2022-08-17 04:04:00 by akprasad
This page has been fully proofread once and needs a second look.
काव्यमाला ।
अमरुककविविरचितं
अमरुशतकम् ।
महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीविनीसमाख्यया व्याख्ययोपेतम् ।
देवी रतिर्विजयते मृगनाभिचित्त्रपत्त्रावली पृथुपयोधरसीम्नि यस्याः ।
भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसायकनिशाणनकालिकेव ॥
भ्रूलास्योत्सविनी सविभ्रमगतिर्मूर्छन्नितम्बस्तना
संकीर्णे वयसि स्मितार्द्रभणितिः सा पार्वती पातु वः ।
यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे
गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्ठानमाकुञ्चिते ॥
अमरुककवित्वडमरुकनादेन विनिह्नुता न संचरति ।
शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥
आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्य-
त्सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि ।
आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः
क्रीडाधाम्नह् कलानाममरुकसुकवेः केऽप्यमी श्लोकपादाः ॥
क्षिप्ताशुभःसुभटवर्मनरेन्द्रसूनुर्वीरव्रती जगति भोजकुलप्रदीपः ।
प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ॥
अव्युत्पत्तिमतामन्तःप्रबोधाय सचेतसाम् ।
काव्याभिधेयालंकारलक्षणं लिख्यते मनाक् ||
तत्रादिमोऽयमाशंसनश्लोकः--
ज्याकृष्टिबद्धख[^१]टकामुखपाणिपृष्ठ -
प्रेङ्खन्नखांशुचयसंवलितोऽ[^२]म्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर-
लोभभ्रमाद्भ्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥
[^१.] 'तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कट-
कामुखः ॥' इति शृङ्गारदीपिका.
[^२.] 'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः.