2022-10-13 10:43:09 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैः पुनरध्वगस्य वसतिग्रमे निषिद्धा यथा ॥ १३ ॥
अर्धरात्रे निर्भरमम्भोधरस्य वर्षतः स्तनितमाकर्ण्य दीर्घोत्कटश्वासमुत्कटबाष्पा-
म्बुना विरहिणीं मुग्धां विरहातिवाहनोपायेष्वनभिज्ञतया शङ्कनीयां गद्गदलोलमनिशं त-
देकतानेन स्मरता पथिकेन समस्तामपि रात्रिमसंकोचितकण्ठस्वरं तथा रुदितं यथा
ग्रामनिवासिभिर्भूयः पान्थस्य वासो ग्रामे निवारित इति । यदि मार्गो वहति तदा प्रच-
लति । यदि च लोको जाग्रद्भवति तदा वाङ्मिश्रणेनापि कियतीमपि विरहव्यथामति-
वाहयति । निशीथे उभयस्याप्यभावादप्रतिविधानस्तपस्वी पान्थः शब्दान्तराभावात्के-
वलं नीरदनिनादमेव दुःश्रवं श्रुत्वा मुक्तश्वासोऽनुद्यमद्योतकमश्रुपातं विधाय क्रन्दितुमे-
वारब्धवान् । मेघवृष्टिर्दृष्टिप्रतिबन्धको बाष्पयोगश्चेत्यपरं गमननिरोधे कारणद्वयम् । वा-
रिधरस्य, न तु वारिमुचः । वारिमुच इत्यनेन हि पदेन क्रमात्सलिलक्षयोऽपि संभाव्यते ।
न तु वारिधरस्येत्यनेन । अत एव सान्द्रसलिलसंपदाध्माततया धीरं वारि किरत इति ।
बालां पूर्वाननुभूतविरहव्यथाम् । अखिलत्वं क्रन्दनविषयायाः पश्चिमाया एव रात्रेः । न
तु सकलरात्र्यभिप्रायेण । अर्धरात्र एव मेघध्वनेः श्रुतत्वात् । ग्रामीणाः प्रायो नायिका-
नुराग विदग्धवक्रोक्तिविरहवेदनानर्मभङ्गिष्वनभिज्ञा भवन्ति । परं तैरप्यध्वगस्य वसति-
र्ग्रामे निषिद्धा । "ग्रामाद्यखञौ" । "आयनेयीनीयियः फडखछघां प्रत्ययादीनाम्" इति
खस्थाने ईनादेशः । प्रवासात्मको विप्रलम्भः । कविर्वक्ता । अत्र न तथालंकारः क-
श्चिदुद्भावनायामवतरति । अस्मिन्काव्ये तथाविधा अलंकाराः प्रायशो न दृश्यन्ते ।
प्राणात्मकेन रसेनैव चमत्कारः परां कोटिमधिरोहति । यदुक्तमुपाध्यायेन - "स्वभावर-
मणीयानां पदार्थानामलंक्रिया । प्रत्युताच्छादकत्वेन न प्रकर्षाय जायते ॥"
कश्चित्तत्कालमागतो मानिनीं प्रत्याह -
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्र[^१]तिवचनवत्यानतिमति ।
न दृ[^२]ष्टेः शैथिल्यं मिलन इति चेतो दहति मे
निगूढान्तः कोपा[^३] कठिनहृदये संवृतिरियम् ॥ १४ ॥
हे कठिनहृदये, इयं निगूढान्तःकोपा तवाकारगुप्तिर्मम चेतो दहति । कथं संवृतिः ।
इत्यमुना प्रकारेण । प्राय ईर्ष्यास्मितेनापि यन्माधुर्यं तत्किमपि नायिकाया रामणीयकं द्यो-
तयति । अभ्युद्गमविधिरित्यत्र विधिशब्दस्यायमभिप्रायः - षडर्घ्या भवन्ति । आचार्यो ऋ-
[^१.] "प्रतिवचनमप्यालपसि च" इति शृङ्गारदीपिका. [^२.] "दृष्टिः शैथिल्यं भजत इति"
इति शृङ्गारदीपिका. [^३.] "कोपे" इति शृङ्गारदीपिका.