2022-10-05 07:16:14 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
पल्लवकर्णपूरभ्रमराभ्यां सहोपमानोपमेयभावः । तेन कोमलारुणपाणिनिर्मलनखा-
न्ततरङ्गितचपलापाङ्गचमत्कारेण चन्द्रचूडचित्तानुमोदननिबन्धिनी देव्याः सौन्दर्य-
विभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्र-
तिपादनाकाङ्क्षयैव कवीनाम् । इतराकाङ्क्षया तु कलङ्किन एव ते स्युः । उपनि-
बद्धं च भ[^१.]ट्टबाणेनैवंविध एव सङ्ग्रामप्रस्तावे देव्यास्तत्तद्भङ्गिभिर्भगवता भर्गेण सह प्री-
तिप्रतिपादनाय बहुधा नर्म । यथा - "दृष्टावासक्तदृष्टिः प्रथममथ तथा संमुखीनाभिमुख्ये
स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपतेः
पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥" अत एवाम्बिकाया
इति पदं न्यस्तम् । कोऽभिप्रायः । अन्येषां सर्वेषामपि मातुर्भगवतश्च नीलकण्ठस्य प्रि-
यायाः । अन्यथा कटाक्षादिवर्णनप्रस्तावे कोऽवकाशोऽम्बिकादीनां पदानामिति । संव-
लितोऽम्बिकाया इत्यत्र, लोभभ्रमद्भ्रमरेत्यादौ चानुप्रासो नाम शब्दालंकारः । यदाह भ-
ट्टरुद्रट:--"एकद्वित्र्यन्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । आवर्त्यते निरन्तरमथवा
यदसावनुप्रासः ॥" अत्र वीररसस्यानुगुणो विकटपदानां प्रकृष्टो न्यासोऽनुप्रासः । अलं-
काराणां सामान्यलक्षणं चैतत् - "काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।" ज्याकृष्टी-
त्यादौ मञ्जरीत्यादौ च यथाशक्तिसमासाद्गौडीया रीतिः । यदुक्तम् - "द्वित्रिपदा पा-
ञ्चाली लाटीया पश्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥"
ये च दण्डिनाचार्येण – "श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्व-
मोजःकान्तिसमाधयः । इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥" इति गुणाः प्र-
तिपादितास्ते चात्र शृङ्गाररसोचिता बाहुल्येन भविष्यन्ति । तस्माद्वैदर्भमार्गे सर्वथा
समास एव न स्यादिति न वाच्यम् । ओजसः समासभूयस्त्वात् । तर्ह्योजोगुण एव गौ-
डीयो मार्ग इति चेत्, गौडीये केवलं यथाशक्ति समास एव वैदर्भे पुनः श्लेषप्रसादादयो-
sपीति । ननु गुणा अपि काव्यशोभाहेतवस्तत्कथं "काव्यशोभाकरान्" इत्याद्यलंकार-
लक्षणं समानजातीयव्यवच्छेदकं स्यात् । उच्यते - नहि गुणाः कटककेयूरादिवदाभर-
णत्वेनालंकुर्वन्ति । किं तु शौर्यौदार्यवत्प्रकर्षमादधते । उक्तं चानन्दवर्धनाचार्येण – "उ-
पकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ त-
मर्थमवलम्बते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटका-
दिवत् ॥" अर्थालंकारश्चात्र कल्पितोपमा । यदुक्तम् – "सा कल्पितोपमाख्या यैरुपमेयं
विशेषणैर्युक्तम् । तादृग्भिस्तावद्भिः स्यादुपमानं तथा यत्र ॥" यथा – "मुखमापूर्णकपोलं
मृगमदलिखितार्द्रपत्त्रमेतत्ते । भाति लसत्सकलकलं सलाञ्छनं चन्द्रबिम्बमिव ॥" सामा-
न्यलक्षणं चैतत् – "उभयोः समानमेकं गुणादिसिद्धं यथा यदेकत्र । अर्थेऽत्यत्र तथा त-
त्साध्यत इति सोपमा ज्ञेया ॥" श्रुतालंकारैरत्रोत्प्रेक्षा कैश्चिदुक्ता । सा च न भवति ।
सिद्धोपमानसद्भावाभावात् । यदुक्तम् – 'अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भा-
[^१]. चण्डीशतके.
Digitizes by Mlerason in
न्ततरङ्गितचपलापाङ्गचमत्कारेण चन्द्रचूडचित्तानुमोदननिबन्धिनी देव्याः सौन्दर्य-
विभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्र-
तिपादनाकाङ्क्षयैव कवीनाम् । इतराकाङ्क्षया तु कलङ्किन एव ते स्युः । उपनि-
बद्धं च भ[^१