This page has been fully proofread once and needs a second look.

स्त्रिपुरयुवतय एव कर्मत्वेनावधार्याः, न तु केशाः । यथा - "गृहीत इव केशेषु-'"
इति । आलिङ्गन्योऽवधूत इत्यत्र चरणनिपतितोऽपि दृष्टिमात्रेणापि न संभाव्यते स क-
थमालिङ्गितुमिच्छतीत्यर्थः । कस्यांचित्कृते कृत्वा (?) प्रतिपादितमुन्मादितः कामातुर -
स्तस्यालिङ्गनमुचितमिति समाधानम् । अस्य कवेस्तावदन्यः कोऽपि प्रबन्धो न दृ-
श्यते । तन्नूनमनयोः श्लोकयोः संकीर्णरसोपनिबन्धोऽनेन दर्शितः । अग्रे सर्वत्र शृङ्गा-
ररसस्यैवोपनिबन्धनीयत्वात् । संकीर्णरसोपनिबन्धस्तु निकषो रसकवीनाम् । किं चा-
मीषां, श्लोकानां तावती रसोपकरणसामग्री यावती प्रबन्धेषु भवति । अत एवोक्तं भर-
तटीकाकारैः—"अमरुककवेरेकः श्लोकः प्रबन्धशतायते" इति ॥
 
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदा[^१]म्भसः शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतिव्यत्यये
तत्त्वां पातु चिराय किं ह[^२]रिहरस्कन्दादिभिर्दैवतैः ॥ ३ ॥
 
तत्कृशाङ्ग्याः पुरुषायितसंभोगमध्ये खेदालसलोचनं मुखं त्वामनेककालं त्रायताम् ।
किं वैकुण्ठशितिकण्ठषण्मुखप्रमुखैर्नाकिभिः । अपि तु न किमपि । नहि ते रसातिरेको-
न्मत्तपुरुषायितसंरब्धविदग्धनितम्बिनीवदनचन्द्रविरहदहनदन्दह्यमानं रक्षितुं क्षमन्ते ।
एतेनानुरागविह्वला तरुणी तवाभिलाषोचितमानुगुण्येन संपादयत्वित्यर्थः । यदुक्तम्-
"पातु वो दयितामुखम्" इति सांमुख्ये ।" किं कुर्वाणम् । चञ्चलां चूर्णकुन्तलमालां वि-
लुप्तरचनाविशेषां दधानम् । पुनश्च कीदृशम् । कम्पमानकर्णाभरणम् । भूयः कथंभूतम् ।
स्तोकोत्पुंसिततिलकम् । कैः । सूक्ष्मसूक्ष्मैः श्रमसात्त्विकसंकीर्णैर्जलबिन्दुभिः । अनुशया-
क्षेपोऽलंकारः । "मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना ।" परमत्र वाक्यार्थस्य न
प्राधान्यम् । किं तु रसस्यैव । नापि रसवदलंकारव्यवहारः । अपि तु रसोऽलंकार्यः । अ-
लंकारश्च यथार्थ एव । "नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशममनु-
मता च तेन तमवपात्य पुरुषायितेन साहायकं दद्यात् ।" इति वात्स्यायनः । अत्र प्र-
गल्भा नायिका । "यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्र-
तारम्भेऽप्यचेतना ॥" परित्यक्तव्रीडा चेयम् । यदुक्तम् – "एवमन्येऽपि परित्यक्तव्रीडा-
यन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः ।" संभोगशृङ्गारो रसः ।
यदुक्तम्– "अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो
मुदान्वितः ॥" शृङ्गारस्य सामान्यलक्षणमेतत् – "रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितैः ।
अयोगो विप्रयोगश्च संयोगश्चेति स त्रिधा ॥" रसस्यैवाथ सामान्यलक्षणमेतत् - "विभा-
 
[^१.] "स्वेदाम्भसां जालकैः" इति शृङ्गारदीपिका. [^२.] "हरिहरब्रह्मादिभिर्दैवतैः" इति
शृङ्गारदीपिका.