This page has been fully proofread once and needs a second look.

यत् । क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृत्तिः ॥" यथा - "दत्त्वा दर्शनमेते म-
त्प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥"
 
कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा वा[^१]सनिकेतनं दयितया सा[^२]यं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥ ९ ॥
 
हन्यते क्रीडाकमलादिना ताड्यते । कोऽसौ । प्रेयान् । कीदृशः । धन्य एव । कया ।
दयितया । किं कुर्वत्या । रुदत्या । किं कुर्वन् । निह्नुतिपरो हसन् । नाहं तत्र गत इत्या-
दिवचनेन मानोपशमं लक्षयित्वा स्मयमानः । किं कृत्वा हन्यते । वासनिकेतनं नीत्वा ।
वासनिकेतनमेव किं कृत्वा नीतः। कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढम् । बा-
हुलतिकाया लोलत्वं सात्त्विको भावः । लतिकेत्यनेन दुःसहविरहक्लेशकार्श्यम् । अत
एव बन्धनव्याजादौत्सुक्येन स्वयंग्रहाश्लेषः । क्व । पुरः । कासाम् । सखीनाम् । कदा ।
सायम् । यदि मानमेव धृत्वाद्यतनीमपि रात्रिं प्रतिपालयिष्यामि तदा मा कदाचिदल-
(य) मन्यत्र वर्त्स्यतीत्यौत्सुक्यप्रतिपादकः सायंशब्दप्रयोगः । अत एव लज्जापरित्याग-
द्योतकं सखीनां पुरः इत्युक्तम् । पुनः किं कृत्वा । व्यलीकं संसूच्य । कथमिति । भूयो-
ऽप्येवमिति । अर्थादिदानींतनोऽपराधः सोढ इति लभ्यते । भूयोऽप्येवं करिष्यसीति
वाच्ये यदर्धोक्तं तत्र रोषसात्त्विकसंकीर्णसंभ्रमहेतुको वाक्स्तम्भः कारणम् । अत
एव स्खलन्मृदुगिरा । अहो अन्यदेव किमपि दयितायाः प्रभुत्वं यत्समकालमेव निग्रह-
प्रसादौ । नहि बाहुलतिकाबन्धनं विहाय कश्चिदन्यः प्रसादोऽस्ति । अत्र कविर्वक्ता ।
ईर्ष्यामानात्मकविप्रलम्भारम्भः संभोगशृङ्गारपर्यवसितो रसः । अत्रालंकारो रसनिर्वाहणै -
कतानहृदयेन कविनात्यन्तं न निर्वाहं नीतः । यदाह ध्वनिकारः–"अत्र हि बाहुलतापा-
शेनेति रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।" अधीरा प्रगल्भा नायिका ॥
 
कश्चिद्देशान्तरगमनोपक्रमं विहाय यथापूर्वमवस्थितः केनचिदगमनकारणं पृष्टः प्राह -
 
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ १० ॥
 
भाविन्यावश्यके । निःसंदेह इति यावत् । मरणे उत्साहस्तया सूचितः । केन । हसि-
तेन । अर्थाद्वैलक्ष्यजन्मना । किं कृत्वा । मां दृष्ट्वा । केन । चक्षुषा । न तु चक्षुर्भ्याम् ।
 
[^१.] "मोहनमन्दिरं" इति शृङ्गारदीपिका. [^२.] "स्वैरं" इति शृङ्गारदीपिका.