2022-10-14 07:38:47 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
नं, अपि तु विपक्षरमणीनामग्रहे भूताविष्टस्य ग्रह इव ग्रहे । अत एव नायिकाया
आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधी-
रणहेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं
पुनरवलोकितः । अत्रौत्सुक्नयभावस्योदयः । यदुक्तम् – "भावस्य शान्तिरुदयः संधिः
शबलता तथा ।" उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम् – "नरः कलामुसु
कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥"युयथास्म-
त्पूर्वजस्य वाक्पतिराजापरनाम्नो मुञ्जदेवस्य – "दासे कृतागसि भवत्युचितः प्रभूणां पाद-
प्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकांकाग्रैर्यत्विखिद्यते तव पदं ननु
सा व्यथा मे ॥" तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्यत्रेवकारेण म्लानसदृशोऽपि
मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशृङ्गारः ।
"गूढविप्रियकृच्छठः" इत्यनेन शठो नायकः । यथा – "शठान्यस्याः काञ्चीमणि रणितमाकर्ण्य
सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः। तदेतत्क्कावाचक्षे घृतमधुमय त्वद्बहुवचौचोविषे-
णाघूर्णन्ती किमपि न सखी मे गणयति ॥" मृदुकोपा मुग्धा नायिका ॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
रैर[^१]न्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपानङ्गवलनान्मिश्रीभवच्चक्षुषो-
र्भग्नो मानकलिःसंस[^२]हासरभसं व्यावृत्तकण्ठग्रहः ॥ २३ ॥
दंपत्योः प्रणयमानकलहो भग्नः । किंविशिष्टः सहासरभसं यथा भवत्येवं व्याधुघुटितः
कण्ठाश्लेषो यत्र स तथा । अभग्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतो-
यर्व्यावृत्त इति भङ्गविशिष्टस्यैव मानकलेरिदं विशेषणम् । केवले मानकलहे कण्ठग्रहस्या-
नुपपन्नत्वात् । केन क्रमेण भग्न इत्याह – एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया
किमित्येवंकृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि यन्त्र तद्वीतोत्तरं यथा भवत्येवं
ताम्यतोः । उत्तरव्यय एव कथं जात इत्याह-पराङ्मुखतया । पुनः कथंभूतयोः । पर-
स्परं चित्तस्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्वं स्वं लाघवमाशङ्कमानयोरि-
त्यर्थः । अथ च मानभङ्गहेतुगर्भभं विशेषणमाह - पुनः कीदृशयोः । स्तोकस्तोकं लोचना-
श्चलविवर्तनेन संघटमानदृष्ट्योरिति । प्रणयमानात्मकविप्रलम्भपूर्वकः स्पर्शनात्मा संभो-
गः । "एकत्रासनसंस्थितिः-" इत्यारभ्यामुं श्लोकं यावत्षट्श्लोकेषु कविर्वक्ता ॥
[^१.] "अन्योन्यस्य हृदि स्थिते" इति शृङ्गारदीपिका. [^२.] "सहासरभसव्यावृत्तकण्ठ-
ग्रहम्" इति शृङ्गारदीपिका.
आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधी-
रणहेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं
पुनरवलोकितः । अत्रौत्सुक्
शबलता तथा ।" उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम् – "नरः कला
कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥"
त्पूर्वजस्य वाक्पतिराजापरनाम्नो मुञ्जदेवस्य – "दासे कृतागसि भवत्युचितः प्रभूणां पाद-
प्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्ट
सा व्यथा मे ॥" तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्यत्रेवकारेण म्लानसदृशोऽपि
मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशृङ्गारः ।
"गूढविप्रियकृच्छठः" इत्यनेन शठो नायकः । यथा – "शठान्यस्याः काञ्चीमणि
सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः। तदेतत्क्
णाघूर्णन्ती किमपि न सखी मे गणयति ॥" मृदुकोपा मुग्धा नायिका ॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
दंपत्योः शनकैरपा
र्भग्नो मानकलिः
दंपत्योः प्रणयमानकलहो भग्नः । किंविशिष्टः सहासरभसं यथा भवत्येवं व्या
कण्ठाश्लेषो यत्र स तथा । अभग्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतो-
नुपपन्नत्वात् । केन क्रमेण भग्न इत्याह – एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया
किमित्येवंकृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि य
ताम्यतोः । उत्तरव्यय एव कथं जात इत्याह-पराङ्मुखतया । पुनः कथंभूतयोः । पर-
स्परं चित्तस्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्वं स्वं लाघवमाशङ्कमानयोरि-
त्यर्थः । अथ च मानभङ्गहेतुगर्