This page has been fully proofread once and needs a second look.

न्तरं यावानर्थो गम्यते तावता शब्दस्याभिधैव व्यापार इति चेत्, प्रष्टव्या यूयम् "ब्रा-
ह्मण, पुत्रस्ते जातः कन्या ते गर्भिणी" इत्यादौ हर्षशोकादीनामपि [न] वाच्यत्वम् ।
कस्माच्च लक्षणा । लक्षणीयेऽप्यर्थे दीर्घदीर्घाभिधाव्यापारेणैव प्रतीतिसिद्धेः । जाया च
पतिश्च दंपती । उत्तरपदाधिकारे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । दुर्गसिं-
हाचार्यस्तु जंदंशब्दौ जायासमानार्थाविति मन्यते । शुकादयस्स्तु शृङ्गारिणां भवनेषु
भवन्त्येव यदुक्तम् – "वृक्षायुर्वेदयोगमेषकुक्कुटलावकयुद्धविधिशुकशारिकाप्रलापनम्"
इत्यादि । दाडिमबीजमेव पद्मरागसदृशं भवति न तु फलमित्याशङ्का यदि भवति तदा
"दाडिममृषाबीजेन" इति युक्तः पाठः । वाग्बन्धनमियत्र कारणे कार्योपचारः । तेन
मुखबन्धनमित्यर्थः । अन्योऽपि यः परमर्मोद्घाटनं करोति तस्य बन्धनं विधीयत इत्यु-
क्तिलेशः । कविर्वक्ता । लज्जया व्यभिचारिभावेन पुष्टः संभोगशृङ्गारः । पद्मरागशकले
दाडिमबीजभ्रान्तिरिति भ्रान्तिमानलंकारः । यदुक्तम् - "वस्तुविशेषं पश्यन्नवगच्छेदन्य-
मेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ॥" यथा - "पालयति त्वयि
वसुधां विविधाध्वरधूमशालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशङ्किनो हंसाः ॥"
काचिन्मानिनी मन्यूपतापेन नायकं प्रति सोल्लुण्ठमभिधत्ते--
 
अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां
किं लब्धं शठ दुर्नयेन नयतां सौभाग्यमेतां दशाम् ।
पश्यैतद्दयिताकुच[^१]व्यतिकरोन्मृष्ट्राङ्गरागारुणं
वक्षस्ते म[^२]लतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ १७ ॥
 
हे कितव, त्वया किमुपार्जितम्, अपि तु न किमपि । किं कुर्वता । मदालिङ्गनरूपेण
दुर्नयेनात्मनः सौभाग्यमेतामयोग्यामवस्थां प्रापयता । किं कृत्वा । अन्याङ्गनासंगमलक्ष-
णात्परिभवाद्दुःखितामनभिमुखीमाश्लिष्य । केन । अज्ञानेन । कोऽर्थः । यस्यां त्वमनुरक्तस्त-
द्भ्रमेण । कीदृशी सौभाग्यदुरवस्थेत्याह—– पश्यैतदित्यादि । वर्तते । किं तत् । तव वक्षः ।
कीदृशम् । मलतैलपङ्कशबलैर्वेणीपदैरङ्कितं लाञ्छितम् । किंविशिष्टं पूर्वमासीत् । दयिता-
कुचव्यतिकरोन्मृष्टाङ्गरागारुणम् । वल्लभास्तनयोर्व्यतिकरेण संबन्धेन प्रोञ्छितो योऽङ्गरा-
गस्तेनारुणम् । अत्र दयिताया आज्ञाभङ्गो दुर्नयशब्दार्थः । तेन च तया त्वं निग्राह्यो-
ऽसीति व्यङ्ग्यम् । पश्येतिक्रियाया वाक्यार्थ एव कर्म, न तु वक्षः । नहि वक्षस्ते पश्ये-
त्युक्तिर्भवति अपि तु वक्षस्त्वमिति । इयं च नायिका ऋतुस्नातोन्मुखी । अन्यथा
तैलपङ्कादिप्रयोगः शृङ्गारोपनिबन्धे तत्रभवतां छान्दसानामेव सुकरः । तस्मिन्नेवावसरे
नायकेन नूनमन्याङ्गनासङ्गः कृतः । ईर्ष्यामानात्मको विप्रलम्भः । आलिङ्गनेन स्पर्श-
नात्मकः संभोगोऽपि किं न स्यादिति चेत्, न । परस्परानुकूल्याभावात् । न चैवं प्रती-
तिरपि नास्तीति वाच्यम् । पराङ्मुखत्वेऽपि नान्योऽयमिति प्रतीतेः । यथोत्तरचरिते
 
[^१.] "व्यतिकरासक्ताङ्ग" इति शृङ्गारदीपिका. [^२.] "मम तैलपङ्कमलिनैः" इति शृङ्गार-
दीपिका.