Click Settings to choose another script or language.
अथ न ध्यायेज्जन्तुरालस्याच्च प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छे-त्परमं पदम् ॥ १ ॥
पुण्यमेतत्समासाद्य संक्षेपात्कथितं मया । लब्धयोगेनबोद्धव्यं प्रसन्नं परमेष्ठिनम् ॥ २ ॥
जन्मान्तरसहस्रेषु यदा नाश्नाति किल्बि-षम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥
इति योगशिखोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥