This page has been fully proofread once and needs a second look.

वैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायिभावो रसः स्मृतः॥"
स च व्यङ्ग्यव्यञ्जकभावेन भाव्यभावकभेदेन वा चर्व्यमाणात्मकोऽसंलक्ष्यक्रमध्वनिसंज्ञितः।
यदुक्तं ध्वनिकृता—"यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः
स ध्वनिरिति सूरिभिः कथितः ॥" अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्य-
परवाच्यश्चेति द्विविधः । "अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवा-
च्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ असंलक्ष्यक्रमद्योत्यः क्रमेण द्योतितोऽपरः । विवक्षि-
ताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ रसभावतदाभासभावशान्त्यादिरक्रमः । ध्वनेरा-
त्माङ्गिभावेन भासमानो व्यवस्थितः ॥ [क[^१]मेण परिपाट्या यः स्वानुस्वानाभसंनिभः ।
शब्दार्थशक्तिमूलत्वाद्द्विधा सोऽपि व्यवस्थितः ॥" यदाह भरतः -"बहवोऽर्था विभाव्यन्ते
वागर्थाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संस्मृतः ॥ वागङ्गसत्त्वाभिनयैर-
स्मादर्थो विभाव्यते। वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः ॥" विविधमाभिमुख्येन
रसं चरन्तीति व्यभिचारिणः । विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः स्थायी
रत्यादिको भावो जनितोऽनुभावैः कटाक्षभ्रूभुजाक्षेपादिभिः सहकारिभिरुपचितो रसः ।
यदाह भरतः - "सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारो यत्र प्रतीयमानमर्थ-
संस्पर्शनसौभाग्यं तदिदं काव्यरहस्यं परम्" इति ॥]

परपुरुषप्रथमानुरागिणीं कामपि नायिकां रहः सहचरी प्राह -

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ४ ॥

हे मुग्धे, कथय क एष पुण्यराशिर्भवत्या वीक्ष्यते । कदा । अद्य । कोऽभिप्रायः । अ-
द्यप्राक्कोऽप्येवं त्वया नावलोकित इति । कैः । ईक्षणैः । भावभेदाद्बहुवचनम् । किं कुर्व-
द्भिरिव । उद्भिरद्भिरिव । किं तत् । हृदयनिहितं भावाकूतमभिलाषोचितं संकल्पविशेषम् ।
वयःसंधौ हि नायिकाश्चिरसंचितं लज्जासंवृतं बहुतरमभिलाषं हृदये धारयन्ति । यश्च
येनाध्मातो भवति स तमुद्गिरतीति युक्तमेव । पुनः किंविशिष्टैः । अलसवलितैरसौष्ठ-
वतिरश्चीनैः । मन्थरतिर्यग्भूतैरिति भावः । यथा कश्चित्केनापि लोभेन स्थानमत्यक्तुकाम
इतरेण कार्यवशाद्बलात्कारेण प्रेर्य उत्थाप्यते न च प्राञ्जलो गच्छति तथेक्षणान्यपि हि
स्फारोत्फुल्लानि भूत्वा प्रियदर्शनरसपानोद्युक्तानि साध्वसेन प्रसह्य साचीक्रियन्ते । पुनः
किंभूतैः । प्रेमार्द्रार्द्रैः प्रीतिस्निग्धस्निग्धैः। यदाह भगवान्भरतः स्थायिभावदृष्टीनामुपक्रमे –
"व्याकोशा स्नेहमधुरा स्मितपूर्वाभिभाषिणी । अपाङ्गभ्रूकृता दृष्टिः स्निग्धेयं रतिभावजा ॥"
पुनः कीदृशैः । मुहुर्मुकुलीकृतैर्दर्शनसुखविशेषानुभवेन वारंवारमर्धनिमीलितैः । यथा क-
 
[^१.] कोष्टकान्तःस्थितः पाठः पुस्तकान्तरे नास्ति.