2022-10-10 16:50:00 by Dhunee_Sarayu
This page has not been fully proofread.
प्रेमातिरेकेण लालयति, न तस्याः प्रतिकूलं बुद्धिपूर्वकमारभते । तत्रापि किलशब्दप्र-
योगः । कोऽर्थः । विप्रियं विप्रियमिति श्रूयते न हि भवान्वस्तुतो विप्रियं करोतीति ज्ञा-
तापराधेऽपि नायके नायिकाया धृत्युत्पादनम् । एवं सति मन्युरेव मानजनितो दुःखवि-
शेष एव दुःसहो न सामवादैरुपशमं याति । स्फुटमेतत् । तस्मात् हे निस्त्रिंश निरनु-
क्रोश, विमुक्त उच्चैःशब्दत्वात्कण्ठो यस्मिन्नसौ विमुक्तकण्ठः स चासौ करुणो यथा भ
वत्येवं तावत्सखी रोदितु । विमुक्तकण्ठविषये करुणा यत्रेति वा समासः । को-
ऽभिप्रायः । एवं रोदितुं यदि न प्राप्स्यति तदा मन्युनाध्मातमस्या हृदयं परिपाकोच्छू
सितबीज विदीर्णदाडिमफलन्यायेन स्फुटिष्यति । तस्मादुच्चैःशब्दं रोदितुं देहि । पश्चा-
द्यथा जानासि तथा प्रसादय । अथ च यदि रुदिला जीवन्ती निर्वक्ष्यति तदा प्रसादनं
घटत इत्यसूया । विषमोऽलंकारः । यदुक्तम्- 'कार्यस्य कारणस्य च यत्र विरोधः पर-
स्परं गुणयोः । तद्वत्क्रिययोरथवा संजायेतेति तद्विपमम् ।' यथा— 'आनन्दममन्दमिमं
कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥'
वारंवारमनुनीयमानामपि प्रौढेर्ध्यावशादशिथिलमानग्रन्थि मनस्विनीं प्रति प्रधा-
नसखी प्राह -
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वे हसितपठितं पञ्जरशुकै-
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ७॥
हे कठिने, बहिः प्राणदयित आस्ते । किं कुर्वन् । शून्यतासूचकचिन्तासंतानसमु-
चितचेष्टानुभावेनावनतो भूमिं लिखन् । अकृते प्रसादे द्वारं न मुञ्चतीत्यर्थः । तथा च
वर्तन्तेऽनशनाः सख्यः । पुनः कीदृश्यः । निरन्तरबाष्पेणोच्छूने लोकोक्त्या उच्छ्वसिते न-
यने यासां ताः सततरुदितोच्छूननयनाः । अत्र नायिकाया अमङ्गलचिन्तनमेव हेतुः ।
किं च, पञ्जरशुकैरपि हसितपठितं परित्यक्तम् । तथापि तवावस्था चेयम् । निरुद्धबाष्पा-
रुणितनेत्राध्मायमाननिःश्वासकदर्थ्यमानाधरस्फुरणादिमन्युचेष्टाभिरधृष्या तथैव तिष्ठसी-
त्यर्थः । तस्मान्मानं परित्यज । कदा । अधुनापि । अपिशब्दोऽध्याहार्यः । एतावतीमपि
दशां दुर्जनोपहसनीयां प्राप्ता मानं न मुञ्चसीति प्रतीयमानत्वात् । यस्याः कृते सख्यो-
ऽपि पञ्जरशुका अथाहारं हसितपठितं च परित्यजन्ति सा त्वं कथमिव प्रियाय न प्रति-
भाषसे । प्रियोऽपि यस्यास्तव प्राणदयितस्तदलमतिमानेनेति भावार्थः । अत एव
कठिने इति संबोधनम् । अत्रार्थशक्त्युद्भवः सहोक्तिरलंकारः । नायिकायामाहारादिकं
कुर्वत्यां सर्वेऽपि कुर्वन्ति, निवर्तमानायां च निवर्तन्त इति प्रतीतेः । सुप्तिद्व्यङ्ग्यमात्रं
चात्र कर्मलकाराभ्यामेवोद्भासितम् । अत्र न लिखतीति, अपि तु लिखन्निति प्रसादन-
पर्यन्तम् । आस्ते इति, न वासित इति । भूमिमिति, न भूमाविति । नहि बुद्धिपूर्वकं