2022-10-13 10:06:24 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
नश्रवणकौतुकचपले श्रोत्रे च कर्णकण्डूयनव्यपदेशेनाकुञ्चिते । अपरं च स्वविवक्षारस-
सूचकः कपोलयोः सरोमाञ्चः स्वेदोद्गमो हस्ताभ्यामाच्छादितः । अत्रेदं प्रकर्षेण (?)
प्रियविषये प्रीतिप्रकर्षे एव। मानाय नायिकया प्रयत्ने क्रियमाणेऽप्यवयवानां प्रियसंगमो-
त्सुकत्वात् । अत्राप्युत्तर एवालंकारः । यथा – "भण मानमन्यथा मे मौनं भ्रुकुटिं वि-
धातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखी भवितुम् ॥" यत्नाक्षेपश्च ।
यदुक्तम् – "यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्यो-
पदर्शनात् ॥" यथा -– 'गच्छेति वक्तुमिच्छामि त्वप्रियं मत्प्रियैषिणी । निर्गच्छति
मुखाद्वाणी मा गा इति करोमि किम् ॥"
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि प[^१]रेण वा
किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालाला[^२]पैः सबाष्पगलज्जलैः ॥ १२ ॥
वासरशतप्राप्यं देशं प्रियस्य जिगमिषोः प्रस्थानं मुग्धा निषेधति । कैः । अश्रुगलज्जलै-
रालापैः । कथम् । इत्यमुना प्रकारेण । हे प्रिय, प्रथमप्रहरावसाने त्वमिहागमिष्यसि ।
अथवा मध्याह्ने । उत स्वित्तस्मादपि परेण । तृतीयप्रहरेणेत्यर्थः । अत्र "विवक्षातः का-
रकाणि भवन्ति" इति करणे तृतीया । यथा – "समेन धावति", "विषमेण धावति" इत्यादौ ।
अपिशब्दस्यायमभिप्रायः - हे निष्करुण, मध्याह्नादप्यनन्तरं बहिः स्थातुं न युज्यत
इति । अत्र सप्तम्यन्तानां पदानामन्तरेऽस्य पदस्य तृतीयान्तत्वेनोपक्रमभङ्गो न दोष
एव । अर्थस्यान्यथा प्रतीतेः । पददोष एवास्य रसकवेः क्वाप्यस्तु । यदुक्तमुपाध्यायेन-
"पदविह्वलता क्वापि स्पृहणीया भवति रसकवीन्द्राणाम् । घनजघनस्तनमण्डलभारालस-
कामिनीनां च ॥" अनेनापि प्रश्नेन यदा नायकोऽनभ्युपगमनसूचकं मौनमेव जग्राह,
तदा नायिका पुनराह – अनन्तरमाहोस्वित्सर्वस्मिन्नेव दिनेऽतिक्रान्ते । अत्र मौग्ध्येन
नर्मस्पर्शिन्यां विरहासहिष्णुतायां तात्पर्यम् । अत एव रात्रौ व्यतीतायामुदिते स्विदा
गमिष्यतीति प्रयोगो न कृतः । विरहासहिष्णुतात्मकविप्रलम्भरसोत्कर्षहेतुर्जाति-
रलंकारः ॥
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
[^१.] "परेऽथवा" इति शृङ्गारदीपिका. [^२.] "वाक्यैः सबाष्पझलज्झलैः" इति शृङ्गारदी-
पिकासंमतः पाठः. "सबाष्पाणि च तानि झलज्झलानि च तैः । सबाष्पगद्गदैरित्यर्थः ।"
इति तद्व्याख्यानम्.