This page has been fully proofread once and needs a second look.

क्तम् । न तु निर्वेदो व्यभिचारिभावः । तस्य शृङ्गारे निषिद्धत्वात् । शृङ्गारश्चात्र विप्र-
लम्भ एव । यदुक्तम् - "विप्रलम्भस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा । मानप्रवासभेदेन
मानो हि प्रणयेर्ष्ययोः ॥ तत्र प्रणयमानः स्यात्कोपवश्यतया द्वयोः । स्त्रीणामीर्ष्याकृतो
मानः स्यादन्यासङ्गिनि प्रिये ॥ श्रुते चानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् । उत्स्वप्ना-
यितभोगाङ्कगोत्रस्खलनकल्पितः ॥ त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ।" न
च निर्विण्णशब्देनैव निर्वेदव्यभिचारभावप्रतीतिः । रसादीनां वाच्यत्वाभावात् । य-
दुक्तम्– "तथा हि । वाच्यत्वं तस्य शब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमु-
खेन वा । पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतत्वप्रसङ्गः । न च सर्वत्र
तेषां स्वशब्दनिवेद्यत्वम् । यत्रापि तदस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैषां
प्रतीतिः । स्वशब्देन सा केवलमनूद्यते । न तु तत्कृतैव सा । विषयान्तरे तस्या अद-
र्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मना-
गपि रसवत्त्वप्रतीतिः । केवलं स्वाभिधानमात्रादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्याम-
भिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचिदिति । एवंविधस्य रस-
ध्वनेरुपनिबन्धक्षमा अमरुकप्राया एव महाकवयः । यदुक्तमभिनवगुप्तपादैः – "प्रतीय-
मानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनस्यैव महाकविव्यपदेशः । अन्यथा व्यु-
त्पत्त्यभ्यासयोर्मध्ये प्रधानभूतया प्रतिभयापि कविरेवोच्यते । यदुक्तम् – "प्रज्ञा नवनवो-
ल्लेखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥" अलंकारश्चात्राप्य-
नुमानम् । यदुक्तम् – "यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वा त-
थान्यत्कथ्येत तदन्यदनुमानम् ॥" यथा – "वहति यथा मलयमरुद्यथा च हरितीभवन्ति
विपिनानि । प्रियसखि तथैष न चिरादेष्यति तव वल्लभो नूनम् ॥" परमसौ वाच्यः ।
वाच्यो व्यङ्ग्योऽप्यलंकारो रसस्याङ्गं भवतीत्याचार्याः । गुणस्तु प्रसाद एव । अत एवात्र
यमकादयो निषिद्धाः । "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं
विप्रलम्भे विशेषतः ॥"
 
दत्तोऽस्याः प्रणयस्त्वयैव भ[^१]वतैवेयं चिरं लालिता
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् ।
मन्युर्दुःसह ए[^२]व यात्युपशमं नो सान्त्ववादैः स्फुटं
हे निस्त्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ६ ॥
 
अत्र नायकं प्रति मानिन्याः सखी वक्त्री । त्वयैवास्याः प्रणयो बहुमानो दत्तः । न
पुनरियं मुग्धा बहुमानोत्पादनाय प्रत्यभियोक्तुं जानाति । अन्यच्च भवतैवेयं चिरं ला-
लिता । न पुनरनया लालनकारणं किंचिदारब्धम् । अत एव दैवात्, न बुद्धिपूर्वक-
मद्य पुनस्त्वमस्या नवं व्यलीकं कृतवान् । यः खलु यस्याः स्वयं प्रणयं ददाति, स्वयं च
 
[^१.] "भवता सेयं" इति शृङ्गारदीपिका. [^२.] "एष" इति शृङ्गारदीपिका.