This page has been fully proofread once and needs a second look.

हेनोपायमपि न जानामीत्यर्थः । अत्रेदं विमृश्यते – ननु य एष क्रीडाकोपमात्रेण श-
य्योत्थायं गत एव स किं ग्राम्यः, उतान्यासक्तः । न तावदाद्यः । शृङ्गारोपनिबद्धस्याग्रा-
म्यत्वात् । नापि द्वितीयः । सापराधस्य विटस्यापि वा नायिकायाः सुमहत्यपि कोपे
प्रसादनैकपरत्वात् । न च सापराधे प्रेयसि क्रीडाकोपो भवति भामिनीनाम्, अपि तु
वास्तव एव । तस्मादयं क्रीडाकोपावमानितः सन्नुत्थाय कुड्यान्तरितो भूत्वा प्रियतमाया-
स्वत्कालमदर्शनमात्रेण प्राणपरिहारं यावदध्यवसितायाः प्रेमसर्वस्वनिधानमुद्राभङ्गका-
रिभिरभिमानवाक्यैः श्रवणेन्द्रियं चरितार्थयति । प्रणयमानात्मको विप्रलम्भः । "कल-
हान्तरितामर्षाद्विधूतेऽनुशयार्तियुक्" इति कलहान्तरिता नायिका ॥
 
दंपत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतः श्रु[^१]त्वैव तारं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य च[^२]ञ्चाः पुरो
व्रीडार्ता प्र[^३]करोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ १६ ॥
 
त्रपापर्याकुला वधूः श्रवणालम्बितशोणमणिशकलं विन्यस्य चञ्च्वाः पुरः प्रणिधाय
दाडिमफलरूपेण च्छद्मना वाग्बन्धनं प्रयत्नेन करोति । किं कृत्वा । श्रुत्वैव किं तत् ।
वचः । कस्य । अर्थवशाद्विभक्तिविपरिणामेन शुकस्यैव । किं कुर्वतः । प्रभाते श्वशुरश्व-
श्रूप्रभृतीनां प्रत्यासत्तावुच्चैः स्वरं निगदतः । तत्किम् । यद्रात्रौ स्त्रीपुंसयोः किंचिदेकान्तो-
चितं वाच्यावाच्यं जल्पतोः संबन्धि तेनैव मन्दिरशुकेन श्रुतम् । दंपत्योर्मध्ये वधूरिति
संबन्धः । तयोरेतावती लज्जा यन्निशि दंपत्योर्जल्पतोः दिवा पुनरौदासीन्येन दंपती इति
न ज्ञायेते । न च परस्परं जल्पतोः । प्रातः श्रुत्वेत्यनेन सुरतालापैर्जागरितसकलरात्रि-
रपि प्रथमप्रबुद्धेयं नायिका । कुलाङ्गना हि चरमं शायिन्यः प्रथमं प्रबोधिन्यश्च भवन्ती-
ति । एवंविधैरालापैस्तु रजनिरज्ञातैव प्रयाति । यथोत्तरचरिते – "किमपि किमपि
मन्दं मन्दमासक्तियोगादविचलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकै-
कदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥" श्रुत्वैवेत्येवशब्दस्याव्ययानामनेकार्थत्वे-
नाविलम्बोऽर्थः । केचित् "तस्यैव वधूः" तारम् इति पठन्ति । तेन चान्वयः सुखावहो न
भवति । यदुक्तम् –"वाक्यं यत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । समुदायः शब्दा-
नामेकपराणामनाकाङ्क्षः ॥ अन्यूनाधिकवाचकसक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षमम-
क्षुण्णं सुमतिर्वाक्यं प्रयुञ्जीत ॥" उक्तं हि — "अभिहितान्वयवादिनां मते सामान्यरूपाणां
पदार्थानामाकाङ्क्षायोग्यतासंनिधिवशात्परस्परसंसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः प्रकाशते"
इति । अखण्डवाक्यवादिनां मते तु वाक्योपदेशः कर्तुं न युज्यते । व्यङ्ग्यव्यञ्जकभा-
वाभावात् । यदुक्तम्– "सोऽयमिषोरिव दीर्घदीर्घो व्यापारः शब्दस्य" इति । शब्दश्रुतेरन-
 
[^१.] "तस्यातिमात्रं वधूः" इति शृङ्गारदीपिका. [^२.] "चञ्चूपुटे" इति शृङ्गारदीपिका.
[^३.] "विदधाति" इति शृङ्गारदीपिका.