महत्तमं संस्कृत-ग्रन्थ-सङ्ग्रहं रचयामः
अल्प-ज्ञातेषु जालक्षेत्रेषु, विस्मृत-प्रायेषु ग्रन्थेषु, जीर्ण-जीर्णासु मातृकासु च पारे-लक्षं ग्रन्थाः उच्चावचं तिष्ठन्ति । तेषु केचित् प्रसिद्धाः, केचिद् अप्रसिद्धाः, केचन सुबोधाः, केचन दुर्बोधाश्च । तान् एतान् अध्येतुम् इच्छतां नास्ति निष्कण्टको मार्गः ।
अतः कारणाद्, अम्बुद-नामधेयो ऽयं सर्वव्यापी ग्रन्थालयो निर्मीयते । अधुना अल्पीयानपि, क्षिप्रं वर्धिष्णुः अचिरादेव महीयते ।
सार्वजनिकः प्रवेशः
सद्मनि वा वर्त्मनि वा यत्र कुत्रचिद् ग्रन्थान् निश्शुल्कं पठितुमर्हसि । अत्र ग्रन्थ-प्रस्तुतिः सुबोधा मनोहारिणी च । नाना-देश-भाषा-निबद्धाः व्याकरण-कोशादि-विचाराः चोपलभ्यन्ते ।
दीर्घो ऽयं पन्थाः इति विदितम् एव । भारते ऽपरत्र वा, निर्धनो धनाढ्यो वा, बालः पण्डितो वा सर्वो ऽपि जनो जालक्षेत्रम् एतद् विशृङ्खलं प्रयुञ्जीत । यस्मिन् कस्मिन्नपि यन्त्रे जालक्षेत्रम् एतत् प्रयोक्तुमर्हसि । अचिराद् एव हिन्दी-कार्णाटी-द्राविडी-प्रभृतिभिः भाषाभिश्च व्यवहारः शक्ष्यते ।
चतुराणि यन्त्राणि
पद-च्छेदो, विग्रहः, पदार्थोक्तिः, लिपि-परिवर्तनम् इत्यादयो गुरु-मुख-ग्राह्याः व्याख्या-गताश्च विषयाः अत्र प्रस्तूयन्ते तन्त्रांश-साहाय्येन । केनापि इन्द्रजालेन यन्त्रान्तर्गमितः पण्डित इव तन्त्रांशो ऽयं सर्वमपि जनं ग्रन्थ-पठने समर्थतां नयेत् ।
अधुना दिङ्मात्रं दर्शितमत्र । कर्तव्यम् अस्ति महत् । अनुवादाः, प्राचीन-व्याख्याः, इष्ट-पदान्वेषणम्, उल्लेख-प्राप्ति-सौकर्यम् इत्यादि प्राकाश्यं नेष्यते ।
लोकेन कृतं लोकस्य कृते
भवादृशाः अगृहीत-वेतनाः सुरभारती-समाराधका एवास्य जालक्षेत्रस्य धुरं वहन्ति । भवता यथाशक्ति कृतं साहाय्यम् अल्पमपि बहुलायते । कथम् अम्बुदं पुष्णीयामिति ज्ञायताम् ।
अम्बुदः क्षिप्रं वर्धते । अस्माकं विद्युत्पत्त्र-सूच्यां निज-सङ्केतं स्थापयत, येन नूत्न-ग्रन्थ-कोश-तन्त्रांशादि-वर्ता ज्ञायते ।
करबदरसदृशं संस्कृतम्
दीर्घे पथि प्रथमं पदम् एतत् । भवतो ऽभ्यागमनेन अनुगृहीताः स्मः ।