2022-10-11 15:48:07 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् । हसितपठितमित्यत्र "सर्वो हि द्वन्द्वो
विभाषैकवद्भवति'" इत्येकवचनम् । अत्र श्लोके त्वया तस्यापराधः सोढव्य इति क्वापि
नोक्तम् । एतच्च वक्तुः कौशलम् । अपराधस्मारणे हि मानिनी प्रतिनायिकां स्मरति ।
ततश्चाधिकं कुप्यति । न चैवंविधः प्रसाधननिर्बन्धः पूर्वमस्यां केवलेन दाक्षिण्येन, अपि
तु लोकोत्तरेण प्रेम्णा च । उक्तम् – "अ[^१]क्खडइ पिआ हिअए अण्णं महिलाअणं रम-
न्तस्स । दिट्ठे सरिसम्मि गुणेऽसरिसम्मि गुणे अईसन्ते ॥"
अनेकनायिकाकमनीयनायकव्यलीकविलीयमानविलासां वरवर्णिनीं विदग्धवयस्या
वक्ति -
नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।
कान्तः केलिरुचिर्युवा सहृदयंस्तादृक्पतिः कातरे
किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ८ ॥
अङ्गनास्तावद्बहिर्मुग्धा अन्तःशठास्तव रमणमपहरन्ति । निषिद्धा अपि न निव-
र्तन्ते । तत्किमिति मुधा ताम्यसि कस्माच्च रोदिषि । उभयमपि व्यर्थमित्यर्थः । एवं हि
तासामभीप्सितं भवति । अत एव तासां प्रियं मा कृथा इति । तर्हि किं समयोचित-
मित्याह — कान्त इत्यादि । हे कातरे, किं न विक्रीयते । लक्षणया अनन्याधीनः किं
न क्रियते । अनन्याधीनं हि वस्तु विक्रेतुं याति । कोऽसौ । पतिः । किंविशिष्टः ।
कान्तः सुन्दरः । क्रीडारसिकः । तरुणः सहृदयस्तादृगनिर्वचनीयचेतनः । किं कृत्वा ।
आक्रम्य । मुग्धशठाभ्य एव नायिकाभ्य आच्छिद्येत्यर्थः । कैः । प्रियशतैः । किंवि-
शिष्टैः । ब[^२]र्बरकर्कशैः सोल्लुण्ठनर्मनिरनुक्रोशैः । यदुक्तं गोवर्धनाचार्येण – "अन्यमुखे दु-
र्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः ॥"
अत एव केलिरुचिर्न चासंभावितो वश्यतां याति । यतस्तादृक्सहृदयः । "दक्षिणोऽस्यां
सहृदयः" । अपमानितश्च नार्या विरज्यते । स पुनरुत्कृष्ट इति मया स्वयं मानमुत्सृज्य
संगमयितुं कथं युज्यते पतिरिति लाघवलज्जाभीरुत्वेन कातरे इति संबोधनम् । प्रशंसाम-
नोज्ञानुनयप्रवर्तिका चेयमुक्तिः । यः कान्त इत्यादि गुणस्पृहणीयो वारिताभिरप्यङ्गनाभि-
रपह्रियते स त्वयापराधोचितनिग्रहस्थानीयेन बर्बरकार्कश्येन विक्रेयकोटिमानीयते । त-
स्माद्युवतिषु धन्या त्वमिति प्रतीयमानत्वात्परिवृत्तिरलंकारः । बर्बरकर्कशं दत्त्वा पतिर-
पह्रियतामिति पर्यवसितत्वात् । यदुक्तम् – "युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते
[^१.] "आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे अस-
दृशे गुणे अदृश्यमाने ॥" इति गाथासप्तशतीटीकायां (१<flag>९</flag>४४) छाया. [^२.] "बर्बरकर्कशैः
परुषकठिनैः" इति शृङ्गारदीपिका.
विभाषैकवद्भवति