो नायकस्य धृतिं हृतवानिति चेत्, मैवम् । मानिनीमानस्य प्रत्युताश्रुमोक्षान्तत्वात् ।
"पश्यामः" इत्यत्र "पश्येयम्" इति पाठो युक्तः । मयीत्येकवचनव्यपदेशात् । "किं मां
नालपतीति" इत्यत्रेतिशब्दोऽस्थान निवेशितः । शठशब्दानन्तरं प्रयोजनीयत्वात् । "अन्यो-
न्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे" इत्यत्रावस्थान्तरं चतुरताधिकरणं भवितुमशक्तं
सत्स्वंबद्धं मिथुनं लक्षयति । तां विलक्षां दृष्टिं तदेवावस्थान्तरं जानाति न पुनरन्यः
कोऽपीति दृष्टेरनिर्वचनीयत्वं चात्र प्रयोजनम् । प्रणयबहुमानलालिता मुग्धा नायिका ॥
कस्यापि विस्रम्भसंभावितस्याग्रे नायको वक्ति-
 
परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तैया पक्ष्मप्रान्तध्वजपुटनिरुद्धेन सहसा
प्रसादो बाप्पेण स्तनतटविशीर्णेन कथितः ॥ २५ ॥
 
तया प्रसादः कथितः । अनुमानेन प्रतिपादित इत्यर्थः । केन । बाष्पेण । किंविशि-
टेन । पक्ष्मप्रान्तध्वजपुटनिरुद्धेन । पक्ष्मप्रान्तावेव ध्वजौ तयोः पुटं तत्र निरुद्धेन । अव्य-
यानामनेकार्थत्वान्निमेषमात्रं रुद्धेन । तु निःशेषतो रुद्धेन । अत एव रोद्धुमशक्यत्वा-
त्सहसा स्तनतटविशीर्णेन । अयमभिप्रायः - हृदये द्रुताया नायिकायास्तावदश्रूद्गमो
जातः । पश्चात्तया संवरणार्थ रोद्धुमारब्धः । अथ दुर्वहतयासौ बलात्कारेण स्तनयोरुपरि
पपात । पक्ष्मप्रान्तयोर्ध्वजपुटरूपेण दैर्ध्य साधारणो धर्मः । पुटशब्दोश्रुनिरोधप्रयत्न-
 
[^१.] "मुक्तच बाष्पस्तया" इति शृङ्गारदीपिका. [^२.] "तदा पक्ष्मप्रान्तत्रजपुट" इति
शृङ्गारदीपिका.