2022-10-13 09:48:20 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
एष निर्दयहृदयो मामेवंविधां विहाय जिगमिषतीत्यसूयाजन्यावधीरणव्यञ्जकमत्रैकवच-
नमिति वचनध्वनिः । किंविशिष्टेन लज्जामन्थरतारकेण । अत्र मां त्यक्त्वा देशान्तरम-
सौ याति तदलमनुपादेयया मयेति लघुत्वसंभावनजन्या लज्जा । पुनः किंविशिष्टेन ।
निपतत्पीताश्रुणा निपतत्सत् पीतमपह्नुतमश्रु येन । प्राणैर्हि दुःखनिस्तारकामो न बा-
ष्पमुत्सृजति । क्व सति । मयि सबाष्पे एवं कथयति सति । एवं किम् । हे सुन्दरि,
याताः सन्तो भूयः किं न मिलन्ति । अपि तु मिलन्ति । तस्मात्त्वया मत्कृते चिन्ता
न कार्या । यतो नितरां कृशासि । नह्येवंविधे कार्श्ये सचिन्तया वर्तितुं शक्यते । कार्श्यं
तत्कालमापृच्छमानप्राणेश्वरविरहसंभावनासंभवमेव । प्रिये सबाष्पे स्वयं निपतत्पीता-
श्रुणा चक्षुषेत्यबाष्पा यदनुवृत्तिं परिजहार तत्र "त्यक्तश्चात्मा का च लोकानुवृत्तिः"
इति न्यायेन प्राणनिरपेक्षतैव कारणम् । अथवा अमङ्गलसूचनमश्रु प्रस्थानकाले न प्रका-
श्यत इति प्रीत्यतिशयः । यथा – "अद्यापि तन्मनसि संप्रतिवर्तते मे रात्रौ मयि क्षुत-
वति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्त्रमनालप-
न्त्या ॥" भविष्यत्प्रवासात्मको विप्रलम्भः । उत्तरालंकारः । यदुक्तम्- "उत्तरवचनश्र-
वणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥" उपायाक्षे-
पश्च । यदुक्तम् – "दुष्करं जीवितोपायमुपन्यस्योपरुध्यते । पत्युः प्रस्थानमित्याहुरुपा-
याक्षेपमीदृशम् ॥"
सखीभिर्मानं शिक्षितापि कृतप्रियसंगमा काचिन्नायिका ताः प्रति प्राह -
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो -
स्त[^१]स्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः खेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति शतधा य[^२]त्कञ्चुके संधयः ॥ ११ ॥
हे सख्यः, किं करवाणि । अपि तु न किमपि । क्वविषये, यत्कञ्चुके संधयः शतधा
यान्ति । दलन्तीत्यर्थः । यतो मानाभिव्यक्तये किं किं न मया कृतमित्याह - तस्य प्रि-
यस्य वक्त्राभिमुखं सत्स्वमुखं विनमितं नम्रीकृतम् । दृष्टि: स्वपादयोर्न्यस्ता । अत्र तद्व-
क्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोरिति वाक्यद्वयेनापि दिदृक्षारसस्यैव निषेधो
बोद्धव्यः । अभिमुखमुखतया तद्दर्शनाभिलाषिणी दृष्टिर्निवारितेत्यर्थः । न तु प्रथमवाक्ये
विवक्षारसनिषेधः शङ्कनीयः । द्वितीयवाक्ये तद्दर्शनोत्सुका दृष्टिः कृता पादयोरिति
तच्छब्दसहितपदस्यान्वेषणीयत्वात् तृतीयवाक्ये विवक्षारससूचकचिह्नतिरस्काराच्च ।
यद्वा मुखविनमनेनैव दृष्टेः पादगमने सिद्धे दृष्टिः कृता पादयोरिति यदुक्तं तेन प्रेयान-
पाङ्गेनापि नावलोकित इत्यर्थः । पादयोरित्यत्र संबन्धपदाभावेन सखीषु वचनच्छलं
व्यज्यते । तत्पादयोर्दृष्टिः कृतेत्यत्रापि प्रतीतिसंभवात् । न केवलमेतदेव कृतम्, तद्वच-
[^१.] "तत्सल्लाप" इति शृङ्गारदीपिका. [^२.] मत्कञ्चुलीसंधयः' इति शृङ्गारदीपिका.