Click Settings to choose another script or language.
ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदा तु ध्यायते मन्त्रंगात्रकम्पोऽभिजायते ॥ १ ॥
आसनं पद्मकं बद्ध्वा यच्चान्यद्वापि रोचते ।कुर्यान्नासाग्रदृष्टिं च हस्तौ पादौ च संयतौ ॥ २ ॥
मनः सर्वत्र संयम्य ओंकारंतत्र चिन्तयेत् । ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ ३ ॥
एक-स्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते । ईदृशे तु शरीरे वा मतिमानुपलक्षयेत् ॥ ४ ॥
आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् । तस्य मध्यगतो वह्निःप्रज्वलेद्दीपवर्तिवत् ॥ ५ ॥
इति योगशिखोपनिषत्सु प्रथमः खण्डः ॥ १ ॥