This page has been fully proofread once and needs a second look.

त्विग्विवाह्यो राजा प्रियः स्नातक इति । श्रौताचारवतामागमनोचितमेतत् । न पुनः
प्रणयोचितम् । शिरस्याज्ञा न्यस्ता, न तु हृदये । सापि पाषाणभारवदतिदुर्वहा । अति-
दुर्वहं वस्तु मस्तके धार्यते । अत एवानतिमतीति शिरोविशेषणम् । मिलने दृष्टेर्न शैथि-
ल्यम् । मनसो मिलने तु शैथिल्यमेव । अथ च दृष्टेः शैथिल्यं न । अमुना प्रकारेण त्वया
दूरादेव स्मितमधुरं यथा भवत्येवमभ्युत्थानं कृतम् । इदं क्रियतामित्यादिकार्यनियोग
आज्ञा । सापि प्रियवचनवती मे आनम्रशिरसि प्रतीष्टा । अन्यच्च तव दृष्टेर्मम दृष्ट्या सह
मिलने शैथिल्यं नास्तीत्येतावत्संवृतिस्वरूपम् । दूरादेवाभ्युद्गमः कृतो न तु प्रत्यासत्तौ ।
शरीरसंपर्कसंभावनायामप्यसहनत्वात् । यः पूर्वं मम तथा वशीभूत आसीत्तस्यैव प्रिय-
तमस्यान्याङ्गनासङ्गिनोऽप्यनुवृत्तिं करोमि प्राणांश्च धारयामीत्यात्मन्यसंभावना। अभ्युप-
गमोऽपि तस्या नास्ति, अपि तु साटोपत्वम् । तवौदासीन्यमात्रेऽपि मम चेतो दह्यते तत्का
नामान्याङ्गनासङ्गसंभावना। तस्मात्पिशुनविजृम्भितमेतत् । यच्च मम हृदये दह्यमानेऽपि
तव हृदयस्य काठिन्यं तत्र निगूढान्तःकोपता हेतुः । अन्तर्निखातकर्कशपदार्थं हि
कोमलमपि कठिनं भवति । मिलन इत्यत्र यद्यपि गुणप्रतिषेधो न प्राप्नोति तथापि
रूढिरस्ति । अनुमानालंकारः । यथा - "वचनमुपचारगर्भम्-" इत्यादि प्राग्दर्शितम् ।
औदार्यं प्रदर्श्य सदे(?)त्यनेनौदार्यं नाट्यालंकारः । यथा –"अ[^१]इदुक्किआएँ दिअहं सकलं
काऊण गेहवावारम् । गरुए वि मण्णुदुःक्खे भरिमो पाअन्तसुत्तस्स ॥"
 
काचित्प्रणयकलहान्तरिता सहचरीं प्रत्याह--
 
कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते
कठिनहृदयः श[^२]य्यां त्यक्त्वा बलाद्गत एव सः ।
इति स[^३]रभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्पृहा
पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ १५ ॥
 
हे सखि, किं करोमि । अपि तु न किमपि । यतः पुनरपि मे निस्त्रपमन्तःकरणं त-
स्मिन्प्रियतमे स्पृहां करोति । किंविशिष्टे । यतो व्यपेतघृणे निःशङ्के । पुनरपि कीदृशे ।
सरभसमपर्यालोचितमपास्तप्रेम्णि । तस्मादिति कस्मात् । यतः स कर्कशहृदयो बलात्कारेण
गत एव । क्व सति । कथमपि प्रणयरोषाद्गच्छेति मयोक्ते सति । कथमपिशब्दस्यायमभिप्रा-
यः — क्रीडयापि कोपं न करोमि । क्रीडाकोपेऽपि माकदाचिदसौ वैमनस्यं गच्छेत । शय्यां
त्यक्त्वा गतः, न तु माम् । उपनतेऽप्यमङ्गले न कश्चिदात्मनः स्वयममङ्गलं शंसतीत्याशयः ।
बलाद्गतः सोऽपि किं स्वभावेन गन्तुं शक्नोति । अत एव सरभसं ध्वस्तप्रेम्णि । व्यपेतघृणे
इयं मया विना न जीविष्यतीति जानत्यप्युपेक्षितवति । किं करोमि । इतिकर्तव्यतामो-
 
[^१.] "अतिदुःखिताया दिवसं सकलं कृत्वा गेहव्यापारम् । गुरुकेऽपि मन्युदुःखे
स्मरामः पादान्तसुप्तस्य ॥" इति च्छाया. [^२.] "त्यक्त्वा शय्यां" इति शृङ्गारदीपिका.
[^३.] "सरभसध्वस्त-" इति शृङ्गादीपिका.