2022-10-06 04:49:01 by suhasm
This page has been fully proofread twice.
"यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् | तारकायाः कलाभिज्ञास्तं कटाक्षं प्रच-
क्षते ॥" सर्वमङ्गलायाः कटाक्षस्त्वां पातु रक्षतु । किंविशिष्टः । ज्याकृष्टीत्यादि । बाणास-
नगुणाकर्षणेन रचितो यः खटकामुखो नाम हस्तस्तस्य पृष्ठं तत्र परिस्फुरन्यः करजकि-
रणकलापस्तेन संवलितः करम्बितः । खटकामुखलक्षणं चैतत्-- "अस्या एव यदा मुष्टे-
रूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तकः शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ शिखरस्यैव ह-
स्तस्य यदाङ्गुष्ठनिपीडिता । प्रदेशिनी भवेद्वक्रा कपित्थो जायते तदा ॥ उत्क्षिप्ता च यदा
वक्रानामिका सकनीयसी । एतस्यैव कपित्थस्य तदा स्यात्खटकामुखः ॥" अथ कटाक्ष-
स्योपमानगर्भं विशेषणमाह--पुनः किंविशिष्टः । मञ्जरितेत्यादि । मञ्जरी उद्भिद्यमानमु-
कुलसंततिः । सा संजातास्येति तारकादिभ्य इतच् । मञ्जरितो यः पल्लवः स एव कर्ण-
पूरस्तत्र लोभस्तेन भ्रमन्यो भ्रमरस्तस्य विभ्रमो विलासस्तं बिभर्तीति क्विप् । इति
तावद्वाक्यार्थः । रहस्यं चैतत्परमार्थसहृदया मन्यन्ते -- यं रसमुपनिबद्धुमेष कविः प्रवृत्तः
स यद्यप्यकृत्रिमानुरागस्त्रीपुंसपरस्परानुरागकल्लोलितः परां कोटिमधिरोहति तथापि ना-
यिकायाः प्राधान्यम् । तत्प्राधान्यप्रकाशनपरश्चायमौचित्यात्कटाक्षमुख्यत्वेनाभीष्टदेवता-
शंसनश्लोकोऽपि प्रथमं लिखितः, "क्षिप्तो हस्तावलग्नः" इत्यादिश्लोकस्तु चरमम् । किं
च धर्मार्थयोरुपरिवर्तमानस्य मोक्षात्किंचिदर्वाचीनस्य पुरुषार्थविशेषस्य निधानमपत्येनैव
पितॄणामानृण्यहेतुभूता नितम्बिनीर्विहाय किमन्यदुपादेयम् । यदुक्तमुपाध्यायेन बालसर-
स्वत्यपरनाम्ना मदनेन – "संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सु-
खसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । यल्लक्ष्मीसमुपार्जनं पुलकिनां रक्तखरं गायतां
यत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥" कामशास्त्रेऽप्युक्तम्-"किं स्यात्परत्रे-
त्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तस्मिन्व्यवस्थिताः ॥"
परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय । एवंविधसंविधानकैः स्त्रीणां चारित्र-
खण्डनं भवति तस्मात्प्रयत्नेनैताः संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वा-
त्स्यायनो महर्षिस्तत्तदुपायैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च--"संदृश्य शा-
स्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनं कश्चित्स्वदारान्प्रति शास्त्रवित् ॥"
यद्यपि धनुर्वेदे खटकामुखः प्रणीतोऽस्ति तथाप्यत्र नृत्यसंस्कार एवायं हस्तको देव्याः ।
एवं च महान्विशेषः । लास्यलीलयैव देव्या दुरतिक्रमदैत्यकुलक्षयः कृत इति प्रभावाति-
शयप्रतीतेः । "यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः" इत्युक्तत्वात्खटकामुखे कटा-
क्षनिवेशनं युक्तम् । सहृदयंमन्यैश्च पुनरत्र मु[^१]रटाप्रभृतिपञ्चमुष्टीनां मध्ये केयं मुष्टिः कै-
शिकप्रमुखपञ्चन्यायेषु कश्चायं न्याय इत्यादिशरासनशास्त्रचर्चा क्रियते । वयं त्वेवं
ब्रूमः -- यत्र शृङ्गारैकरसः कविः पुरुषायितप्रवृत्तकामिनीवदनमेव त्वां पातु किं
हरिहरस्कन्दादिभिर्दैवतैरिति देवताशंसनमप्यपार्थकप्रायं प्रतिपादयति तत्र को
नाम धनुर्वेदमनिर्वेदः पल्लवयितुमुत्सहत इति । प्रेङ्खन्नखांशुपाणिपृष्ठकटाक्षयोर्मञ्जरित-
[^१.] "मुचटी" इति द्वितीयपुस्तके

[^१