gadimanoj14

नमः सर्वेभ्योः। अहं मनोजः बेङ्गलूरुस्थः अस्मि। संस्कृतभारतीद्वारा समाप्तकोविदः सम्प्रति MIT IIKS द्वारा MA (Sanskrit) अधीयानः बालकान् ज्येष्ठान् च संस्कृतम् अध्यापयामि। प्रतिसप्ताहं संस्कृतस्य अभ्यासाय पाठान् चालयामि यत्र ग्रन्थपठनं क्रियते। तदा तदा लघुदृश्यानि निर्माय YouTube मध्ये प्रकाशयामि। संस्कृतस्य विकासाय सदा प्रयतमानः यथाशक्ति अध्ययनम् अध्यापनं च करोमि। इति शम्।