This page has been fully proofread once and needs a second look.

त्किंचिद्दृष्ट्वा विहसितं करोति । तत्र कथामवस्थानार्थमनुबध्नाति । बालस्याङ्कगतस्य चु-
म्बनमालिङ्गनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य ता-
स्ताश्च लीला दर्शयति । तन्मित्रेषु विश्वसिति । वचनं तेषां बहुमन्यते करोति च । त-
त्परिचारकैः सह प्रीतिं संकथां द्यूतं चारभते । स्वकर्मसु चैतान्प्रभविष्णुरिव नियुङ्क्ते ।
तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति । धात्रेयिकया प्रोत्साहिता
नायकस्योदवसितं प्रविशति । तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितु-
मिच्छति । अनलंकृता दर्शनपथं परिहरति । कर्णपत्त्रमङ्गुलीयकं स्रजं वा तेन याचिता
स धीरमिव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यव-
रसंकथासु विषण्णा भवति । तद्विपक्षैश्च सह न संसृज्यत इति । "दृष्ट्वैतान्भावसंयुक्ताना-
कारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥" सा च
मुग्धा नायिका । "मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।" यथा - "दृष्टेः साल-
सतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना
शनैः ॥" "नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः" इत्यनेन नर्मस्फोटः । यथा माल-
तीमाधवे मकरन्देन माधवस्य मालत्यामनुरागो लक्षितः— "गमनमलसं शून्या दृष्टिः शरी-
रमसौष्ठवं श्वसितमधिकं किं त्वेतत्स्यात्किमन्यदितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा वि-
कारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥" प्रथमानुरागश्वो-
कोऽप्येष क्रमौचित्यात्प्रथमं लिखितः ॥
 
अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं
तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ५ ॥
 
कुपितनायिकाप्रसादने साम दानं भेदः प्रणतिरुपेक्षा रसान्तरं चेति षडुपायाः । त-
न्मध्येऽत्र भेद एव । इह हि नायकेनानुप्रविश्य शिक्षिता सखी वक्त्री वक्ष्यमाणप्रकारेण
मानत्याजनाय नायिकां भीषयति । हे कोपने ईर्ष्यावति, अङ्गुल्यग्रनखेन बाष्पसलिलमप-
नीयापनीय लाघवलज्जातिशयेन मानाध्मातहृदया किं कण्ठार्धनिरुद्धगद्गदं रोदिषि। किं-
शब्दोऽल्पार्थः । न तु हेतुप्रेरणार्थः । मानरूपस्य हेतोः स्वयं ज्ञातत्वात् । आत्मीयचरि-
तेन प्रचुरतरमुच्चैःशब्दं रोदिष्यसि । यस्यास्तव परगृहोपप्लावकानां पिशुनानां शिक्षाक-
र्णजापैर्माने मर्यादामतिक्रान्ते विफलप्रसादनोपायतया निर्वेदं यावत्प्राप्तो बहुमानं प्रति
प्रियतम औदासीन्यं गमिष्यति । न त्वन्याङ्गनाम् । यस्मात्त्वं पिशुनोपदेशेषु लग्नासि ।
तस्यापराधगन्धोऽपि नास्तीति भावः । विक्षिप्य विक्षिप्येति वीप्सया बाष्पनैरन्तर्यमु-
क्तम् । अत्र प्रियतमोऽथ च निर्विण्ण इति नायिकायाः सविशेषं भयोत्पादनकारणमु-