श्रीव्यासयोगिचरितम्

Click on words to see what they mean.

॥ प्रथमोल्लासः ॥

अन्वेष्यान्वेष्टृतायां विहितविनिमयः स्वस्य च प्रत्नवाचा-माकृत्या रुच्यरुच्यांबुधिदुहितृदृशोर्गंधयन्बंधुभावम् ।दंष्ट्रायष्टिप्रभाभिर्मुखमखिळदिशां तुत्थयन्नुत्थिताभियो मीनो यमीनैः स भवतु भवतां चित्तकासारवासः ॥ १ ॥
बिभ्रद्वंभ्रम्यमाणं शतमखमुखया लेखयाऽऽलेखमय्याभोगाभोगेन भोगीशितुरभिवलितं मंदरामंदमंथम् ।निर्यत्नं नूत्नरत्नाभरणमिव शिलानिष्ठुरे पृष्ठभागेनिर्माथे वर्ष्मवाधैर्मम बहुळतमं शर्म निर्मातु कौर्मम् ॥ २ ॥
ग्रस्तामाभीलमुस्तां कलयतु भवतां कोऽपि कूटस्थदंष्ट्रीदंष्ट्रा दंडे यदीये वलयमविलयं विश्वविश्वंभरायाः ।वारां राशेरपारैर्मणिगणकिरणैः कर्बुरीभूतशोभंतक्या बहलक्ष्म्यां प्रकटयतितरां भ्रामरीं धामरीतिम् ॥ ३ ॥
संगृण्हानस्य तस्याखिळमुनिसदसां तारवाचामनीचामाशंसामातितंसोरमररिपुपतेर्वक्षसः क्षोदखेदम् ।कुर्वाणस्योग्रदंष्ट्रा किरणाविकिरणैः कुंदनिंदां प्रभिंता -मंहः सिंहस्य रंहो जनितजनिभयं स्तंभतो जृंभतो वः ॥ ४ ॥
सर्वं सर्वंसहाया बलिहृदि कलितं मानभंग्याऽभिमानंकुर्वाणेनातिखर्वं चरणजलरुहा व्याप्तलोकेशलोकः ।अंतर्वत्नीर्वितानैरतनुतनुरुचां हासयन् भासमानैर्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥
भासामाशासु राशिं विकचनवजपाविद्रुमद्रोहिणीनांतन्वन् राजन्यवन्यालवनमुकुलितां कीर्तिरेखामिव स्वाम् ।पाणी मुक्ताक्षमालां दधदखिळभुवा प्रीणितब्रह्मवर्योयोगी भोगींद्र भासा दिशतु परशुना लांछितो वांछितं वः ॥ ६ ॥
उद्दंड चंडिमानं भुजभुवि दधती दृप्तनक्तंचरस्त्री-गल्यामांगल्यभूषामणिगणलहरीथालथल्यापहंत्री ।वक्रम्णा शक्रवृत्तेः कुपितपतिधुतां तापसीं तापसीनांप्रोद्धृत्याऽशास्यकीर्तिः शमयतु भवतां क्षत्रचूडारिपीडाम् ॥ ७ ॥
चेलं नीलाब्जनीलं दधदधरसुधाबांधवोद्वंधिहाला-हेलासाहित्यरेवत्यधरदळपुटीचुंबनाडंबरैषी ।वेलातीतारिहालाहलविलसितसद्बाहुवल्लीमतल्लीभीमो रामोऽभिरामो जयति निजरुचा वैरदश्शारदेन्दोः ॥ ८ ॥
उद्यत्सख्यामभिख्यां प्रविकसदतसीपिंछतापिंछभाभिःबिभ्राणोऽदभ्रकुंचीकुरवककळिकासंचरञ्चंचरीकः ।दृप्यच्चाणूररेणूकरणनिपुणताध्वंसितांशंसकंसवित्ते नृत्तं विधत्तां विबुधविबुधितः वल्लभो वल्लवीनाम् ॥ ९ ॥
भूयाद्भूत्यै महत्यै परचुळकसटाकर्कशः कल्किवर्योहेषाघोषैर्विहायः कुहरविसृमरैः भीषिताशेषलोकः ।पंड पाषंडपुंसां कलिकलिततमोराशिकोशीकृतानांखंड खंडं प्रचंडैः प्रखरतरखुरै रक्षिता यः क्षितिं वः ॥ १० ॥
प्रबंधानां कीर्तिस्थितिरनुपमो नायकगुणस्तदा तस्याप्येते विदधति रसं ग्रंथिलपदाः ।प्रबंधूणां किंतु प्रतिहतमनालिंपदयशःप्रपंचानेतॄणां करतळवदान्यत्वसरणिः ॥ ११ ॥
भावये मनसा व्यासं यः स्ववाचा सुधामुचा ।यौधिष्ठिरीं क्षितौ कीर्तिं द्राघिष्ठां प्रत्यतिष्ठिपत् ॥ १२ ॥
गुणेषु नेतुः कुशलेषु सत्सुनृत्यंति वाचो नितरां कवीनाम् ।कलाधिनाथस्य करोदयेषुतरंगरेखा इव सागराणाम् ॥ १३ ॥
भो भो मत्सरकुत्सितान् सुमतयो दुर्वैदुषीगर्वितानाकाशादवतारभागिन इवाहंयून् समाढ़ौक्य किम् ।श्लाघाकंपनमेकमेव शिरसः श्रीव्यासयोगीशितुःमेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥ १४ ॥
तोतिथिर्भवतु नः स तु कालिदासोयः क्षोणिभागमवतारयति स्म वाणीम् ।पाथोजसीधुसुरभिं परमेष्ठिलोका-द्भागीरथीमिव भगीरथभूमिपालः ॥ १५ ॥
श्लाघामहे कविं बाणं यश्चक्रे मर्मणो भिदाम् ।धन्वकोटिजुषि ज्यायां तिष्ठन्नेव विरोधिनाम् ॥ १६ ।
पुंसां केवलतर्कसारविफलीभूतात्मनां बिभ्रतांअब्रह्मण्यनिदानवैभवकलामंभोजभूयोषितः ।या यादृच्छिकवासपात्रमभवत्तस्यै दिशे भूरिशोमूर्ध्ना भीतिनतेन संप्रति नमस्कारं चमत्कुर्महे ॥ १७ ॥
पद्यानां सुकवेरदृष्टविषयानाग्रेडितानामपिप्रत्नानामिव भाति वागियमिति श्लाघापरान् केवलम् ।चर्चादिक्रियया तथाऽभिनयतः साहित्यमर्मज्ञतांवैधेयान् विधिरेव तर्जयतु तान् ये भावनाकोविदाः ॥ १८ ॥
लोकालोकधरावधिर्न धरणी नाभ्रं मुहुः पुष्पव-त्संचारप्रमितं न वा चुलुकितः कुंभीभुवांऽभोनिधिः ।वाचा तादृशमद्य तस्य चरितं श्रीव्यासयोगीशितुःक्रोडीकर्तुमना भवाम्यहमहो को मे समस्साहसी ॥ १९ ॥
श्रीव्यासतापसमणेः चरितं निबंधुंगण्यं महाकविभिरप्यहमारभेय ।कार्येऽपि यूथपतिना कलभः प्रवृत्तिंप्रव्यातनोति हि मदेन परीतचेताः ॥ २० ॥
गर्वामि नैव वचसां मम पेशलत्वा-दंगीकरिष्यति जनोऽमुमिति प्रबंधम् ।एषोऽवतंसयति यद्यतिनायकस्यतस्यामितंपचगुणं महितप्रभावम् ॥ २१ ॥
अन्तरायसलिलाचमनोद्य-क्तर्णतालपवमानशिशूनि ।तुंदिलानि कुतुकानि गणानांकानिचिन्मनसि कंदलयामः ॥ २२ ॥
नवनीतसुगंधयो नखांतानवनीपांकुरनंदनीयशोभाः ।कुशलं कलयंतु गोपिकानांकुचवास्तव्य कुटुंबितधुरीणाः ॥ २३ ॥
वात्सल्येन पयोनिधेः सुरभितं वक्षः प्रदेशं वहद्वयाचक्षाणमभंगुरांगमहसा वालाहिकीं प्रक्रियाम् ।उद्दामां शुभसंपदं निजजुषामुल्लोलकल्लोलयतेजस्तादृशमादिमं विजयते सेव्यं गणैर्योगिनाम् ॥ २४ ॥
वाणीनामजनिस्पृशां भगवतो मांगल्यतेजोनिधेःविज्ञातुः स्वयमेव तापसगणाः व्यासस्य सेवार्थिनः ।पुंजीभूय पुरा कदाचिदखिलाः पुण्याकृतिस्पूर्तयः.प्राविक्षन् परिपावनीं बदरिकां प्रालेयरौलालयाः ॥ २५ ॥
नवनीरदनंदनीयशोभेनरनारयणनामधेयचिह्ने ।जगतां कुशला दीक्षमाणेमहसी यत्र महत्तपो व्यधत्ताम् ॥ २६ ॥
तत्र ते सकलभुवनपरिपावनसलिलप्रभावं, गंभीरिमदेशिकमिंव जलनिधीनां, नाभीकुहरमिव वसुंधरायाः, वारिगर्तमिव दुरितमतंगजानां, मार्गस्थानमिव रसातलस्य, तिलकमणिमिव आर्यावर्तस्य, स्थलदर्पणमिव वनदेवतायाः, प्रथमांकुरालवालमिवाकाशस्य, लावण्यरसगलनमिव दिग्वधूनां यश: पूरमिव शिशिरतायाः, मूलावलंबमिव नैर्मल्यस्य, स्वादिमवरप्रदातारमिव सुधारसानाम्, उपादानमिवमानससर्गस्य, सूतिकासदनमिव सुपर्वभावस्य वासुदेवमिव वनमालापरिवृतं, कुंडलींद्रमिव कुवलयधुरंधरं, भोजभूपतिमिव विदर्भदेशोपलालितं, हिरण्यकशिपुमिव प्रल्हादकारणं, ब्रह्मसभांगणमिव पद्मासनाधिष्ठितपरमहंसमंडलं, मन्मथकेतुमिव मकरपरिमंडितं, दनुजराजकमिव कविविलासलोलसंकरं, दिवसावसानमिव धृतरक्तसंध्यकं, पशुपतिरथमिव भास्वचक्रपरिक्रमं तनुमपि अखिलावलोकनीयं, स्निग्धार्जुनपरिसरमपि · दर्शितधार्तराष्ट्रपक्षपातं पुंडरीकसंकुलमपि निर्भयमृगाध्यासिततटम्, अनपायमपि भङ्गपरंपरानुविद्धं, क्वचिदुपरिपोर्पूर्यमाणबुद्बुदमुकुलनिकरसूचितचिरायमाणदूराघमर्षणनिमज्जनयतिकुलं, क्वचिदारभ्यमाणमृत्तिकाभिषेचननियममुनिजनपरिलोलनकलुषीकृतं, कचिदूर्मिकागणप्लवमानकुशाग्रतिलकुसुमानुमितगृहमेधिपितृदेवतातर्पणांजलिसमाराधनं, कचित्परिशोध्यमाननवीनवल्कलवसनकाषायरसारुणितावतारसरणिपरिसरं क्वचित्प्रक्षाल्यमानतापसीजटापूलिकाविगलितविकसदिंगुदीतैलकणिकाकोरकचंद्रकितं कचिदृषिमाणवकनिवहपूर्यमाणकमंडुलुशतमुखघुमघुमारखमुखरिताशेषहरिन्मुखं, कचित्सहचरचं चूपुटसानुरागवितीर्णविमलबिसकिसलयचर्वणगर्ववन् मरालीकुलसमुदंचितकिलकिंचितं कचिद्वीचीडोलामरकतफलकायमानविशालकमलिनीपलाशसरसनिषण्णसारसनिकुरंबं, मङ्गलगाधायमानमधुकरीझंकारं, धवलबहुलंकुमुदमुकुलच्छलेन धर्मांकुरकेदारतामिव दर्शयंतम्, अंतर्बिंबिततटतरुणपल्लवकैतवेन निमज्जज्जनरागघस्मरतामिव दर्शयंतम्, उत्कंठितशैवलवलयपरिवेषणमिषेण त्रिभुवनपवित्रीकरणबद्धकक्ष्यतामिव प्रकाशयंतम्, अभ्रंकषवेतसशाखाकांडपटेन अशेषकलुषपेषणदक्षताबद्धकेतनपताकामिव प्रत्यक्षयंतं, निरंतरायशकुंतवृंदकोलाहलोन्मेषापदेशेन कैवल्यवितरणकृतबिरुदघोषतामिव द्योतयंतम्, अप्रमेयप्रभावमतिमात्रपरिणाहमनाघ्रातसादृश्यमनालीढकलिदोषममर्याद्गुणवैभवमसममिव पारावार-
तस्योत्तरे तापससार्वभौमा: कूले दृशां गोचरयांबभूवुः !महाश्रमं धाम वसुंधरायाः च्युतं प्रमादादिव पद्मयोनेः ॥
संफुल्लां सल्लकीनां मृगपतिशिशवः प्रह्वयंत्युच्चशाखा-मारुह्योपर्यधस्तात्तरुणकरटिनः सुग्रहार्थं जिघृक्षोः ।कंडूयंते कुरंगान् मृदुनिहितनखैद्वीपिनो मीलिताक्षा-न्यत्राहीनां मयूरा धुतगरुदनिलैरामिषं निर्वहंते ॥
यश्च निरतिशयानुभावरामणीयकसंपदा सहयुध्यैव सप्तर्षिवासभव नेन, विप्रकुशविष्टरोपविष्टैः कुमारैरिवाम्नायस्य, कंदलैरिवादिमाश्रमनिय मानां, बीजैरिव तपसामरणिखंडैरिव ब्रह्मवर्चसकृशानोरंडैरिव पतिव्रतामरालिकायाः, सततनिहितदूर्वादलसंपादितश्यामिकाभिर्ब्रह्मवदनप्रवेशनभिया पश्चान्निर्गच्छंतीभिरिव मानसतमोरेखाभि: कमंडलुनासिकाभिरिव तनीयसीभिः शिखाभिरुद्भासमानैः स्वर्णवेणुपर्णसवर्णाकृतिभिरुज्वलंतीभिरिव ब्रह्मतेज: शिखाभिरूर्ध्वललाटिकाभिरुन्मेषितवेषैः स्वरोच्चारणविवरणनिरर्गलनिर्गलद्दशन किरणापदेशेन वदनकमलमाविशं तीनां विद्यानां विकचप्रसूनांजलिविकिरणमिव वितन्वानैः, निशाकरमयूखनिर्मितयेव धवलधवलया, ब्रह्मलक्ष्मीस्वयंवरमालि यज्ञसूत्रिकया पवित्रीकृतगात्रैः, पावकोपासनपरिचयस्थिरलग्नधूमवलयानीव कृष्णाजिनोपसंव्यानानि धारयद्भिः, सौदामनीदामपिंजराभिरतिचिरधार्यमाणप्रथमाश्रमनियमचलनसाध्वसनिबद्धकनकरज्जुभिरिव मसृणाभिमजीवेणिकाभिर्वलयितकटिप्रदेशैरिगालमषीतिलकितसमुचितावयवसूचितसमिदाधानविधिभिः, स्खलितपदस्कंदसमुद्धारसरसीभवदुपाध्यायभावनिकटतरुनिष्कुटनिलीनशुकयुवभिरंकपर्यंकनिषण्णकुरङ्गशाबक-लेलिह्यमानदर्भपवित्रकाश्यामलितकरांगुलिप्रवर्त्तितावृत्तिगणनोच्चतराध्ययनकोलाहलसकलदिशामुखबधिरीकरणपटुभिरध्यासितपर्णशालाजिरपादमूलवेदिकः करांजलिसेकजंबालितकेदारिकासमेधमानकलममंजरीपुंजपिंजरितोपकंठो, वैतानवैश्वानरपरिरक्षणजागरूकपत्नीजनविसारिशुष्यद्गोमयपिंडश्यामायमानबहिरंगणो विकचतुलसीवनवितर्दिसोपानपरंपराप्रसाधनाराधनकर्मठजरठाचूर्णीक्रियमाणशर्करोपलशकलः, पुंजीभूतबालिकाकरकलितकलशावर्जितसलिलधारासिच्यमानमूलालबालबालपादपो भागवाटिकांतरालकंदलदुद्गातृसामगानसमाकर्णनविस्मृताहारविहारसांरगयूथः, परिसमापितस्वाध्यायहुतवहोपासनवैश्वदेवबलिदेवतासमाराधनगृहमेधिकुलप्रतीक्ष्यमाणपरमातिथिसार्थागमनानुग्रहः, स्वधितपाणिशिष्यशतानुमीयमानसमित्कुशपूलिकाप्रगुणयूपारणिफलककूटसंकटद्वारपर्यंतो, यायजूकसमानीतपशुशाबकनिकायकांतिमेचकितोपशल्यः, श्रवणपुटनिपीयमानहरिकथारसजनितानंदपुष्यत्पुलकमुकुलनिचोलितकलेवरवृद्धतुमुलितचत्वरप्रदेशो, विस्मरणौषधिविशेषो विषमशरविलसितानां, पश्यतोहर: पातकानां प्रपामंडप : भवनिदाघतप्तानां, कालदंडः कलिकालस्य, कुलवैतालिकः कृतयुगमहापतेरन्यादृशैरपरिमिताद्भुतगुणसमुदायैः विस्माययतीव निखिलभुवनधातारमपि विधातारं --
मध्येऽस्य मंजुलदलं वटमुच्चशाखाकांडप्रकांडकवलीकृतदिग्विभागम् ।कल्पांतवातविनिपातितकालमेघशंकावकाशमभजंत ततो मुनींद्राः ॥
मुक्त्वा फणींद्रमपि मोहनमिंदिरायाःवक्षोsपि यस्य वटपत्रपुटीं वरेण्याम् ।कल्पावधौ शिशयिषुः कपटार्भकस्सन् पर्यंकिकां वितनुते भगवान् मुरारिः ॥
मूलप्रांते यस्य मुग्धेंदुचूडायुक्तिप्रौढैर्योगिभिः सेव्यमानाः ।आम्नायानामर्थसंपत्तिरीतेःप्राणा गौर्याः प्राड्विवाका भवंति ॥
तस्यैकलातिप्रमाणविस्तारभाजस्तरुणशुकतनुश्यामलनवगोमयलेपेनविधानुमसृणितायां, मरकतशिलानिर्मितायामिव मूलवेदिकायामायतकृष्णिकाभङ्गिशतकल्माषितसारङ्गतारक्षवचर्मवर्मिते मृदुलदलसंदर्भितदर्भासने निषेदिवांसं, प्रशस्तमतीनां स्थिरहस्तविस्तृतपुस्तकविभागानां निजवदनकोकनदचंचरीकायमाणचारुविलोचनानाम् उपनिषदर्थनिश्चयं समर्थयमानम्, अभ्रंकर्षाविटपिविटपपटलिकाव्याहन्यमानस्वकिरणावतरणस्य विचित्रानुभावलोकनीयस्य समालुलोकयिषया धरातलमवतीर्णमिव सहस्रभानुं, कलिकालनिरसनकलितावतारमिव कमलासनं, हृदयपुटकिनीकुसुमकुटीरवास्तव्यकैटभदमनबहिर्विगलदंशुजालिकानिचोलितस्येव श्यामलस्य विसृमरैः कलेबरस्यालोकप्रपंचैरकालीनमिव मेघनिकरं दिवसमुपनयंतं, प्रविकस्वरबालवारिकर्णिकारकलिकासखीनां कुलपालिकानामिव कुशेशयबंधुकिरणनिकरस्य, बाडवज्वालानामिव संसारसांगरस्य, शाखाशिल्पानामिव तपोहाटकवटस्य, मातृकाणामिव सौदामनीदामनिर्माणस्य, जटाटवीनां कवलितगगनकटाहोदरकुहरैः पिङ्गलिमप्ररोहैर्नैजावतारमिव दर्शयंतं, लेलिह्यमाननासिकावंशमूलयापरिणामपिंजरकरवीरदलाकारजुषा मुखस्थयेव तत्त्वज्ञानदीपिकया, मूलिकयेव ज़टालताप्रतानस्य, हिरण्मयडोलासूत्रिकयेव लपनवनजलावप्यलक्ष्म्या, मुकुलकंदलिकयेव योगचंपकस्य, गोपीचंदनरसचमत्कृतया-तनीयस्या स्फुरदूर्ध्वपुंड्रपुंड्रिकया परिकर्मितफालप्रदेशं, करुणारसपूरनिरंतरनिर्याणकच्छस्थलाभ्यां स्वमूर्तिविभागनिदानहरिस्मरणानुमानीभवदृढ-निमीलनाम्रेडनपरिपाटलाभ्यां विषयसंन्यासपरिगृहीतकाषायाभ्यामिव विलोचनाभ्याम् इतस्ततोऽनुगृह्णतं, व्याख्याविलासविवृताधरपुटविसृत्वरीभिर्बालवलाहकवारिशीकरप्रथमसंगमविकचकुटजकुसुमकेसरद्रोहिणीभिरुत्पतंतीभिरिव शारदाविजयकेतनदुकूलपताकाभिर्वल्गंतीभिरिव विद्यामृतप्रवाहडिंडीरमंडलिकाभिरुड्डीयमानाभिरिव वदनसरोरुहमरालिकाधोरणीभिर्दंतकांतिलहरीभिर्द्वितीयमिव दुग्धसागरमुत्पादयंतं, बिसमिवामलतंतुसंततिसोदरीभिर्निर्झरणीभिरिव ब्रह्मवर्चसशैलस्य, चामरिकाभिरिव योगसाम्राज्यस्य, मृणालिकाभिरिव धर्मपुण्डरीकाकरस्य, हारमालिकाभिरिव सत्याधिदेवतायाः, कुसुमावलीभिरिव कृपावल्लिकायाः महीयसीभिः ब्रह्मसूत्रपूलिकाभिस्सीमंतितवक्षोभागं, कटितटोपरिवेष्टितकृष्णसारत्वचं, कालभुजगनिर्मोकपरिवेष्टितमिव चंदनतरुं, कुवलयाकरशंकासमागतेनेव चक्रवाकयूना पावनसलिलपूरितेन कमंडलुना परिमण्ड्यमानपार्श्वदेशम्, ऋतुगणमिव प्रज्वलितशुचितपस्सुरभिं, दाडिमवनमिव सततशुकसेवितं, सुहृदिवानुभूयमानसमाधिसुखं, गंधर्वतंत्रमिव कल्पितश्रुतिमण्डलविभागं, प्रभंजनकुमारमिव प्रशमिताक्षदौर्ललित्यम्, उज्ज्वलसुषुमाभिराममुत्फुल्लकमललोचनमुन्नतनासावंशमुदारवदनप्रसादं, युगपदेव ते सविनया भगवंतं व्यासदेवं समानंसिषुः ॥
अथ तपसांनिधिः समुत्थितान् सरभसशिष्यजनपरिग्राहितबृसीसमर्पणादिसमुचितोपचारमुदितमनसोप्रकटितार्जवानपि प्रवणीभवतः, करुणापय:प्रणाळिभिरिव कटाक्षवीक्षाभिः पावयमानो, मधुरासारकिरा गिरा तानभाणीत् । अये तपोधनाः ! महनीयतेजः प्रभावानां परिगृहीततृतीयाश्रमाणामिव दिनमणीनां भूयसः कालादागमनम्। अपि स्वागतम् ।
भद्रं किमारण्यफलाशिनां वः सारङ्गयूथैकसहायभाजाम् ।निर्विघ्नताश्रीर्नियमक्रियासु जागर्ति किं वा सफलोदयासु ॥
किसलयति न पीडां किं नु तापोवनीनांविटपिपटलिकाभिर्व्याहतिर्दाववह्नेः ।अनिशमतिथिसार्थाः किं सपर्याकृतार्थाःविलसति दृढशक्तिर्वैष्णवी किं नु भक्तिः ॥
इत्थं क्षेमानुयोगपुरोगामियत्तामिवापरोक्षयंतीं सुधामधुरिम्णो, निशम्य ते भगवतः पाराशरस्य वाणीमनणीयसीभिः आनंदकंदलीभिः कवलितमनसः सविनयमेवं व्यजिज्ञपन् ॥ ब्रह्मन्! कुतोऽवकाशः कुशलेतरप्रसंगस्य भगवदनुकंपानदीमातृकाणाम् । किं तु पुरंदरपुरोगवृंदारकवृंदकांचनमकुटावतंसायितचरणारविंदस्य भारतीजानिकुलभागधेयस्य त्रिभुवनस्वैरपरिचंक्रमणविलासरसिकस्य निरंतरोपकुंचितपाणिकमलांचितविपंचीगुणपद्यारोपितविविधावतारक्रमबिरुदावलिगानकलावशीकृतकमलासखमानसस्य भागवतमूर्धन्यस्य तत्रभवतो नारदस्य मुखादद्यैव जगत्पाषंडाक्रांतमस्माभिः श्रुतम् ।
भवतोऽधिगतान्येतान्यखिलानि तपोनिधे ।'बलाहकैरिवास्माभिरंभांसीव पयोनिधेः ॥
तदा प्रसङ्गेन तापसगोष्ठीभिः साराभिर्युगधर्मं पृच्छयमानेन पादे चैव हि कलेर्विश्वसनीयवेषैः पाषंडैरुत्पातवातैरिव जलनिधेः जगतः कलुषीकारो महान् भविष्यतीत्यन्वग्राहि भगवता । तथाप्यधुनैव तरुणभुजगगरलस्येव बहुलदिवसावसानसंतमसस्येव प्रलयानलधूमनिवहस्यैव समुज्जृंभमाणस्य किमस्य कारणं कदा वा शांतिश्च ।
इति प्रकृष्टैर्मुनिभिः स पृष्टः प्रहृष्टचेताः प्रतिसंबभाषे ।पाराशरस्तान् परमार्थवेदी मन्दस्मितस्यंदनसुन्दरोष्ठः ॥
समयसमुचितोनुयोग एषस्वचरितविद्युतिभीतभीतधीभिः ।व्यरचि खलु तपोऽधुना भवद्भिःसमवहिताः श्रुणुताखिलं वदामः ॥
मणिमानिति वातसूनुनासह युध्वा समरे पराजितः ।असुराधिपतिर्हरंजगद्गुरुमानंदयदर्चया पुरा ॥
संप्रीणितेन मनसा शशिशेखरेणदेयं किमित्यभिहितो दितिसूनुरेषः ।इच्छामि जेतुमतिमात्रबलेन भीममित्यब्रवीद्विपुलमानससाहसश्रीः ॥
एवं दुर्वितरं वरं प्रार्थयमानस्य मानधनाग्रेसरस्य वचनमाकर्ण्य तस्य दरहसितविकसितगण्डपालिश्चंडिकाजानिः पुनरप्येवमब्रवीत् ।
शक्यो जेतुं किमु स भगवान् सप्तलोकीविधातामुख्यप्राणो मुरदनुजभिद्भक्तमूर्धन्य एषः ।कृत्वा मायामतमभिनवं मोहनायामुना त्वंकिंचित्कालं शिथिलय मतं तस्य तत्त्वावबोधम् ॥
इति पुरशासनादासादितवरेण, केरलभुवि द्विजकुले कृतजन्मना, सङ्करनामधारिणा, विविधमायामहीयसा, पापीयसाऽनेनैव, वेदपदवी-
खंडनं चक्रे । तत्रांतरे तस्य मणिमतो मायाविलासनिरसने महानुभावेन, पूर्वमखर्वतरगर्वशर्वरीचरसार्वभौमकुलनिर्वापणधूर्वहसर्वंकषदोर्दंडचंडिमपरिपूरितदाशरथिमनोरथेन, प्रकटितांजनेयभावेन, तदनु कनकपट्टशृंगारितप्रोद्दामभयानकगदामुखपायसपारणायितधार्तराष्ट्रशतानन्दितमुकुन्देन, दर्शितकौंतेयभावेन, पश्चाद्वैदिकाचारप्रवर्तनबद्धकच्छेन, मध्वमुनिनामधे यप्रसाधितसकलभुवनत्राणेन मुख्यप्राणेन, ब्रह्मसूत्रस्य मदनुज्ञया तदा विरचितमदूष्यं भाष्यम् । तत्तु कालमेतावतं विपत्क्रियावसानेन माननीयेन पुरशासनवरेण दारुणेन राहुणा कवलितमिव दुश्शकोन्मेषमवर्तत मण्डलं चण्डभानोः । इतः परमचिरादेव कवेरकुमारिकातीरशेखरबन्नूरुवास्तव्ययोश्चिरं मदुपासनेन माननीयेन पुत्रीयतोः भागवतावतंसयोरवतीर्णयोरिव भुवमरुंधतीवसिष्ठयोः तपस्तपतोरिव स्वाहानलयोरतिपावनचरितयोर्लक्ष्मीबह्नणसुमतिनाम्नोर्दंपत्योर्मदुपासनमहिम्नाऽतिपावनचरित्रसर्वातिशायिशेमुषीविशेषकन्दलि तः कुमारो भविता । तस्मिंश्व मदनुशासनं शेखरमिव शिरसा बहनू, स एव पुनरपि भावितावेशरूपावतरणमङ्गलो, मुख्यप्राणो, मानुषस्यैव भावमनुकुर्वाणो ब्रह्मण्यमनोरथमपि सार्थकीकृत्य 'विविधचरित्रविचित्रैः अखिलमपि भुवनं विस्माययन्, जाङ्गलिक इव मंत्रेण सरीसृपवेगं, तरणिरिव किरणेन तमः प्रचारं, घनाघन इव वर्षेण धर्मतापं, भिषगिव भेषजेनाऽमयं पुरा कलितनिजभाष्यप्रवर्त नेन विमतप्रपंचितदुर्मतमुन्मूलयन् संस्थापयिष्यति सर्वाणि कर्माणि, तदिदानीं मा भैष्टेत्येवमनुगृह्णतं भगवन्तं व्यासं प्रणिपत्य मुदितमुदिताः तदनुमतिपुर : सरं सर्वेऽपि मुनयो यथागतं प्रत्ययासिषुः ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते प्रथमोल्लासः ॥

॥ द्वितीयोल्लासः ॥

अथ कदाचिदतीतेषु वासरेषु कतिपयेषु तत्र वह्निपुरे निरवशेषितनिखिलनिशामुखनिशांतकरणीयकठोरविविधाचरणकर्शितांगी, घर्मसमयपरिम्लानेव नवमालिका, दिनमणिकिरणपरितापितेव दर्शेदुलेखा, महीयसा गुणेन सौंदर्यादिना द्वितीयेव कमला भगवती साक्षाल्लक्ष्मीश्चिरादनपत्यतादूयमानमानसा, दुग्धफेनपिण्डपाण्डरदुकूलोत्तरच्छदे स्फटिकपर्यंके कलशसागरोदरपरिकल्पिते दर्वीकरसार्वभौमतल्पे शयानमिव नारायणं कुलवृद्धिकंदलाय संततमनुवर्तमानया कयापि चिंतया मुहुर्मुहुर्निःश्वसंतं प्रशस्तगुणवैभवं प्रचुरतरसंपत्तिं परमपुरुषाश्रयमपि प्रदीपैकसहायं वल्लभं बल्हणसुमतिमभाषिष्ट ।
किं पटैः किं पिटीरैर्वा किं धनैः किं न बांधवैः ।किमाहारैः विहारैर्वा दंपत्योरनपत्ययोः ॥
अये कष्टं किमन्यदनपत्यतायाः ।
तिरयति या कवाटफलकेव लोकयोरुभयोः सुखागमनद्वारम् । ग्लपयति या दवानलशिखेव वनतरुपल्लवानि पितृगणमनांसि । जनयति या रजनीविरतिरिव कुवलयकुमुदयोर्दंपत्योः साधारणं दुःखम् । दर्शयति या दृशिरिव पटलदूषिता शोभनान्यर्थान्तराणि । निष्फलयति या प्रवाताहतिरिव कमलमणिगणशतानि सर्वकर्माणि । समापयति या चरमप्रणवलेखेव स्वाध्यायस्य कुलस्य प्रचारम् ।
अपत्यहीनं कुलमागतस्य कथं प्रकाशः कमलागुणस्य ।मधोरिवानोकहवाटशून्ये देशे महांतं दधतोऽवतारम् ॥
त एव खलु धन्यमूर्धन्याः ।
पाणिद्वयेन तनयैः परिधूसरेण मा मेति मंदवचसाऽप्यनुनाथ्यमानैः ।आलोडितान्यमृतसख्यधुरंधराणि ये भुंजते जगति मङ्गलभोजनानि ॥
किं वा पूर्वतनेषु जन्मसु न तादृशं सुकृतमावाभ्यां चरितम् । तदास्ताम्। सहजालीकाः किं शाकुनिका: । वंध्याशिषः किं वसुंधरानिमिषाः। उद्धृतानुभावं किमुपश्रवणम् । निश्चयापटवः किं निषादयोषितः । विगतविचारणाः किं विप्रनिकाः । गलिताभिधेयं किं गौलिकावचनम् । असिद्धिपरतंत्रा: किं परममंत्राः । विरचितासुरभावः किं व्यासदेवः। देवताशून्यानि किं त्रिभुवनानि । अथवा समस्तं वितथमेव ।
पुष्यत्कृपालहरिपूर्णकटाक्षवीक्षासंत्रायमाणजगता सकलोत्तमेन । कंसारिणाऽस्मदभिकांक्षणपूरणाय किं वा विलंबनविधिः क्रियते न जाने ॥
इति महीयसा शोकवेगेन करुणमाचक्षाणः प्राणनिभां वल्लभां अमृतोपमेयैर्वचनैराश्वासयदाचख्यौ च ।
मा गा विषादमधुना महिले श्रुणु त्वं वेगादिह स्फुरति मे विपुलोरुभागः । विद्रावितानतभयो विमनस्थयोन भद्रागमे स तु हरिर्भगवान् प्रमाणम् ॥
इत्यनेन कुशलोदर्केण सब्रह्मचारिणेव सुधारसस्य, वैतालिकेनेव निद्राणहर्षस्य, प्रास्थानिकपटहेनेव शोकस्य, मनोरथमिव हस्तेन समर्पयतार्द्ररसनो दयमानया वरवर्णिन्या किमपि भाषमाणश्विरादनतिसुखं सुष्वाप । तदनु परितापमनयोरवेक्षितुमधीर इव शनैरशनैरपयाति विभावरीसमये भवानीरमणनटनवेगभ्रश्यमानविधुमण्डल इव शशिम ण्डले गगनपथसंचारपरिश्रममपनोदितुमिवावतरति तटमपरांबुधेः नभोमण्डलमारुरुक्षोज्योतिस्सार्वभौमस्य पुरस्सरेणारुणसौविदल्लेन किरणकनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे हिमकरविरहानलधूमधोरणीष्विव कुमुदवाटिकायामुत्पंततीषु मधुकरीषु, पयसिजशय्याप्रबुध्यमानकमलामणिमेखलाक्वणितेष्विव समुन्मिषत्सु सत्सु सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवताचरणमंजरीशिंजितेष्विव समुदंचितेषु कलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलि मन्दमन्दमध्ययनमुखरतां मुञ्चमानेषु माणवकेषु, समारब्धपावनमधुमथनमङ्गलस्तोत्राडंबरेषु जरठभागवतेषु, पिपासतामग्निहोत्रधेनुस्तनंधयानां बर्बरारवैर्जर्जरितेषु यज्वभवनेषु,
संमोदबाष्पसलिलैस्तरलीभवद्भिःधाराललोचनचलाचलपक्ष्मपङ्किः ।स्वप्नोपलब्धकुशलाभ्युदया शुभांगीप्रबुद्ध सा प्रथममेव जवेन भर्तुः ॥
अनुपदमेव मुक्तनिद्रं, मुकुन्द, हरे, मुरशासन, शरणं भवेति संकीर्त्य शयनतलादुत्तिष्ठतं प्रियतमं प्रदक्षिणीकृत्य चमत्कृतनमस्क्रिया सा जगाद सबहुमानम् । अये भद्रं भद्रम् । अयं हि सुप्रभातो दिवसः । इदानीं तु स्वप्ने परमकारणिको, भक्तजनपारिजातः, स भगवान् पाराशरिः स्वयमेवागत्य भद्रे, प्रसादितोऽस्मि युवयोस्तपसा दुश्वरेणेति मधुरसासारमुचा बाचा वदन्नयमानन्दयत् । शरीरिण्येव शुद्धदेवतया कयापि शंखशुक्त्या सुधारसबुद्बुदमुकुलाकारजुषा केनापि मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडकरण्डकेन मौक्तिकच्छत्रेणेवप्रज्ञासाम्राज्यस्य, मूलकन्दवलयेनेव करुणालतायाः, दंतताटंकेनेव शारदायाः, स्फटिकपादपीठेनेव पद्मायाः, विधूतकलंकेन कलासमग्रेणस्थेयसा केनापि चंद्रमसा च शेखरितां काञ्चन काञ्चनपात्रिकामदृष्टपूर्वां मम पाणौ व्यसीसृजत् । अनंतरं च कश्चिदगण्यानुभावो नाम्ना ब्रह्मण्यः सद्य एव योगी समागत्य मनीषितं युवयोर्वर्धयिष्यति । तदवश्यं युवाभ्यां तदनुशासनानुवर्तनजागरूकाभ्यां भवितव्यमिति अनुगृह्यांतर्दधे । ततस्तां करतले वर्तमानामवलोक्य किमिदमिति मृदु विस्मयमानया तथैव समुदमीलि मयेति । मङ्गलप्रथमावतारसरणिं वाणीमाकर्ण्य तस्याः समुदंचितरोमांचप्रपञ्चकंचुकितसर्वावयवो हर्षमयमिव निखिलमपि लोकमवलोकयन्नभिनवमिवात्मानं मन्यमानः, कैवल्यसुखमपि निराकुर्वतीं मनसा निरंतरोत्संगनिषण्णस्वकुमार (स्य ) परिरंभणोत्सवमनुभवंतीमब्रवीत् ।
पूर्वमाश्वासितं येन मया संमोदबिंदुना ।अद्य तं सागरीकृत्य मां मज्जयसि शोभने ॥
न जातुचिदपि गिरो महतामपरथा भवंति । अधुना फलितममुना यतो जीवन् भद्राणि पश्यतीति वचनेन । आवयोरत्रैव लक्ष्यते मणिमुकुर इव पुण्यचरितम् । किं नाम न प्रसूते नारायणवरभक्तिकामगवीति ।
मणिविरचितमश्चान्मन्दमुत्थाय हृष्टःचिरमथ समुपास्यन् स्नानपूर्वं दिनेशम् ।अमृतरसधुरीणैर्हव्यजालैः सलाजैःस्तुतिभिरपि समिद्भिः तोषयामास वह्निम् ॥
सार्धं द्विजन्मभिरसौ . सकलश्रुतीनाम्पारंगतैरपि च भागवताग्रगण्यैः ।संमोदबाष्पसलिलैस्तरलीभवद्भिःधाराललोचनचलाचलपक्ष्मपङ्किः ।स्वप्नोपलब्धकुशलाभ्युदया शुभांगीप्राबुद्ध सा प्रथममेव जवेन भर्तुः ॥
सुखं सुष्वाप । तदनु परितापमनयोरवेक्षितुमधीर इव शनैरशनैरपयाति विभावरीसमये भवानीरमणनटनवेगभ्रश्यमानविधुमण्डल इव शशिम ण्डले गगनपथसंचारपरिश्रममपनोदितुमिवावतरति तटमपरांबुधे: नभोमण्डलमारुरुक्षोज्योतिस्सार्वभौमस्य पुरस्सरेणारुणसौविदल्लेन किरणकनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे हिमकरविरहानलधूमधोरणीष्विव कुमुदवाटिकायामुत्पंततीषु मधुकरीषु, पयसिजशय्याप्रबुध्यमानकमलामणिमेखलाकणितेष्विव समुन्मिषत्सु सत्सु सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवताचरणमंजरीशिं जितेष्विव समुदंचितेषु कलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलि मन्दमन्दमध्ययनमुखरतां मुञ्चमानेषु माणवकेषु, समारब्धपावनमधुमथनमङ्गलस्तोत्राडंबरेषु जरठभागवतेषु, पिपासतामग्निहोत्रधेनुस्तनंधयानां बर्बरारवैर्जर्जरितेषु यज्वभवनेषु,
अनुपदमेव मुक्तनिद्रं, मुकुन्द, हरे, मुरशासन, शरणं भवेति संकीर्त्य शयनतलादुत्तिष्ठंतं प्रियतमं प्रदक्षिणीकृत्य चमत्कृतनमस्क्रिया सा जगाद सबहुमानम्। अये भद्रं भद्रम् । अयं हि सुप्रभातो दिवसः । इदानीं तु स्वप्ने परमकारणिको, भक्तजनपारिजातः, स भगवान् पाराशरिः स्वयमेवागत्य भद्रे, प्रसादितोऽस्मि युवयोस्तपसा दुश्वरेणेति मधुरसासारमुचा वाचा वदन्नयमानन्दयत् । शरीरिण्येव शुद्धदेवतया कयापि शंखशुक्त्या सुधारसबुद्बुदमुकुलाकारजुषा केनापि मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडकरण्डकेन मौक्तिकच्छत्रेणेवप्रज्ञासाम्राज्यस्य, मूलकन्दवलयेनेव करुणालतायाः, दंतताटंकेनेव शारदायाः, स्फटिकपादपीठेनेव पद्मायाः, विधूतकलंकेन कलासमग्रेणस्थेयसा केनापि चंद्रमसा च शेखरितां काञ्चन काञ्चनपात्रिकामदृष्टपूर्वां मम पाणौ व्यसीसृजत्। अनंतरं च कश्विदगण्यानुभावो नाम्ना ब्रह्मण्यः सद्य एव योगी समागत्य मनीषितं युवयोर्वर्धयिष्यति । तदवश्यं युवाभ्यां तदनुशासनानुवर्तनजागरूकाभ्यां भवितव्यमिति अनुगृह्यांतर्दधे । ततस्तां करतले वर्तमानामवलोक्य किमिदमिति मृदु विस्मयमानया तथैव समुदमीलि मयेति । मङ्गलप्रथमावतारसरणिं वाणीमाकर्ण्य तस्या: समुदंचितरोमांचप्रपञ्चकंचुकितसर्वावयवो हर्षमयमिव निखिलमपि लोकमवलोकयन्नभिनवमिवात्मानं मन्यमानः, कैवल्यसुखमपि निराकुर्वतीं मनसा निरंतरोत्संगनिषण्णस्वकुमार (स्य) परिरंभणोत्सवमनुभवंतीमब्रवीत् ।
पूर्वमाश्वासितं येन मया संमोदबिंदुना ।अद्य तं सागरीकृत्य मां मज्जयसि शोभने ॥
न जातुचिदपि गिरो महतामपरथा भवंति । अधुना फलितममुना यतो जीवन् भद्राणि पश्यतीति वचनेन । आवयोरत्रैव लक्ष्यते मणिमुकुर इव पुण्यचरितम् । किं नाम न प्रसूते नारायणवरभक्तिकामगवीति ।
मणिविरचितमञ्चान्मन्दमुत्थाय हृष्टःचिरमथ समुपास्यन् स्नानपूर्वं दिनेशम् ।अमृतरसधुरीणैर्हव्यजालैः सलाजैःस्तुतिभिरपि समिद्भिः तोषयामास वह्निम् ॥
सार्धं द्विजन्मभिरसौ सकलश्रुतीनाम्पारंगतैरपि च भागवताग्रगण्यैः ।धीमान् समारभत देवगृहे विशेषात्पूजोत्सवं कलयितुं पुरुषोत्तमस्य ॥
तत्रांतरे --
शिष्यौघेन यदृच्छयैव स महांस्तेजोमयेनावृतोभिक्षूणामधिनायको प्रतपसां ब्रह्मण्यनामा मुनिः ।कावेरीं समुपाजगाम विलुठत्कल्लोलमल्लावलीवाताघातविलोलितांबुजगलन्माध्वीकरीवर्धिताम् ॥
श्रेयः पत्तनगोपुरं दितिभुवां डंभच्युतिप्रक्रमोनिर्मर्यादकृपाप्रवाहलहरीनिर्याणकच्छस्थली ।संसाराटविमार्गशौल्किकपतिः संमोदकंदश्रियोनिर्णीतिर्वचसामलीढजनुषां निद्राति यत्सैकते ॥
या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरानप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनिततरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकलहोदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः, निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबहलमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगंतरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचयशतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंबकदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव संदर्शयंती, क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपादमण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-ह्लारवातपर्यटनसरससारसमिथुनयूथमस्तकशोणिमविस्तारमिषेण सरस्व तीसङ्गमसंभावनामिवोद्भावयंती, धात्रीव दक्षिणदेशस्य, जटालतेव मुक्तिकन्यायाः, प्रहारिकेव पातकमलिम्लुचानां संमोदागमपद्धतिरिव सागरस्य, कल्याणपरंपरेव कवेरस्य, पण्यविशिखेव पुण्यसंचयानाम्, अर्गलेव दुर्गतिद्वारस्य, संव्यानशाटीव सर्वंसहायाः, वागुरिकेव भवभयमृगस्य, कीर्तिलतिकेव कैवल्यस्य, त्रिभुवनपरिपावनी सर्वासामपि सरिताम् अधिदेवता विजयते भागधेयलक्ष्मीरिव मध्यलोकस्य ।
तदनु सलिलैः पुण्यैस्तस्याः सुधारससोदरैःनिभृतमवधीं नीत्वा माध्यंदिनीं नियमक्रियाम् ।सपटुमतिभिः शिष्यैः सार्धं तटे मुनिरुत्तरेबहुलविपुलं बन्नूराख्याग्रहारमियायतम् ॥
आकृष्य सह्याद्रितटाज्जवेन कूलं कवेरात्मजया तरंगैः ।उत्कूलितस्याश्रममण्डलस्य पुष्णाति यः पूर्णगुणेन शोभाम् ॥
यत्राधिवासं रचयन्द्विजौघो निसर्गचित्रैर्नियमैर्मुनीनाम् ।चिरंतनानां जगति प्रतीतां सप्तत्वसंख्यां शिथिलीकरोति ॥
वीक्ष्य ह्रिया यत्र युवाभिरूप्यं प्राणान् स्वयं पञ्चशरो मुमोच ।भस्मीचकारेति तमीक्षणेन प्रवादमात्रं फलितं पुरारेः ॥
द्विजन्मनां यत्र दुरापपारां श्रियं समालोक्य चिरायमाणाम् ।अभून्न वै ब्राह्मण इत्यमोघमपि श्रुतेर्वाक्यमलं ममार्ज ॥
यत्र विस्मयनीयपावनचरितापसारितपातकानां, पाषंडमतखण्ड नाय भूमण्डलमवतरिष्यतो भगवतः परमेष्ठिनो मुख्यप्राणस्यपरिचिचीर्षया प्रथममेवावतीर्णानामिव सत्यलोककुटुंबिनां महानुभावसुगृहमेधिनां विचारकृत्ता वेदवाक्येषु, शंकमानता शास्त्रपाठेषु, खण्डता परमतेषु, निर्मर्यादता विद्यासु, निग्राहकता हृषीकेषु, बहुभाषिता वादेषु, भीरुकता पापेषु, हिंसकता यागपशुषु, लोलुपता हरिकथासु, विस्मृतता दुश्चरितेषु ।
नाम्नां कयित्वा तं वंदे रामेण स्थापितं पुरा ।वीक्ष्य विस्मयमानोऽसौ मुमुदे मुनिपुंगवः ॥
तदानीं वांछितसिद्धसाधनाय माधवाराधनां विधाय विविधाभिर्दक्षिणाभिर्विस्मापितमनसो ब्रह्मसदसो नेदिष्ठफलजुषामाशिषां कोटी: कोटीरयित्वा सविनयं विरचितानुचर्यया भार्यया सह देवालयान्निष्क्रामन् संफुल्लमानसपरिपाको बल्लणसुमतिर्नातिदूरे विहाय निद्राविहारमनुजि घृक्षया भगवंतं रंगदेवमिव दक्षिणदेशं समायांतं मस्तकतलविन्यस्तपुस्तकभारैस्तरुणप्रायैः शुचिभिर्धर्मैरिवाम्नायानामंतेवासिभिरनुगम्यमानमभिनवजांगलिकदललोहितेन विद्रुमविस्तारेणेव तेजोऽबुराशेरुत्पातसंध्यारागेणेव संसारवासरस्य पल्लवपटेनेव तपश्चूतस्य, मृदुलमृदुलेन काषायवसनेन, बालातपमकालीनमिव प्रबलयंतं तरुणशिरीषकिंजल्कमंजुताभंजनरुचा, विलसदपांगशोणिम चुंबिताग्रेण श्रवणवामलूरुसमुत्पतितेनेव शतमखधनुरंकुरेण, कालकनीनिकामणिजंबूविभ्रमसमापतितेनेव तनुतरशुकशाबकेन, किंचिदाकुंचितेन महनीयरहस्यामिव मुक्तिपदवीमुपदिशता हरितपत्रस्तबकावतंसेन कवलितकर्णमूलं कवाटफलकविशालवक्षस्थलप्रेंखोलितया प्रसृमरकलेवरदीप्तिकोकनदवाटसंदेहादनुसरत्येव मधुकरधोरणिकया, विश्वंभराध्युषितहृदयमंटपस्य बलभिदुपलकल्पित येव बहिर्मंगलतोरणमालिकया बहुलया तामरसबीजगुलिकास्रजा परिष्क्रियमाणं वनसरसीविहरणस्कंधावसक्तबालकुवलयदामानमिवकुंजरकुमारं कनकपिंगलगोपीचंदननिर्मितैः परिसरजागरूकपञ्चमुद्रिकाविन्यासैः प्रांशुभिरूर्ध्वपुंड्रैः पवित्रीकृतसमुचितावयवं लंबमानमंजरीधुरं धरं चरिष्णुमिव सुमेरुतटराजच्छाखिनं, जर्झरीतिलककल्माषितेन समुच्छ्वसितपर्वणा षड्गुणितकौपीनमुद्राचमत्कृताग्रभागेन दुर्ज्ञानविपिनखण्डनपरश्वधेनेव भवभुजंगविषापसारणवेत्रेण विरक्तिलतिकोपघ्नस्तंभेनेव दुष्कृतमदावलतोत्रेणेव मुष्टिविधृतेन तनीयसा दण्डेन किंचिदासंजितवामांसकूटं तिंत्रिणीसारशोधनमेदुरितथालथल्यं, स्वतेजसा विनिर्जितबंदीकृतमिव नवमरीचिमालिबिंबं समुदग्रया नासिकया सोऽयमेव तत्र भगवतः कारुण्यभाजनमितीव पुरतस्सूचयंतं ताम्रकमण्डुलं पाणिना दक्षिणेन बिभ्राणं, पटीरदारुफलकघटितां चटकुचटकुरुतेन समाधिविजयानुकारिणीं चरणेन पादुकां स्पृशंतं, पावनपवनजपस्पंदमानाधरविवरविगलदमलदशनाभीशुनिचयेन चित्तनैर्मल्यप्रवाहमिवोद्वेलयंतमतिप्रगल्भैरितस्ततो नयनविक्षेपैरंतर्गभीरिमाणमिव ज्ञापयंतं बद्धमूर्तिमिव मध्वराद्धांतं, मूलकोशमिव महामंत्राणां, वैक्रयिकमिव वैष्णवाचाररत्नानां, खलीनमिव दुर्ललितेंद्रियघोटकानां, नीडमिव नियमशकुंतानां, चंक्रमणरंगमिव षड्दर्शनानां, विजयस्तंभमिव तत्त्वज्ञानस्य, ललितमिलिताकृतितत्तादृशवैभवं योगिनमेनमवलोक्य विस्मयकबलितहृदयो भक्तानुकंपिना व्यासदेवेन स्वप्नसमयानुगृतस्य महीयसो ब्रह्मण्यशब्दस्यायमेवार्थ इति चेतसा निश्विकाय । ततोऽसौ सरभसमुपसृत्य --
साकं पादूं सरसिजदृशा संप्रणामे तदीयाम्गौरीं कृत्वा निटिलतटिकागोपिकाचंदनेन ।पाणे: कुंडीं प्रचुरविनयः पावनीमादधानोभक्त्या स्वीयं मुनिवरममुं प्रापयामास गेहम् ॥
स तत्र हृषितहृषितमनाः तनुतरतरुणकर्बुरलोमसंदानितेन पारिजातकुसुमकेसरसुकुमारेण समवायेन पञ्चवर्णासारिसांगकुरंगीसहचरचर्मशेखरितेन परिणाहिना चित्ररल्लकेन संघटितायामंतर्मंटपवितर्दिकायां, विविधधातुशबलितप्रथमधरणीधराधित्यकायां प्रभातसमयेनेव बालमार्ताण्डमण्डलं मन्दमात्मना समुपवेश्य तमेनमर्घ्यादिकया प्रशस्यया वरिवस्यया विकचोपचारभूयसा वचसा च शिष्यैस्सह मोदयामास । कृतभिक्षं च परिगलितश्रांतिभरं चिरेण तदनुमत्या स्वयमपि निर्वर्तिताभ्यवहृतिरादरादासाद्य पुष्करितांजलिः पुंखानुपुंखसांद्रतरबाष्पगद्गदकण्ठः किंचिदाकुंचितपूर्वकाय: प्रश्रयेण यतिपरिवृढमाबभाषे । स्वामिन्नहमिदानीं कृतार्थीकृतोऽस्मि संदेशहरेणेव भाविभद्रस्य विवर्तनेनेव प्राक्तनसुकृतस्य कुंभीलकेनेव शोकस्य कुठारकेणेव कल्मषपादपस्य प्रसादकेनेव वंशस्य सव्यवायकेनेवानंदबीजस्य धन्येतरदुरापेन महता तत्रभवतः समागमनेन माननीयेन । तथापि दुर्लभतया महत्सन्निधानस्य, निरंकुशतया संमोदस्य, चपलतया रसनायाः, समुचिततया समयस्य कृपालुतया तत्रभवतः प्रियतमतया प्रश्नाभिधेयस्य तरलतया चात्मनः, किंचिद्भवते विज्ञापयामि ॥
श्रीकाश्यपान्वयमणिर्मम तातपादःश्रीरामदेव इति दीप्तयशः प्रभावः ।कस्यापि मस्करिपतेः करुणाविलासात्प्रासोष्ट षट् पटुधियः प्रथितान् कुमारान् ॥
तादृशेषु समनोविकासनिपुणेषु प्रथमानयशस्सुरभितेषु कनीयान् ऋतुषु शिशिर इवाहमतिचिरमपुत्रतया वात्ययेव तृणभ्रमिः भ्राम्यमाणः प्रियतमया तया कंदलितोत्साहः पुनरपि श्रोत्रियसुतां कांचिदक्कम्मा भिधां पर्यग्रहीषम् । तथाप्येतावंतं कालमनुन्मेषितकुलांकुरस्य वांछितोदयस्तत्रभवतः कारुण्यकणिकायत्ततमः ॥
इत्युक्तो यतिसंसदामधिपतिः पश्यन् प्रतीच्या दृशादंपत्योर्विहितावतारमनयोस्तत्तादृशं पौरुषम् ।वाचा गाढतरार्थया परममित्यन्वग्रहीत्सादरम्भक्तप्रार्थनपूरणेष्वभिरतिं संतो हि संतन्वते ॥
शिष्यैस्समं द्रुततरैरथदेवपेटी-कुंडीबृसीवसनदंडलताग्रहैश्व ।एवं प्रतोषितहृदा गृहमेधिनापिदेवालयं प्रति गृहान्निरगात्स योगी ॥
योगिनस्तस्य करुणाकामिनीवीक्षणात्तदा ।सकाण्वतिलकोऽधत्त भूरीन् पुलककुट्मलान् ॥
तावन्महात्मनस्तस्य तेज:पुंजं समीक्ष्य दुर्निरीक्षमगमदपरवारिराशितटं ह्रीण ह्रीणइव भगवानंशुमाली ।
मन्दं मन्दं संकुचितांचलास्तरुणचरणायुधशेखरश्रीजुषोविरहविक्लावानां सरोजिनीनां सद्य एव पुनरागमनाय सशपथं स्पृशंत इव शिरांसि व्यराजंत सरसीरुहेषु मिहिरकराः । अस्तं याते दयिततमे भास्वति, परमुखावलोकनकलुषकातरा इव न्यमीलयन् पुटंकिन्यो नालीकनयनानि । वियोगशोकस्पुटितनिलिंपधुनीपुलिनकोकमिथुनहृदयक्षरत्क्षतजप्रवाहेणेव संध्यारागेण रंजितमभूदंबरतलम् । कामिनीजनमानापजिहीर्षया केलीरमणधीवरविस्तार्यमाणेनेव मेचकगुणविरचितेन जालेन मन्दं मन्दंमापतता तमसा समजनि समावृता जगती । निस्सीमचारणपथसंचरणरयभरपरिश्रांतदिनकररथखरतुरगखुरखलीनखंडितलपनपरिगलितार्द्रफेनबिंदव इव नभसि समालक्ष्यंत तारनिकरा: । न केनापि मानवता भवितव्यमिति पुंरदरदिशि मदनमहीपतेरिवमणिविजयघण्टिका समुदजृंभत शिशिरकरमण्डली । एवं सति क्र सकलामपि सायंतनीं नियमविधामशेषयित्वा परिणामपेशलशाल्मलीतूलतुंदिलतुंगदुकूलोपबर्हदृढनिहितकपोणिभाग- बंधुरदक्षिणेतरपाणिपल्लवतलसमर्पितकपोलमूलं मृदुलकृष्णसारचर्मपरिस्तृते धवलकंबलोदरे शयानेन सुखसंवाहनकुशलशिष्यजनोत्संगप्रसारितचरणकिसलयेन प्रसंगेन पुण्यां विविधपुराणकथामभिहितवता भगवता तीर्थपादेन कानिचन सौवस्तिकस्वस्त्ययनसाधनानि संविधेहि साधयेति विहितानुमति: काश्यपकुलमणिः उन्मरतकांजलि: प्रतिजगाम निजनिकेतनम् ॥
यतीश्वरादीहितवस्तुलाभंस्त्रिया समं चिंतयतो रजन्याम् ।तल्पांतराले शयितस्य तस्यकल्पा इवासन् घटिकाविभागाः ॥
उत्तरेद्युरुदिते दिवाकरे सत्तमं स यतिनां कृतक्रियम् ।आनिनाय शुचिरादरात्पुनः संचितोचितसमस्तसंविदम् ॥
तत्र नवीननैष्ठिकीगोमयालेपनचित्रिते बहुप्रसूभिः माङ्गलिकाभिः विशारदैः पिष्टोपलचूर्णैः निर्व्यूढचतुरस्रप्रसाधनलेखामनोहरमसृणमसृणे महामंटपकुट्टिमे सरभसशिष्यजनसमर्पिते बृसीफलके समुपविष्टः तपोनिधिरखिलश्रुतिपारदृश्वभिरंतेवासिभिः स्वाहासहायं भगवंतं हुतवहमाधाप्य हरितहरिताभिः मरकतमणिमयूखशलाकापरिणाहिनीभि: कुशमुष्टिभि: चमत्कृतपरिस्तरणालंकरणं जवनिकाभिर्वलयितमिव सुमेरुशिखरं शैवालमंजरीभिः परिवेष्टितमिव निबिडकोकनदवाट वसनपटलिकाभिः प्राकारितमिव पल्लवितसहकारं, पावनमूर्तिं तं त्रिभुवनप्रतीक्ष्यं गोकर्णमात्राभिर्बहुविधाभिरग्रवतीभिस्समिद्भिश्च लाज-
शर्करादिमिश्रितैरार्द्रतिलैश्च बहुधा यथाविधि संप्रीणयामास । तस्य सन्निधावेव प्रसादलक्षणैः प्रदक्षिणज्वालैः श्लाघमानस्येव हविर्माधुरीं स्थालिकायां हव्यशेषम् अयातयामं स्वयमेवादाय त्रिधा विभक्तं चिरेणाभिमंत्रितं वधूसखस्य तस्य गृहमेधिनो हस्ते समर्पयन् इत्थमभ्यधात्। एतदुपयोगादूर्जस्वलायामरण्यामिव पावकानामचिरादेव भविष्यत्यपत्यानां त्रितयम् ।
पुण्याय भूरियशसे तव पुष्कलायैभूत्यै मुदेव पुरुषस्य पुरातनस्य ।तत्रोत्तरस्य तनयस्य च संप्रदानात्संप्रीणयिष्यसि मनो मम सप्रियाकः ॥
इत्यभिहितमात्र एव मेधावी प्रसादसूचितानुमतिः प्रियतमावदनमवलोक्य दुर्लंघं संस्मरन् वचनं व्यासदेवस्य–
तत्तथेत्युदितवान् वधूमिमां तानि हव्यकबलान्यभोजयत्सल्लकेरिव वने महाबलः पल्लवानि मृदुलानि वाशिताम् ।तत्र कंचिदतिवाह्य तापसः कालमस्य करुणापयोनिधिःपूजनैः पुलकितस्ततो ययौ चन्नपट्टणमभि स्वमालयम् ॥
कालक्रमात्कलितदौहृदकंदलश्रीस्सा भीममध्वमुनिनामसमेधितौ द्वौ । कन्यामसूत कमलामिव सिंधुवेला दंतावलेंद्रमिव दीप्ररुचं सुतं च ॥
॥ इति श्रीसोमनाथकविविरचिते द्वितीयोल्लासः ।

॥ तृतीयोल्लासः ॥

अधत्त पुण्यैरथ गर्भमेषा पुष्यत्प्रभावं पुनरायताक्षी ।स्फुरन्मणिं पुंड्रकवर्तिकेव कवेरिवोक्तिः कमनीयमर्थम् ॥
उदरं गतवति भगवति गर्भच्छलेन परमेष्ठिनि मुख्यप्राणे देवदेवे तदवकाशप्रकाशप्रकाशनसुकृतेनेव तादृशेन तस्या मध्यममपि महत्तामभजत ।
तदा सिकानलिनपचेलिमदलसेवयेव मन्दं मन्दं मांसलितमभूत्कुच चक्रवाकयुगलम् । तद्गंधवाताहूतेव मधुपमालानीलनीला विरराज रोमराजिः। तन्मुखविहरणतुमुलकुतूहलशारदाकिरणनिकुरंबेणेव बहिः प्रसारिणा शनैश्शनैः धवला बभूव तनुलतिका । तदनु भावभारेणेव समुदग्रेण नाक्षमेतां पदात्पदमपि चलितुं किसलयपेशलौ चरणौ । तत्प्रविचिचीषयेव समुद्वेलया समजनि तरलतरला नयनयुगली । तदलंकारवरधारणविलोकनविलज्जितानीव विरलतां यातानि भूषणानि । ततः परिणते समये-
सुतमजनयदेषा शुद्धताभाजि लग्नेग्रहगणशुभवीक्षागौरवोद्दामभाग्ये ।विधिमिव निरपायं विश्ववाचांनिदानं नरकदनुजहंतुर्नाभिनालीकपाली ॥
अभादभीशुप्रकरैरयं शिशुः सुमेरुकुंजीकृतसूतिकागृहैः ।अभूतपूर्वैरमलैरिवात्मनो हिरण्यगर्भत्वमिव प्रदर्शयन् ॥
तदा दिशामुखैस्साकं प्रसन्नतामभजंत मनांसि । मंगलशंखध्वानेन सह समुदजृंभंत प्रीतयो बांधवानाम्। अमरतरुप्रसूनवृष्टिभिस्सार्धंसमवर्तंत मातुरानंदबाष्पसलिलानि । समीरशाबकैस्समं काश्यपकुलाधिपः सुस्पर्शनस्सकलजनानानंदयामास ।
कनकांबुजकंदलोपमानं मुखमालोकयतस्सुतस्य तस्य ।नयनात्पितुरश्रुवारिपूरो निरगादंतरवानिव प्रमोदः ॥
स शिशुर्निसर्गमधुराकृतिः यथाविधि जनकविहितया जातक्रियया दिनमणिरिव जृंभमाणया दिवसमुखश्रिया, पावक इव पवित्रया हविराहुत्या, चंद्रमा इवासन्नया शरदा, सहकार इव संप्राप्तया वसंतसंपदा, स्वाध्याय इव सुशिक्षया समावृत्या केशवोत्संग इवारूढया कलशाब्धिकन्यया, सद्य एव कमपि रामणीयकविशेषमुदशेषयत् ।
भवितैष यतीशितेति नूनं परमार्थेन विजानतेव बालः ।गुरुणा स गुरोर्मुदं ददत्या यतिराजाभिधया प्रसादितोऽभूत् ॥
क्रमेण स कुमारको जन्मांतरानुवर्तिनीभिरिव निजासनकमलोदरदृढलग्नवराटिकापिंगलिमछटाभिर्वपुरालोकमंजरीभिर्विमानोदरमिव शय्या सदनमादधानः, शमधनजन इव निविष्टतरुणतरणिमंडलसौभाग्यावतार इव, चंपककलिकानां शोधनोपल इव, ज्वलनज्वालानाम् अपहासक इव, तटिल्लतानाम् औरसकुमार इव, सुमेरुसुषुमायास्सार इव पीतवर्णस्य विविधकनकरक्षागुलिकामालिकाभिरतिकुटिलतरक्षुनखरमणीयमंजुलमध्यभागाभिः कोरकितकण्ठमूलः, मुहुर्मुहुरास्वादनकेलिमृदुलतरस्य चरणांगुष्ठस्य, वादकोलाहलपराजितविमतसुमतिजनोपचरणीयदृढचरणविधिसहिष्णुतामिवाभ्यासयंनुत्तानतलेन पादारविंदद्वयेन मणिगणतुंगसमस्तराजमकुटकोटिसन्यासपरिपाटीमिव भाविनीं विवृण्वन् पाणितामरसदलायमानांगुष्ठग्रसनविहारेण भवित्रीमिवात्मनः परमहंसतां प्रकटयन्, सरसिजमुकुलाकारायमाणदृढमुष्टिकया करगृहीत-मिव तत्त्वराद्धांतं सूचयन्, आकस्मिकेन घनाघनगर्जितेनेव गंभीरेण रोदनध्वनिना खांडनिकपाषंडमंडलमिव संतर्जयन्, चंद्रिकाधवलकौशेयवितानकलितमरकतमणिशृंखलिकांचललंबिनं, विरहासहनतया समागत्य सेव्यमानं श्यामलनालकोमलं विकचनिजासिकाकोकनदमिव, पद्मरागमणिकंदुकमवलोकमवलोकं दरहसितमंकुरयन् पर्यंकिकाशयनकुतूहलप्रायां ललितललितां कामपि दशामत्यवीवहत् ।
अंकादंकं संचरन्नर्भकोऽसौ तत्तादृक्षः प्राहसल्लीलयैव ।पद्मात्पद्मं पर्यटतं मरालं राशे राशिं रंजयंतं विधुं च ॥
लाल्येन द्विपमृगराजशाबकाभ्यां मंदेनाजिरभुवि जानुचंक्रमेण ।पर्यंतप्रसृतनिजप्रभासरस्यामभ्यस्य प्लवनमिव व्यराजतासौ ॥
वाणी यशोंऽकुरसखी महनीयशोभातस्यानने सममदृश्यत दंतराजिः ।बिंबे विधोरिव सुधारसबिंदुरेखापङ्किस्सरोजइव भासुरमौक्तिकानाम् ॥
वोढुमात्ममहिमानमुदारं न क्षमा क्षितिरितीव सगाढम् ।अंगुलीं समवलंब्य जनन्या व्यातनिष्ट मृदुचंक्रमभंगीम् ॥
लीलासु यावदुदितं प्रथमं पितृभ्यांवक्तुं बहूनि निपुणोऽपि स तावदेव ।पश्चादभाषत निरंकुशकीर्तिमिच्छन्बाल्येऽपि तद्वचनपालनलीलयेव ॥
तौ दंपती धन्यतमाग्रगण्यौ सुतोऽसि नौ कस्य वदेति पृष्टात् ।एकस्य निर्देशमवेक्ष्य पुत्रादानंदगर्भं हसितं व्यधाताम् ॥
चरं मिंदु नभसि क्षपासु प्रगृह्य देहीत्यवदत्सवित्रीम् ।स भूयसा कीर्तिसुधाकराणां तं मातृकीकृत्य सिसृक्षयेव ॥
इत्थमतिवाहितद्विहायनो गुरुणा विधिवदनुष्ठितचूडाविधानो यतिराजः पंचमे वयसि चलाचलशिखंडकैर्बांधवकुमारैस्सवयोभिरनवद्यामतिहृद्यतमां लिपिविद्यां परिचितुमारभत । तत्र
प्रमोदभारात्परितस्समुत्थितैरजोभिरंगै रमणाभिधाक्षरम् ।वकारमादौ लिखितस्य-तश्शिशोस्समालिलिंगेव तनुं वसुंधरा ॥
ॐकाररूपं लिखितं च तेन भूमौ स्वकीयागमसूचनायै ।विरिंचिपत्त्या प्रहितेन चर्चां चकार तालच्छदवेष्टनेन ॥
श्रीमंदष्टाक्षरीनाम्नो मंत्रस्य स महीयसः ।अंतरंगतया स्पृष्ट्वा नकारमलिखत्परम् ॥
अच्युतोऽस्य लिपिदैवतमग्रे भृंगमेव मृदु विष्टरमासीत् ।भद्रकुंभपरिपाटिमवर्णं पाद एव परमाक्षतपात्रम् ॥
उपघ्नशाखीकृतमानसेन नवोद्गमाया धिषणालतायाः ।विचित्रितस्तेन करेण रेफो विद्यागमद्वारधियं व्यधत्त ॥
बालेन तेन नवहल्लकपत्रभासा व्याकुंचितांगुलिकया विहितो यकारः । चक्रे वदान्यमणिरेष इति प्रबुध्या क्षोणीप्रसारितकरोदरयुग्मशंकाम् ॥
विनिर्मितस्तेन विशेषरागात्सरोजुषः पुष्करभूपुरंध्याः ।अलाबुकूटत्रयहारिशोभां वीणेति शंकां विदधे णकारः ॥
प्रच्युतानि वदनात्पटुलालावापृषंत्युरसि तस्य विरेजुः ।बिंबितानि पुनरच्छतनुत्वादक्षराणि मनसेव धृतानि ॥
एवं कतिपयैर्वासरैर्यथातथं गृहीताशेषलिपिविशेषेण, नगरमिव तोरणेन, यश इव वितरणेन, पुण्यमिव सत्कर्मणा, प्रमोदमिव महोत्सवेन, सौधमिव सोपानेन, विजयमिव वीर्येण, समयोचितमखिलमपि वर्णसमुदायमलंचकार । सप्तमे वयसि गुरुणा विधिवदुपनीतः तपसा दुश्वरेण लब्धस्येव निरपायनिलयः ब्रह्मवर्चसस्य निर्गत्य निकेतनान्नियमद्वितीय एव शुक इव नीडानि गुरुकुलान्यध्यवात्सीत् । प्रथमं कुलगृहमिति स्वातंत्र्येण रुचिरपदक्रमैः प्रविश्य तस्मिन् सुखविलासजुषि ततो महेर्ष्ययापातिभिरिव दायप्राप्त्यै कलहायमानैरितरेतरैरुपनिषत्कुटुंबिनीभिस्सममचिरादयमाक्रम्यत । केवलं स विधिरिति चिरमनूचानानसेवत गुरून्, नाभ्यासापेक्षया । लोकाचार इति व्या तेन मुहुरधीतावृत्तिः, न प्रमादभिया । पुरातनत्वगौरवादवततारशिक्षादि ष्वस्य शेमुषी, न लक्षणाभिज्ञतया । मधुरतरस्वरोच्चारणशुश्रूषया जनास्तत्र तमप्राक्षुः न परीक्षितया । एवमुषित्वा हायनानि चत्वारि गुरुकुलेषु समेधमाननिरतिशयमेधाप्राशस्त्यकबलितदिगंतरालः स यतिराजो भक्त्या विनयेन सपर्यया दक्षिणाभिश्व समावर्जितमानसैर्गुरुभिः कुटुंबिनीसहायैः प्रास्थानिकप्रणतिविधानाद्विरहासहिष्णुतया निर्गलंतीभिर्बाष्पसलिलधाराभिः स्त्रपितशिखंडकः, कथं कथंचिदासादितानुमतिः कृच्छ्रेण मनस्स्वकीयमप्याकृष्य केनापि पश्चादाकृष्यमाणाभ्यामिव चरणाभ्यां मातापितृचरणकिसलयसंदर्शनजनितकुतूहलेन शनैश्शनैरभजत निजनिवासम् । तत्र प्रथममंगैरष्टभिरालीढवसुधातलेनभूरिणा संप्रणामविधिना चिरोत्कंठितमनसा संमोदबाष्पधारावदनौ दृढतराश्लेषाभिलाषपुरःप्रसारितभुजौ मातापितरौ प्रकटोच्चारितशर्मणा सप्रश्रयपदस्पर्शनेन, निकाममहोत्सवगुणाकृष्टानिव सरभससमागतान् बंधुजनांश्च गाढया परिरंभणक्रियया, त्वरितगतिसंभ्रमादतिप्रमाणनिश्वासान् सदयं सत्सुहृदश्च वत्स सविधमेहीति मधुरिमपुषा लालनालापेन, चिरमदृष्टतया तरलतैरैर्विलोकनैरवलोकयतो माणवकांश्च यथाक्रमं संभाव्य, ततस्तैरादरेण पृच्छ्यमाणो निजप्रवासोदतं निरवशेषमकथयत् । ततः परमपि तत्रैव स कूलंकषेण विद्याविशेषाभिलाषेण बहुश्रुत्या परिणतरसिकभावभाजां लालाजलायितव्याकरणफणितीनां सकाशाद्विपश्चिताम् अपाठीत्सालंकाराणि सनाटकानि काव्यानि । तत्रांतरे श्रुतनिखिलवृत्तांतेन तत्रभवता गुरुणा यथार्थनाम्ना ब्रह्मण्ययोगिना स्वप्रतिबिंब व प्रेषितः कश्चिदग्रणीरंतेवासिनां प्रथमोपाय इव भावितावतारस्य, व्यवसाय इव कार्यसिद्धेः, प्रभाव इव घटनाया, यशोराशिरिव लालित्यस्य, शाबक इव वैदग्धस्य, महापुरुषो दशरथमिव गाधेयो, बल्लणसुमतिमाससाद । सरभसविहितसपर्याविधयेतादृशमस्मै गुरुवचनमवोचत् । अपि भवान्कुटुंबिन्या सह मंगलेन वर्धते । ननु कल्याणी विशेषेण जननीवात्सल्यभाजनं कुमारिका । भद्रेण कच्चित्कुलधुरंधरस्समेधते ज्यायान् । कुशली किमितर: कुमार इति । ततश्च राजत्परिणाहधवलतनुतरोष्णीषांचलादामुच्य साक्षादाहृतचक्रमिव गुरोः " पत्रं प्रादात् । असावपि तत्सविनयमंजलिना गृहीत्वा नयनस्पर्शपूर्वं शिरसि निधाय स्वयमेव वाचयित्वा मोहेन स्तब्धमनाः लिखित इवासीत्। क्षणादेव पुनरवलंबितधैर्यलेशो वर्धिष्णुना सह सागरेणेव मेधाविना सद्य एव संधानिर्वहणजागरूकेण भवितव्यमित्येता वंतं गुरुलेखाराद्धांतं रहसि गृहिण्यै न्यवेदयत् ॥
दृष्ट्वा सुतं चिरतपःपरिणाहलब्धं विद्याभिरूप्यविनयादिगुणैककोशम् ।स्मृत्वा मुनेर्वचनमप्यविलंघनीयं डोलायमानहृदया जननी बभूव ॥
अन्येद्युरुदिते युगप्रमाणं भगवति भास्वत्यलंघ्यतया व्यासदेवशासनस्य झटिति निर्वहणीयतया प्रस्तुतकार्यस्य विनयपर्यायतया तनयस्य जाल्मतरतया चात्मनो जायया सह कृतनिश्चयस्तं पुरोधाय गुरुशिष्यं विदितवृत्तांतेन साकं कुमारयतिराजेन स मन्दं मन्दं तत्रभवतो महामुनेरभ्याशमगात् । तत्र प्रथमं स शिष्यः प्रणिपत्य गुरवे प्रांजलिर्न्यवेदयत्। स्वामिन्! भगवतः करुणापरिणामेन कुमारेण सह काश्यपवंश्यस्समागत्य द्वारमध्यास्त इति । सोऽब्रवीद्वदंतं त्वरितं प्रवेशयेति । अथ तेन समानीयमानं शरद्विकचकाशप्रकाशया ललितनिर्विशेषया सुकुमारोष्णीषिकया द्राघीयस्या बंधुरितमस्तकेन, कुसुमितशेखरेणेव कुंदमही रुहेण, विमलविमलया दुकूलसंव्यानशाटिकया दृक्पथलेखयेव, गगनाभोगेन सनाथीकृते, विधृताप्रपदीनविशदकंचुकेन कुसुंभरागनिर्णिक्तया मर्मरमुचा, प्रच्छदपटिकया विहगरुतमुखरया गैरिकततिभुवेव तुषारगिरिशिखरेण परिकलितमध्येन प्रांशुना महापुरुषलक्षणपक्ष्मलितेन जनकेन परिष्कृतपुर : प्रदेशम्, अच्छाच्छानामंगुलिकावलिमालतीमुकुलावतंसायमानानां पदनखरमणीनां प्रसृमरमयूखरेखाव्याजेनांगुष्ठमात्रनिष्ठ्यूतैकसुरसरिद्वर्णिनो वामनस्य निकाममतिशिशयिषया बह्वीरवतारयंतमिव भागीरथीश्विरवियुक्ततया समागत्य गाढं प्रणमतेव प्राक्तनजन्मगुणेन, स्पष्टीभवतेव सकलतीर्थानुरागेण, समुदंचतेव लेखाकमलमरीचिजालेन, कुलोपाध्यायेनेव विद्रुमलता किसलयानां, सवयसेव यावकरसस्य, कर्णेजपेनेव कुरविंदसौभाग्यस्य, चरणतलशोणिम्ना पद्मरागमणिमयीमिव पदवीं वितन्वानं तिलकेनेवांघ्रिसुषुमायास्तुलाफलकेनेव कलभगतिसौभाग्यस्य, दरबुद्बुदेनेव लावण्य-सरसः सदसद्विकल्पगोचरेण श्लक्ष्णतमेन गुल्फयुगलेन सकलमहीपाल तीक्ष्यतां प्रथयंतं, शाणोल्लिखितेनेव वृत्तानतमध्यभागेन नटनस्तंभेनेव मंदगतिलासिकायाः जंघाद्वितयेन पुष्टस्मरतूणीरस्य पूर्णावतारमिव पुंखयंतं, प्रचंडतरचारुतामंडितोरुकांडेनाखंडलवेतंडशुंडादंडस्य पुनर्जननचर्चामिवोद्दामयतं पिशंगस्य संध्यापयोदशंकया समालिंगितस्येव सौदामनीदाम्नो, नाभीकुहरविनिर्गतस्येव गर्भस्थितहिरण्यदीधितिवलयस्य, जन्मान्तरविलग्नस्येव त्रिपावकीसौहार्दगुणस्य, त्रिगुणितस्य मौंजीकलापस्य भासा परितः समुल्लसंत्या भगवंतं पीतांबरमिव विडंबयंतं, सिंदूरधूसरितवपुषं कनकश्रृंखलासंदानितोदरमिव स्तंबेरमशाबकं, मौक्तिकगभस्तिरचितयेव मनोरमया साक्षात्समासक्तयेव धातृकुटुंबिनीनिर्मलमनःप्रवृत्या मृणालिकापरिवेष्टितमिव कोकयुवानं, लाजावल्या वेल्लितमिव जातवेदसं, रजनीरमणकलयांचितमिव दर्शमार्तंडं, त्रिपथगया परिवेष्टितमिव हाटकगिरिकूटं, यज्ञसूत्रिकया परिपूतवक्षोभागं, कठोरशशिलांछनतापिंछपिंछवांछनीयच्छविना सुकुमा रलोमसंतानेन कलिंदकन्यातरंगेणेव सरस्वतीप्रवाहं, द्विरेफपोतचक्रेणेव सायंतनौषधिशाखिनं कृष्णाजिनपटेन शबलीकृतकलेबरम्, अकुटिलात्मंप्रमाणपरिणाहाग्रावलंबिधवलकौपीनं, ब्रह्मचर्यविजयध्वजमिवाषाढं पाणिना सव्येन धारयंतं, परिणाममेचकाकारेण प्रथमाश्रमनिष्ठाया इव विभ्रमकुवलयकंदुकेन सरसीरुहशंकयाऽनुसरतेव कादंबपोतेन नारिकेलकमंडलुनाध्यासितदक्षिणपाणिकमलं, स्वबिरुददरशृंखलसूत्रकाभिरिव मेखलाभिस्तिसृभिर्बंधुरेण स्वयमेव घुमघुमारवप्रपंचनापठनापरतंत्रनिध्वानोद्धतस्य पांचजन्यस्य मदसंचयमिव लुपता, कंठकंबुना परिशोभमानं, यदृच्छया विवृताधरपुटनिस्सृतै रसनांचलसंचरणचुंचुविद्यापदनखांशुभिरिव रदनकिरणैः क्षपाकरकलासहस्रमिव कंदलयंतं, कालिंदीतरंगमदखंडनिकयोर्निरंकुशनटनविलासचटुलचरणस्फुटितयो-
उपसृत्य ततस्सुतेन साकं शतकृत्वः प्रणिपत्य संनिषण्णम् ।गुरुरेनमवेक्ष्य कौतुकेन प्रकटार्थं प्रमितामवोचदुक्तिम् ॥
अयि भद्र पुरा बभूवुस्त्रैशंकवादयो महापुरुषाः सत्यसंधाः अपि तेषु महानुभावभाक्षु स्वयशः पूरवलक्षसर्वदिक्षु । स्वयमेव वितीर्णसंविदब्धिं कमपि त्वामिव नावलोकयामः ॥
इत्यादिवचसाऽनुगृहीतः सचेतास्तत्करुणापूरमयमात्मजं कालमेघो महांतं सरित्प्रवाहमिव सागरेण गुरुणा तेन संयोज्य त्रिचतुरवासरानंतरं स्वधाम प्रतिययौ । ततः परं पितृजननिर्विशेषमुपलालयन् स मुनिरस्य वटोराबाल्यप्रायामकुतोरोधां मेधाम् अनवद्यां विद्यामव्याहतां वावदूकताम् अपामरमाचारमनामयं विनयमविकारमाकारमवार्यं धैर्यमतिप्रमाणं गंभीरिमाणं महाराजपरिपूजनसूचनविचक्षणंलक्षणमप्यसकृदालोक्य तमेनं जगति पाषंडबुर्बुरषण्डकण्टकितानामुन्मेष णाय वैदिकाचारपदवीनामाश्रमं तुरीयं संक्रमयितुममंस्त । तावदसौ कुमारो यति राजो निर्मलनिजनैपुणीविशेषमणिमुकुरप्रतिफलितं तथाविधं तस्य भावं निधाय शैशवचापलेन चिंतासंतानसहायस्ततो मंदमंदमविदित एव मध्यंदिने पित्रोः सकाशं प्रतिप्रस्थितः
मध्येमार्गं वनशिखिसमानातपैः क्लांतकांतिःपाय पायं सरसि सरसि प्रौढयोदन्ययांभः ।शाखाजातैः कबलितदिशः कस्यचिन्मूलमागात्न्यग्रोधद्रोस्स तु सिकतिलं श्रांतिनिर्वापणाय ॥
तं शनैः प्रत्यभिज्ञायै तत्र निद्रा तनीयसी ।आदर्शमिव नैर्मल्यसिद्धये भूतिराविशत् ॥
तत्क्षणे वटपत्रपुटादिव गगनपथादवतीर्णेन सुपर्णोपवाह्याधिरूढेन कोटीरकोटिघटितांजलिनिलिंपमुनिनिवहस्तूयमानमहिना, पार्श्वप्रवर्त्यमा ननानागीतिश्लाघाकंपमानमकुटाग्रेण भगवता लक्ष्मीसहायेन बोधितनिजावतारकरणीयः निद्रासंगमविहारस्वेदैरिव हर्षाश्रुवारिशीकरैः कोरकितविलोचनो विस्मयपुलकितचेतास्तरसा प्राबुध्यत ।
उत्थाय शीघ्रमुररीकृतभिक्षुभावःसंमृज्य नेत्रयुगल सलिलेन कुंड्याः ।अभ्यागमत्सविनयेन गुरोस्सकाशंकार्यांतरादिव विनिर्गत एव भूयः ॥
तदनु गणरात्रमतिवाह्य गुरोः प्रत्यहं प्रसंगादिना श्रमतारतम्यं विवृण्वतः सानुनयं वाचा शिष्यभावं याचमानस्य मनोरथपूरणायभुवनमंगलाय च बहुगुणपण्यवीथ्यां तिथ्यां क्षेमंकरभासुरे वासरे अपाकरणावतारे तारे, स्थास्नुतालग्ने लग्ने प्रभाते प्रभाकर व पावकाज्योतिष्कलापं तस्मात्तपसा जाज्वल्यमानात् द्रुहिणकेतनपट वि परमहंसलक्षणोदारं यथाविधि चतुर्थाश्रमं पर्यग्रहीत् । तेन विधिना शाणोल्लेखिने रत्नायेव सद्य एव ऊर्जस्वलाय प्रकटशंखचक्रलांछनाय तस्मै तापसाय माहेयीचर्वितै: पुनरुद्धृत्य शोधितै: नीवाररूपैश्विरेणादधानाय शरीरयात्रामावृत्तिभिरगणेयाभिः फलोन्मुखेन महीयसा केनापि मंत्रेण सह कौस्तुभेन कमलामिव नारायणाय पारावारो महतीं व्यासाभिधां प्रादात् ॥
॥ इति श्रीसोमनाथकविविरचिते तृतीयोल्लासः ॥

॥ चतुर्थोल्लासः ॥

अथ तस्य गुरूपकंठभाजोविशदा व्यासयतीश्वरस्य कीर्तिः ।तरसाऽभिययौ दिगंतभूमिंकलशांभोनिधिनिर्जिगीषयेव ॥
क्रमेण स निसर्गगभीरचेतास्तुंगतरशृंगालिंगितपयोधरान् धराधराननोकहनिवहविकसितकुसुममधुधारासंपातशमितदावदहनानि वनानि मदकलकलहंससंसदा लोलितनलिनगालितपरिमलपरिमिलेन सललितव्यलीकमेदस्विनीस्स्रोतस्विनीश्चातिशयनृत्तकलामत्तकाशिनीमंजीरझंझलितमुखरितसौधशिखराणि नगराणि आश्चर्यतपश्चर्यादीप्रमणिपेटि कामठिकाश्च विलंघ्य निरंतरनिषेव्यमाणानेकदशशतमुखफणितिमधुरि-माधरीकृतसुधैर्बुधैः प्रतिभटघटाडंबरजंबालरविभिः कविभिः प्रकटितत्रिदशभुवनप्रत्यादेशं देशमगाहिष्ट ।
सुरकरनलिनानां धोरणी चंद्रभासांकलशजलधिकन्याकामपूजाफलश्रीः ।मरकतमणिसानौ वारणाधीश्वराद्रेःप्रविकसति विधातुः प्राक्तनी पुण्यमुद्रा ॥
अपि च--
साम्राज्यं पवनाशिनामधितुलाकोटिस्पुटं कल्पयन् कुर्वन्मूर्ध्नि कुमुद्वतीपरिषदामानंदधोरंकुरम् । वामेनादिधनुर्धरस्य मधुरामाज्ञां समाराधयन् भूमौ कोऽपि रसालमूलरसिकः पुष्णाति मोदं दृशोः ॥
तत्र पर्यटंतं समीक्ष्य तं वैज्ञानिकं सुलभाय यशसे स्वयमेवाहूय पालयतां पुंखानुपुंखतदीयवचोविस्मापितानामपि विपश्चितां चेतांसि प्रायेण मस्करी किं सुरगुरुरपि वा तादृश इत्यकथयन् ।
प्रापाश्रमादेष तुरीयमाद्यादतीव तद्धि स्वयमप्युदग्रान् ।गुणानुपेत्य श्रवणाभिधानान् मध्यस्थितानुत्तरमाललंबे ॥
मान्यस्य तस्य महतो महतां सकाशेषड्दर्शनान्यपि धराधरसन्निभानि ।विद्याबुभुक्षितवतो धिषणामहिम्नोप्राणादिमाहुतिदशां प्रथमं प्रजग्मुः ॥
इत्थमचिरादेवाधिगतसमस्तविद्याय सततं विवादयिषया स्फुरता दशनवाससा तर्जत इव शारदावाचारभटमपि तस्मै महायोगिनेजातुचित्तेजोविशेषमसहिष्णुना केनापि ब्रह्मबंधुना धार्तराष्ट्रेणेव दुरात्मना भीमसेनाय गरलं कबलगोपितं प्रायुज्यत । अरुंतुदेन तेन तस्य तनुश्शारदीव शैवलिनी बाहुलीव शशिमंडली शैशिरीव सहकारलता दिने दिने सुषुमैकशेषं तनिमानमभजतः। तावत्स भक्तवत्सलेन करुणावशंवदेन भगवता गरुडध्वजेन स्वप्ननिर्दिष्टायास्सा क्षादिव धन्वंतरि कुलदेवतायाः कस्याश्चिन्महौषधिमूलिकायास्सद्यस्तने नेव योगेन प्रत्यासन्नरूपया मूर्त्या ग्राहमुक्त इव गजयूथनाथः पूर्वादप्यधिकमशोभत ।
यातेषु भूरिषु दिनेषु यतिप्रवेक-स्तेजःप्रणम्य वरदं द्विपशैलचिह्नम् ।देशात् प्रदर्शिति विचित्रवचः प्रभाव-स्तस्मात्स मुल्वनगरीं शनकैरयासीत् ॥
तत्र सततविहिताधिवासं सनकमिव महर्षिभिर्ब्रह्मवादिभिरंतेवासि भिरुपास्यमानं प्रतिविबुधविटपिपाटनक्रीडनकठोरकुठारधारायमाणवाग्गुभं हरिदंतरविसर्पियश : काशवनप्रवर्तितशाश्वतशरत्समयावतारं निक्षेपभाजनमिव मध्वमुनिरहस्यस्य साक्षात्कारमिव धैर्यस्य बिरुदपद्यमिव सद्गुणग्रामस्यालानमिव गांभीर्यमदावलस्य महात्मानं सकृदाकर्णितनिजागमनप्रसंगपुलकितमानसं लक्ष्मीनारायणयोगिनमासाद्य भक्तया प्राणंसीत् ।
एनं स दृष्ट्वा यतिसार्वभौमं तेजोभरैर्दीपितदिग्विभागम् ।स्वाहां चिराद्गाढतरस्वकांतवियोगबाधाविषयं शशंके ॥
अस्मै ततो व्यासमुनीश्वराय जाज्वल्यमानाय तपः प्रभावैः ।शिष्योपनीतैस्सकुशासनाद्यैर्यथोचितं सत्कृतिमाततान ॥
इत्थंकारं प्रकाशितादरप्रधिष्णुस्तस्य यशस्तेजोगौरवं संपादयिष्यन्न मोहजुषां विदुषां गवेषणीयमशेषेण तस्मात्त्रयीशिखरतत्त्वरहस्यमग्रहीत् । स च प्रशस्ततया देशस्य पवित्रतया महातीर्थानां भूयिष्ठतया महत्संघस्य वत्सलतया विद्यागुरोः प्रशांततया मनसश्च समग्रसन्निधान वैभवस्य भगवतो नृसिंहस्य कांक्षमाणः करुणां भूयसीं शरत्समय इव प्रसन्नसलिलाशयः समर इवारब्धवीरासनो रथ इव विधृताक्षमालो, वनोद्देश इवं प्रविकस्वरजपो धिषण इव नियमितमरुद्गणः तरुरिव दरदरीदृश्यमाननेत्रभागः निवृष्टबलाहक इवाचंचलस्तपस्तपन् महनीयं तत्रैव चिरमवसत् ॥
तं दिव्यपूरुषममुं प्रविबुध्यमान-स्तेजोभरेण तपसा च धिया महिना ।विद्यागुरुस्समयवित्प्रमुखः कदाचित्प्रोवाचवाचमुचितां भुवनोत्सवाय ॥
अये जगति विजयते केवलं शारदायामेव हृद्या निखिलविद्या । भार्गव एव प्रतिभटप्रतिभया प्रतिभा, धिषण एवाप्रतिहतमेदुरमदा वदावदता। विकर्तन एव विस्मापिततेजः प्रपञ्चः सुधाकर एव सकलजनमनः प्रीणनं नैपुणम् । विभावसावेव विश्वासितलोकबुद्धिशुद्धिः मेदिनीधराधिपभृंग एव विशेषधौरंधर्यम् । मंदारमहीरुह एवानन्यसा मान्या वदान्यता । भगवति वासुदेव एव विचित्राणि चरित्राणि ।
अभूतपूर्वाभ्युदये त्रिलोकीपटीकुटी बोभवदुच्चकीर्ते ।समस्तमेतत्तु समेधमानं त्वय्येकवास्तव्यतया समिंधे ॥
अतो दिनविरामेणेव खलजनवचोव्यामोहचूर्णेन सरोजिन्या इव चिरेणानिद्राणायाः वैदिकाचारमंद्रायाः दिनकर इव भवान्प्रतिबोधनकर्मठी भवति । तत्र सर्वेषामपि धर्माणां राजा सेतुरिति न्यायेन भवता सर्वदा तदा तदास्थानीस्थेयुषा भवितव्यम् । पुरा किल योगिनो निस्संगा अपि महांतो दत्तात्रेयादयः जगदुपकरणाय राजन्यसभालंकारा बभूवुः ।
इत्युक्तवंतमथ तं स तथेति वाचातुष्टं विधाय नरसिंहनवीनगुप्ताम् ।शिष्यैस्समं कतिपयैरुडुभिश्शशीवसंप्रस्थितः प्रति महाचलराजधानीम् ॥
मार्गं विलंघितवतः क्रमशो महांतंमध्येदिनं वनतरुप्रकटोपगूढम् ।अग्रेसरस्य यतिनाममलांबुगर्भ-मग्रेसरो नयनयोरतिथीबभूव ॥
स्नात्वा स तत्र सलिलैश्शिशिरीभवद्भिर्भानोरगोचरतया परितः कराणाम् । देवार्चनामकृत शिष्यजनाहृताभिः कल्हारतामरसकैरवमंजरीभिः ॥
तावदस्य सरसस्समीपतो दक्षिणाद्विपिनवृक्षमण्डलात् ।रोदसी कबलयन्निवोदगात्कोऽपि कोलनिकरो भयानकः ॥
तमाकर्ण्य तस्य चेतः किमिदमिति चिंतां यावदाललंबे तावदेव कौचन ब्रह्मदंपती दावपावकालीढबालसहकारस्येव विवर्णभाजो विस्रंसितावयवसंधिबंधस्य बाहूपपीठमाश्लिष्य धार्यमाणस्य द्वादशवर्षी यस्य कुमारस्य वदनं वीक्ष्यं वीक्ष्य करुणं विलपंतौ शनैरशनैस्सविधभुवमासेदतुः ।
अन्यस्य तस्य सरसो महति प्रतीरे विन्यस्य तं तनुभवं विधिना परासुम् । तौ दंपती श्रवणयोः कटुभिर्विलापैः कूलंकषं रुरुदतुः कुरराविवैतौ ॥
दृष्ट्वा तौ भगवानपि व्यासयति: किंतु कृपालुतया मुहुर्हसमानो निरंतरनिष्यंदमानबाष्पयवनिकाव्याहन्यमानविलोचनपदमासाद्य तमग्रजन्मानमप्राक्षीत् । अथ गृहमेधिन् कुत्रस्थो भवान् ? कथंकारमस्मिन् कण्टकिते काननप्रांते ? को वा हेतुरस्य कुमारस्य परासुताया: ?
इति पृष्टो द्विजातींद्रः तेन तेजोमयेन सः ।प्रत्यभाषत शोकांधो बाष्पगद्गदया गिरा ॥
भगवन् ! किमिति ब्रवीमि जननांतरमेदुरितानां परिपाकमिमं दुरितानाम् । अत्र दिशि दक्षिणस्यां वर्तते पञ्चषघटिकाभिरासाद्यः कोविदग्रामः । तत्र वास्तव्यकुटुंबिनोरावयो: कुलतंतुरेष कुमारः । अयं तु प्रभात एव समिदाहरणाय सवयोभिस्संधुक्षितकुतूहल: कण्टकतरुमण्डलगहनं गहनमेतदागत्य स्वैरं मृगराजवद्विचचार । चरंतमेनं विनिहंतुकामेन कृतांतेन नियुक्त इव कश्चन जरद्वटविटपिमूलकोटरस्थो ददंश महान् दंदशूकः । दष्टम विषविप्लुष्टवपुषं नष्टचेतनं दृष्ट्वा तमेनमिष्टैः कतिपयैस्संयंत्रितचेतास्तं वटमूलप्रदेशमासाद्य प्रलयाशनिपातितमिव पादपं परेतमेनमपश्यम् । दृष्टवांश्चामुं भुजांतरमारोप्य समुन्नीतजनघोषतयावलंबितधैर्यलेशः प्रदेशमिमं समुपागमम्। समुचिते मयि वर्तमाने किमेनं मम तातं विधिरीदृशीं दशामनैषीत् । इत्यादि विलप्य पुनरपि गृहिण्या सममाचक्रंद।
आश्वास्य तौ वाग्भिरयं रुदंतौ व्यासो यतिर्विस्मयनीयकर्मा ।अभ्युक्ष्य कामण्डुलुकीभिरद्भिराजीवयत्तं पुनरेव बालम् ॥
सुवा प्रबुद्धमिव तं सुतमुत्थितं तौनिर्विण्णविस्मयपयोनिधिमग्नचित्तौ ।पुष्यत्प्रमोदपुलकांकुरमांसलेनबाहायुगेन पितरौ परिषस्वजाते ॥
सुतेन साकं सुकुमारभासा कृतप्रणामौ कृतिनं यतींद्रम् ।जायापती तावदरण्यभागादानाययामासतुरात्मगेहम् ॥
तत्राहानि द्वित्राणि सत्रा शिष्यैस्समाराधितो भगवान् सुमतिं तं कृपयाऽनुगृह्य तत्रस्थां महाचलपुरीं शनैश्शनैरुपासीदत् । त्रिविक्रमोन्नतिमदप्रक्रमभुवा, पटीयसा प्राकारवलयेन परिचुंब्यमानहरिमुखा लोकालोकाचलेन वलयिता धरणिरपरेव या समालक्ष्यते ।
गेहे गेहे यत्र धृष्यंति रात्रौ मुक्ताबद्धेष्वंगणक्ष्मातलेषु ।प्रालेयांशोबिंबितं चिह्नभूतं घ्रायं प्रायं कृष्णसारं हरिण्यः ॥
मध्येदिनं गोपुरभृंगहेमकुंभैरभेदं गतमब्जबंधुम् ।प्रजानते केवलमूष्मभावैः प्रार्श्वस्थिता यत्र च वालखिल्याः ॥
यत्र कायकांतिविशेषाधिवासोत्सवसुखातिशयानुबुभूषयाऽवतीर्णानामिव विद्याधरीणां मधुरयोः कण्ठनालकरतलविपञ्चिकानिनदयोः श्रोतारः कुशला अपि भेदं निर्णेतुं न पारयंते । यत्र तपनीयमयीषु सौधधोरणीषु विशङ्कटमणिविटङ्ककुलायनिलयिनः शुकशाबका: परिणतदाडिमलोभेन कुतूहलमण्डलितपक्षतयः चटुलचटुलेन लेलिहंति पद्मरागशकलानि। यत्र च बिरुदपदकटकायितभरतमुनिफणितिमर्म-निर्णयानां सकाशान्नर्तकानां प्रत्यहमभ्यस्तमात्रस्य विद्याविभागस्य परीक्षामिव दधानः भगवान्नृत्यति धूर्जटिस्संध्ययोरुभयोः । यत्र चाभ्रंकषाणि हर्म्याणि रिरंसयाधिरोहतामुल्लंघितगणनासरणीनां गणिकानां माणिक्यभूषणमहः पुंजैर्दिशि बहुधा समेधमानभावनैर्विभावर्योऽपि वासरंति । यत्र च वसतामतियत्नसृष्टैककुबेरस्य भगवतो वेधसोऽपि मनसि विस्मयमुद्वेलयतां नरपतीनां समीक्ष्य संपत्तिमनियत्तामधोक्षजवक्षस्थलं केवलं कौस्तुभसहायमवबुध्यते ।
तत्र द्विपेंद्ररथघोटघटासमृद्धावीथीर्विलंध्य विविधा विचलत्पताकाः ।दूरात्समीक्ष्य स तु कस्यचिदुच्चभक्तेःप्रत्युद्यतो बुधपतेरभजन्निकेतम् ॥
अथ तस्य महासने वसन् गृहिणः पूजनमन्वमन्यत ।अभिवेदिसमंतसंस्कृतं यजमानादिव पावको हविः ॥
एवं तेनाभ्यर्चितो हर्षमाणःकोटिं नीत्वा कर्म सांध्यं समस्तम् ।ध्यायन्नेवं चेतसा व्यासयोगीसार्धं शिष्यैस्तां त्रियामामनैषीत् ॥
अपरेद्युरुदिते निशीथिनीसमयनिर्दयनिश्शोषितनालीकिनीहर्षदोषाकररोषेणेव घुसृणरसमसृणितच्छायाकांचनकुंभिकापरिरंभसंभ्रमेणेव प्रथमगिरिशिखरविपिनविविधजपादलनि कुरुंबप्रतिबिंबेनेव हरिचंदनद्रवसंभावितसिद्धमुनिजनार्घांजलिसलिलांगीकरणेनेव पाटलवपुषि भगवति भानुमालिनि नातिदूरमंबरतलमवलंबमाने निर्वर्त्य निखिलानि प्राभातिकानि करणीयानि महतीमास्थानमंटपिकामधिवसंतमनतिसमीप-वर्तिभिः कनककेयूरमणिगणप्रतिफलनच्छलेन शरणं भवेति भुजचण्डिमानमिव सांत्वयद्भिः सामंतमहीपतिभिरुपास्यमानं सकलकलाविचक्षणानां कटकमकुटहारादिभिर्भूषणजालिकाभिः रत्ननिर्विशेषवि भवानां बहुविधां धर्मपदवीपरिपाटिं निश्चितवतां विपश्चितां वदनकमलेषु सकौतुकं दत्तदृष्टिं शुभपरतंत्रमंत्रपरंपरानिराकृतसुमंत्रादिभिरद्भुताभिरूप्यप्रविशिशिक्षयिषया बहिर्गतैरिव निजविवेकसंतानैरनुकूलाचरणरंजितप्रकृतिभिरमात्यवगैरधिष्ठितनेदिष्ठमणिकुट्टिमं कालसरीसृपकठोराकारभीषणया कोशपुटादीषदुद्भूतया पुनरपि विरचितप्रस्थानमंगलाय विश्वदिग्विजयाय धूमधोरण्येव प्रतापानलस्य कादंबिन्येव भुवनमंगलांकुरस्य वेणिकयेव वीरलक्ष्म्या : रोमरेखयेव साम्राज्यदेवतायाः कलिंदकुमारिकयेव कीर्तिगंगायाः निर्मलया निशितधारया कर्बुरितासन भागं शातकुंभस्तंभावसक्ततया सौम्यताजुषा वपुषा पुनरुद्भवं विभावयंतमिव भगवंतं नरकण्ठीरवं वरवर्णिनीभुजलताविधूयमानश्वेतचामरिकाभ्यां तरंगिणीवीचीलालितहंसमालाभ्यां शरत्समयमिव विशेषदर्शनीयसौभाग्यसंपदमाप्रपदलंबमानधवलकञ्चुकैरुभयतः कपोलतलडोलायमाननीलपटवेणीगुणानि रक्तशीर्षण्यानि धारयद्भिस्सिंदुरितकुंभनिष्यंदमानमदजलधारैर्बहुभिरैरावतैरिव दंतिभिरालोकयालोकयेति सोसूच्यमान नियमसेवासमागतमहाप्रधानपुरुषसंघातं राजानमपि सर्वमित्रमुदारगुणमप्यदीर्घसूत्रमचलमपि सततसानुकम्पं कृष्णसारमपि शार्दूलविक्रमं महोच्छ्रयमपि नितांतगंभीरं कालमेघमिव भुवनधुरंधरं कौस्तुभमिव त्रासदोषपरिक्षीणं सरस्वतीनयनमिव ब्रह्मदर्शनोत्सवपरं मंदानिलमिव सुस्पर्शनमपरिमितयशसमसदृशरामणीयकमगणनीयविद्यावैशद्यमप्रमेयलालित्यं सिंहसंहननं नरसिंहमहीपतिं पुरोधसा सह भुवनबंधुर्नामसचिवादिभिः प्रश्रयेणानमितपूर्वकायः करतलपिहिताधरो मन्दं मन्दमुपसृत्या धिकण्ठं सविधमेवमब्रवीत्। स्वामिन् देवेन बहुधा निशमिततादृशानु-
अथ चंचलचंचलालतैर्जलवारैरिव पर्वताधिपम् ।पुरुषैर्मणिवेत्रपाणिभिः परिवीतस्स मुनींद्रमभ्यगात् ॥
शतशः प्रणिपत्य दूरतः समयज्ञः सचिवस्तपोनिधिम् ।अवदद्भगवन्नृपो भवत्परमानुग्रहमिच्छतीति सः ॥
तावदेष स तथेति दयालुर्भूपतेरभिसदस्सह शिष्यैः ।आदिभिक्षुरिव नाकिनिकायादालयं सुरपतेर्निरगच्छत् ॥
तेन सचिवेन पुरस्कृत्यानीयमानं सकुतुकमालोकयतां पौरजानपदानां दृढलग्नैरक्षिपातैरंगीकृतभिक्षुभावं सहस्राक्षं कचिदतिप्रमाणैर्दानवारिलहरीपरिमलपारणपरायणभ्रमरपटलांधकारितहरिदंतैरैश्चूलिकालग्नसुवर्णांकुशलतैः प्रवर्तिततमः प्रदीपिकालेशैरिव निशीथिनीयामैः कर्णकुहरनिकटलंबिपाण्डुकंबुभिर्दरीमुखदरीदृश्यमानकेसरिकिशोरैरिवांजनशिलोच्चयैः प्रलयकालांबुदप्रतिबिंबैरिव मदावलकदंबकैश्च क्वचिदतिजवनैरुदग्रतरपूर्वकायैरुच्चैःश्रवोविजिगीषयेव दिवमुत्पतद्भिरितस्ततो वालहस्तविक्षेपया कङ्काटिकारयभररभटीमिव धिक्कुर्वाणैर्भीषणद्रुततरहेषितनिध्वानेन महात्मानं गरुत्मंतमिव तर्जयद्भिः अखंडमणिखचितकनकभाण्डपरिमण्डितैर्मेरुगिरिभिरिव महोत्सेकैर्वनायुजबाह्लीककांभोजप्रायैर्घोटकैश्च कचिन्मेचकवारवाणनियंत्रितस्कंधभागैर्विनमितमतंगजमदमषिक-लुषितसटाच्छटै रणकण्ठीरवैरग्रपोतप्रतियोधकलिकायमानधवलचामराभासुरकुंभैः मौक्तिकैश्च क्वचिदचिरनिर्मुक्तकालभुजगभयानकविकोशकरवालैर्विद्रुमरसारूषितानि संहृतांकणनिहतरिपुयोधगणविधीयमानमानभिदा व्यथासहनतया बहुधाऽवतीर्य प्रेतकरग्राहमनुनयंतीव सप्तसप्तिमण्डलानि फलकानि धारयद्भिरुग्रथितकुंचिकैश्चर्मिभिश्च कचिद्विशिखनिरोधौषधिगुलिकोग्रस्थूलभुजादण्डैस्संवर्तककुपितरुद्रभ्रुकुटिघोरत्विंषि धनूंषि दधानैः पश्चाद्घटितकलापकलापेन सततमायोधनविहरणाय प्रेर्यमाणैर्धानुष्कैश्च कचिद्दर्शनावसरपरीक्षमाणैरुपायनपाणिभिर्निर्याणायानुविधायिनो दण्डिनः प्रतिकलं राजकृत्यमनुयुंजानैरंतरीपांतरागतैरपरैर्नरपतिभिश्च क्वचिदधिमणिवेदिनिषेदिभिरशेषनीतिपारदृश्वभिरार्यवैषैरजहद्विबुधजनसेवनैः करोदरबदरीफलनिखिललोकव्यवहारैः परिणतवयोभिर्धर्माधिकारपुरुषैश्च कचिन्नवनवपेशलालापकुशलैः प्रथमशिष्टैरिव भगवतो भृंगरिटे: प्राप्तावयवैरिव पञ्चमरसविशेषैः परिहासकैश्च तुमुलितानि भयंकरदौवारिकमहाहुंक्रियासमुत्सार्यमाणजनविमुक्तमार्गावकाशानि बहूनि कक्ष्यांतराणि विलञ्चच शनैश्शनैरागच्छंतमध्यक्षेणेव कनकद्विपस्य सीमोपलेनेव विद्रुमरोचिषः कुलदैवतेनेव कुंकुमस्य मर्मांशेनेव सिंदूरस्य दिशि दिशि वदान्यता महता वपुरातपेन साटोपेनेव सरस्वतीसरित्प्रवाहेण सर्वतः सभामंटपमापूरयंतं व्याकोचमातुलुंगदलसुषुमालघिमनिर्माणकर्मठेन रक्तपटपरिस्तोमेनेव चतुर्थाश्रमदंतावलप्रज्वालपटलेनेव ज्वलनस्य मृदुलकाषायपटेन परिवीतं बालातपच्छदोपगूढमिव प्रथमाचलशिखरं नंदनतरुपल्लवाकीर्णमुखमिव जगन्मंगलपूर्णकुंभं, संध्यापयोदनादकुंठमिव तरुणतपनमण्डलं समंततः ह्रदस्नातोत्थितमिव जमदग्निकुमारं चिरेण समुत्सारितेन पुनर्गतकल्पनाय शरणागतेनेव रागेण गृहीतचरणयुगलं प्रत्यग्रबिससूत्रिकाद्राघीयसीभिर्निजागमनकुशलं राज्ञे निवेदयितुमिव दूरतएव पुरः प्रसर्पिणीभिः श्वेतद्वीपदर्भशलाकाभि-
इत्यूचुषो नरपतेर्नरसिंहभाव-माकारगोपिकलयन्निव भास्वराभिः ।दंतावलीविसृमरद्युतिपूलिकाभिःसंप्रत्यवोचत मुदा यतिसार्वभौमः ॥
राजन्नैसर्गिकी खलु तवान्वयस्य परार्ध्यसमाधीनां साधूनामेवंविधा समाराधनविधिबद्धा श्रद्धा । किं ब्रूमस्ते विचित्राणि चरित्राणि प्रवर्तयंति यानि देशेषु कण्टकारीणामेककालनाशं ध्रुवम् । दर्शयंति यानि सांपरायकनिहतरिपुमहीपालेषु युगपदेव वयसां वियोगयोगौ । कारयंति यानि द्वीपांतरेषु प्रतापचकितसामंतकरांशानामेकदैवच्छेदलाभौ। अपारयंति यानि वैरिनगरेषु सममेव केतूनाममोकामोकौ । किं बहुना -
नृपनलनहुषादेर्नीतिमार्गाध्वनीनसकल इव दिगंतैः केवलं कीर्तिभावैः ।भुजजितभुजगस्त्वं भूप तेनातिशेषेगुरुमपि वचनानां कोमलानां महिम्ना ॥
इत्यनुगृह्णत्येव भगवति महानुभावे व्यासयोगिनि घटिकाविभागप्रकटनपटुः पटहनिध्वानबंधुर्मध्यंदिनसमयशङ्की शङ्खस्य गंभीरध्वनिरुदजूंभत । निशम्य तावदुचितज्ञेन भगवतोऽतिक्रामति देवताराधनसमय इति विज्ञाप्य सह राजलोकैरुत्थितेन प्रांजलिना दूरमुपगम्य तेन वसुधाधिपेन विसृज्यमानो विबुधैरावेष्ट्यमानो मंत्रिभिराभाष्यमाणः पुरोहितैरालोक्यमानश्शिष्यैरनुनीयमानो वंदिभिरभिष्ट्रयमानः पौरजनैरभिवंद्यमानो ब्रह्मसंघैस्स भगवान् व्यासयोगी भुवनबंधुनाम्ना सचिवाधिपेन निर्दिष्टनिर्दिष्टनरपतिप्रहिताभिर्विविधाभिस्सपदातिभिस्समग्रामतिविशालामनेकशालबद्धवितानामपरिमितस्थूणामभ्रंकषसौधशिखराममृतमयवापिकामभिनवामपरामिव वैकुंठभुवमवनितलमवतीर्णामिव पितामहावसतिं शाश्वतीं मठोपकार्यां शनैरशनैः प्राविशत् ॥
पदार्थसंघैर्ललितैः परिष्कृतं प्रवृत्ततालध्वनिलक्षणांचितम् ।कविप्रबंधं यशसेव नायको विगाह्य भूम्रा स मठं समैधत ॥
तत्रोदारै रुचितवचनैस्ताननुज्ञाय सर्वान्स्वस्वावासं प्रति सविनयं कल्प्यमानप्रणामान् ।पूतैस्स्नातस्तदनु सलिलैः पूजयित्वा स देवंसाकं भिक्षामकृत बहुभिः कोविदग्रामणीभिः ॥
तदनु महापरिणाहेन मृगपतिपोतसटाव्यापृतेनेव पेशलेन चित्ररल्लकदंशितोपरिभागेन शतमखचापपटलीशलाकानुबंधेनेव शारदा-भ्रखण्डेन सुकुमारतूलभरिततुंगदुकूलपरिधानशेखरितभागेन धवलकंब लेन सनाथीकृतं भुक्त्वा स्थानमंटपमधिरूढः कृततीर्थसेवनः भगवान् शुश्रूषया समागत्य सेवमानानां सुधियां केनचिदतिसमीपोपविष्टेन मधुरस्वनेन पवनलिपिग्रहणेन विदुषा शिष्येण पठ्यमानस्य महतो भागवतवाक्यसंचयस्य तत्त्वभावमर्थतात्पर्यं बोधयन्नेव वासरमनैषीत् ।
तस्योदतं जगदुपकृतौ योगिनो जागरूकंमध्येवारांनिधि मधुरिपोर्मारुताशींद्रमंचे।निद्राभाजः कथयितुमिव द्वेषिणो दानवानांप्रापत्कूटं सपदि तपनः पश्चिमक्ष्माधरस्य ॥
विहितसकलसंध्याकर्मणचेतसा त-द्दमशममृदुभाजो ध्यायतो वासुदेवम् ।जनयितुमतिनिद्रामक्षमा तस्य भिक्षो-रजनिरपययौ सा तर्जितेव क्षणेन ॥
एवमपयातेषु बहुषु पुंखानुपुंखभूपति बहुमानेषु दिनेषु । कदाचिन्निर्दयाभ्यामर्दनविहारसहनदोर्दण्डैस्सामंतनृपशार्दूलैस्संमर्दितां विवेकरंहस्विभिरमात्यसिंहैः परिबृंहितां विविधानां पुरोधसामुपरोधेन समेधितसंबाधामत्यद्भुतयुक्तिभिस्तटस्थैर्विद्वद्भिरुपासीनां परिपंधिगिरिघटापक्षविक्षोभणपविभिः कविभिः संभावितामपारविस्मयभारोदरैः पौरैः परिपूरितामगणनापदैर्जानपदैरासादिताममंदसुंदरस्तुतिकन्दलनन्दनीयैर्वं दिभिस्तुंदिलितां प्रतिभटविपिनदावपावकैस्सेवकैरेकीकृतामास्थानीं महीयसीं सुधर्मामिव सुरपतेरधिवसतो नरपतेर्नरसिंहस्य समक्षं चिरादुक्तधर्मातितिक्षवः कामिन इव कलितावलेपा:, करटिन इव कल्लोलितमदभराश्शक्रइवसमाहृतबहुमन्यव: पुंजीभूतविद्यातिरेकादहम-
हमिकया विवादयिषमाणाः खरतरगर्वाः सर्वे भट्टमुख्यास्सर्वे दुर्वादिनो मनीषिणा भगवता तेन तपस्विना व्यासयोगिना प्रसंगादिव स्वयमेव महतीं जल्पकथामारभंत। तत्र प्रथमं नियंत्रिते निरूपणीये समुपजाते वादिप्रतिवादिनिर्धारणे कल्पितेषु समुचितगुणसमग्रेषु विषमसंख्यानेषु सभ्येषु संभृते समस्तसंमते महत्यनुविधेये स्थापिते लिपिकरव्यवहृतिमुखे लेखके समाबद्धायां सकलनिग्रहोच्चारणसंधायां निदर्शनप्रयुक्तानुसाधकानुमानचमत्कृतौ कण्टकोद्धारणे अभ्युपगतायां वीप्सायामुपनयनिगमनयोस्तथा तथेति निर्देशे सर्वनामानुवादने सिद्धसाध्यप्रयोजकानां स्वशब्देन स्पुटभूतहेत्वाभासपदेन वा समुद्भवत्स्वपि मतभेदेषु मणिकारमतमनूद्य विरचिते समयबंधे।
इतरेतरमुच्चयुक्तिभारास्तरसोपर्युपरि प्रकृष्टहर्षाः ।कथतामभवन् गतास्तदानीमुभयेषामपि वासरा दशाष्टौ ॥
तदनंतरम्—
सद्यो युक्तिपरंपरैः प्रतिभटान् वाग्गुंभकोलाहलै-र्जित्वा व्यासमुनिस्सखेलमखिलान् मध्येमहीभृत्सभम्।पाठांते बिरुदाक्षरावलिमिव व्यक्तं लिखन्निग्रहंतानेवाकृत तुंगजंगमजयस्तंभान् व्यथाकीलितान् ॥
समीक्ष्य तं तत्र नृपो विलक्षःप्राबुध्यत त्रीणि मुखानि मुक्त्वा ।भुवं गतं तादृशमेव तेजोवाग्देवताप्रेमकलारसज्ञम् ॥
तदानीमेव प्रहृष्टमना वसुमतीपतिरष्टापदरसलिखितबहुविधबिंबाडंबराणां वसनानां संफुल्लहल्लकदलतल्लजसमुल्लासिनीनां कुल्लायिकानां
शुकपोतपक्षतिसुषुमावंचकानां नवमणिकिरणजागरणमांसलितफलफल्यतृणीकृतचिरंतनमानस्य चतुरंतमानस्य शरदुदयनिर्णेजितकौमुदीपूलिकासुकुमारयोर्धवलचामरयोर्बहुलरागप्रकटनविपञ्चिकायाः कुंचिकाया निस्सीमप्राभवदात्रीणां कनकपात्रीणामगणनीयगुणग्रामाणां ग्रामाणामनवरतमतिथिजनपूजनकर्मठानामितरेषामपि बह्वीयसां वस्तूनां निचयमदात् । तस्मिंश्च विनीतवति विशेषादार्ये प्रयुज्य कुशलगर्भितामाशिषमंबुधेरिव ततो राजभवनात्कालमेघ इव स भगवान् वर्षेणेव कलापिन इव कलाविदस्संमोदयन् गिरितटमिव मठालयमध्यतिष्ठत् ।
जित्वैवमेव बहुधा परिपंथिवर्गंप्रोद्दामकीर्तिनिबिडोरुनभः कटाहः ।संस्थापयन् सकलधर्मकुलं यतींद्र-स्तत्रावसत् सबहुलाश्शरदः सुखेन ॥
ततस्स नरसिंहभूपतिः अपरमिव मारं कुमारं समग्रगुणं तं मारायनामानमधिराज्ये समभिषिच्य कालपरिणामेन जेतुमिव विक्रमेण शक्रं द्राघीयसा शुभचरितसोपानपथेन दिवमध्यरुक्षत् । तमपि स भगवान्याय्येन पथा संचरमाणं प्रचण्डरिपुमण्डलविहरणशमित दोर्दण्डचण्डिमकण्डूविशेषं कोविदकुलसेवनकुतूहलिनं गुरुरिव कुलिश पाणिं क्ष्मापतिमनुगृण्हन् तरंगिणीमिव राजहंसो मारुतमिव मलयमेखलातरलमणिरिव हारलतां शशांक इव शङ्करमुकुटं, तां पुरीं चिरादलमकरोत् ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते चतुर्थोल्लासः ॥

॥ पञ्चमोल्लासः ॥

अथ नरसभूपालस्याप्तैरमात्यमदावलैस्स यतिवृषभश्शश्वत्संप्रार्थ्य माननिजागमः भुजगनगरीं भूमिं भित्वोपरीव समुत्थितां विपुलवीथिकां हृद्यां विद्यापुरीं समुपागमत् ।
स्वेन गाढमुपगूहमानया पंपयोपरि लुठत्तरंगया ।या विडंबयति जंभभेदिनस्स्वर्धुनीलहरिभूषितां पुरीम् ॥
वाराशेस्सुतयाऽनिशं सुरभितं वक्षः प्रदेशं वह-न्मंदीकुर्वदभंगुरांगमहसा वालाहिकीदुर्मदम् ।उद्दामां शुभसंपदं निजजुषामुल्लोलकल्लोलय-तेजो यत्र परात्परं विजयते श्रीविट्ठलेशाभिधम् ॥
चलदूंगावीचीकलकलितसौभाग्यभरितंविहायस्वं यस्यां विपुलमपि कैलाससदनम् ।स हेतोः कस्माद्वा सकलजगदीशोऽपि भगवान्विरूपाक्षः साक्षाद्विशदयति साम्राज्यपदवीम् ॥
या तुंगस्थिरभर्मगोपुरांतराळ-प्रत्युप्तस्फुटबहुमौक्तिकावलीनाम् ।भूयिष्ठैर्बहिरभिसारिभिर्मयूखैःकौबेरीं हसति पुरीमिव प्रकामम् ॥
यस्यामुदारनृपमंदिरचंद्रशाला-वातायने दरपरिक्रमगाढलग्नाम् ।दीपाग्रधूममषिकां शिशिरांशुबिंबेमोहात्कुरंग इति मूर्खधियो वदंति ॥
हर्म्यावलीषु सह सारसलोचनाभिर्निद्राजुषां प्रतिविभातामधीश्वराणाम् । वातायनादुपगतो मरुदापन्गायाः वैतालिको भवति सांद्रमरुत्किशोरः ॥
अलंकृतानां हरिणेक्षणानां दिने दिने यत्र च दीप्रभासाम् ।कपोलभागाः कलधौतकांताः परस्परं दर्पणतां भजंते ॥
यस्यां धरणीतलखचितमणिशिलाफलकानामुत्पतता दीप्तिपटलेन सततमंबरपथेन संचरमाणयोः पुष्पवतोरवतरता रोचिषा च प्राणिनां नित्यानामिव न कुत्रापि छाया दृश्यते । यत्र च निशि सौधाग्रमणिकुट्टिमजुषो मुग्धवारहरिणीदृशोर्मार्गवशादासन्नानि तारकदंबकानि मौक्तिकधिया कुतूहलिन्यः करकमलेनादायादाय जंगमतया सभीति ससंभ्रमं प्रतिमुंचंति । यत्र च रमणीनां चरणतलरागपराकृतरामणीयकभरैर्मित्रकरामर्शाश्वासितैरपि विदलितहृदयैरनवरतं सरोगैर्हीयते सरोरुहनिवहैः ।
यत्रांगनानां लपनार्थितश्रीर्निरुद्धमंदस्मितकौमुदीकः ।विभावरीशोऽपि सृजत्यजस्रं प्रालेयलक्ष्येण सबाष्पधाराम् ॥
लीलागतैर्यत्र विलासिनीनां प्रावीण्यसिध्यै बहुशोऽनुनीय ।स्वजातिभिश्चोदित एव कचिह्माणमद्यापि बिभर्ति हंसः ॥
इतस्ततस्संचरतां जनानां रथ्यासु यस्यां बहुलक्षपासु ।वितर्दिकास्तंभमणीमयूखः करोति नित्यं करदीपकृत्यम् ॥
मंदारसौरभ्यमनोहराणिसंक्रंदनारामसहोदराणि ।यस्यास्समीपोपवनानि दृष्ट्वाविसिष्मिये व्यासयतिर्महात्मा ॥
ततः नरसमहीपालः क्रमेण नगरोपकंठमागच्छंतमेनं भगवंतं व्यासयोगिनं सचिवमुखादाकर्ण्य संबध्यमानकुतूहल: प्रत्युज्जिगमिषया सराजलोकः सरभसमासनादुत्तस्थौ । तावदत्र संभ्रमैस्सज्जीकृत्य करद्वयधृतखलीनगुणैरसकृत्क्रियमाणमृदुतरचपेटास्फालनस्सांत्वनैस्सादिभिस्सपदि समुपनीतं चटुलतरखुरपुटतया जुगुप्समानभूतलस्पर्शं वपुष्मंतमिव सुकृतराशिं वदनराजीवपराजिततया तुरंगभूयमंगीकृत्य वोढुमागतमिव सारंगचिह्नं गंडोपलमिव कैलासशैलस्य न्यासीकृतरथ्या मिवार्थस्य विजययात्रासमुत्थापितरजःपुंजपूरणचकितचकितेन दुग्धसागरेणेवोपदीकृतमुन्नमितकर्णपल्लवमुन्मिषितहेषारवमुत्तुंगधवलतुरंगमधिरूढः किरीटतटघटितमुक्तामणिनिकरसमुत्पतितेनेव प्रभाचक्रवालेन सितातपवारणेन संपादितच्छायः कमलकर्णिकाकर्णपूरेणेव राज्यलक्ष्म्याः कुंचेन कनकनालेन परिवीज्यमानस्सविधवर्तिभिर्विविधनटनलालनपरतंत्रघोटकधावनप्रकंपमानकर्णावतंसैराप्तैर्महाप्रधानैर्निबिडितपरिसरो विशालविमलोष्णीषकलितैरामुक्तकंचुकैराविष्कृतहारमणिनिष्कपरिपाकैरुद्गमितचलांचलभुजांचलैर्मागधैः पार्श्वे सहेलमुच्चैः पापठ्यमानविक्रमबिरुदमाकर्णयन् भुजारोपितनिखिलवसुमत्यतिवेलभारतया व्यपगतश्रमैस्सनृपनिकरैस्सेव्यमानो बहुभिः कुलगिरिभिर्विकटकरटिकटाहनिःसृतमदप्रवाहैः स्तंबेरमैरनुरुध्यमानः परिस्फुरत्तपनबिंबप्रतिफलनान्यपरोक्षितप्रतापज्वलनानीव विक्लवाधिधारयद्भिरायुधानि कालकवचनिचोलितस्कंधैरंबरसंचारलग्ननवमेघखंडैरिव चारणगणैरपरिमितैर्योधैः परिवेष्टयमानः सततपरिचितपरिश्रमक्रीडनादतिमांसलितावयवैर्विचित्राणि मंडलवलयानि विस्तारयद्भिः किलकिलामुखरमुखैः फलकपाणिभिर्देदीप्यमानपु-रोमार्गो बृंहितेन द्विरदानां हेषितेन हयानां क्ष्वेलितेन योधानाम् आलोककोलाहलेन दंडिनां भांकारेण भेरीणां धणंधणेन निरसाणानां धुंधुमितेन मद्दलानां जुंजुमितेन डिंडिमानां झंकारेण झर्झरीणां घुंघुमितेन शंखानां कूजितेन वेणूनां कलकलेन काहलीनां शब्दाद्वैतमिव जगतीं कुर्वाणः स नरदेवो नगरादतीत्य पदवीं गव्यूतिमात्रां पुरुषोत्तमशंकया सेवासमागतयोरिव दुग्धाब्धितरंगयोः पार्श्वे धोधूयमानयोस्समाह्वयतोरिव कृपाभरेण तस्य भगवतो व्यासयोगिनः श्वेतचामरयोर्युगलं दूरादेवावलोकयामास । तुरंगमादवततार । पद्भ्यामेव संचरमाणः सुमेरुतटरुहेण सुपर्णाकारेण श्लक्ष्णपर्वणा समुज्ज्वलद्भगवत्तेजःप्रपंचासहनतया दूरमपसृतेनोर्ध्वभूतेन मध्यमभागेन वज्रोपलशकलस्थपुटितकुप्यशेखरितकोटिद्वयेन दंडेन परिशोभमानाया दृढनियंत्रितरक्तपटपट्टवितानोपरिभागायाः कनकशिबिकायाः मध्यमध्यासीनं करतलोत्तानितपुस्तकविभागावलोकनजागरूकमनवरतचाल्यमानकुंचमंजसोपरिसरमतिनिबिडतया कृच्छ्रलभ्यमानपदावकाशया शरदंबुदविशदविशदोष्णीषसंव्यानवसनया फणितिविलासस्य भरनैपुणीं याचमानयेव त्रिपथगया बहलया ब्रह्मपरंपरया सेव्यमानं कलितमधुरस्वरगभीरिमतृणीकृतकिन्नाराणां गांधर्वनिगमपारावारपारदृश्व नामुच्चावचां नारायणभुजापदानगाथामुच्चैरुद्गायतां विस्मयनीयानुभावं तं भगवंतं व्यासयोगिनमपश्यत् । अमुष्य किल वाहनमादिभिक्षोरिव समुद्वहंति शैबिकनिर्विशेषमवसरेषु स्मरणमात्रकृतसन्निधानानि विनमंति महाभूतानि । अनेन खलु पुरा तीर्थपर्यटनेषु अधिकांतारमपहरतेत्युदितमात्रात्सविभ्रमाः कुंभीलका अपि दारुणा: प्रेष्या इव केवलं तरुपल्लवानि चिरमुपाहरन् । अस्य ननु त्रिवासरोपवासश्रांतिजुषो भगवान् बालगोपालः वत्सलतया सुहृज्जनस्येव रहसि साक्षादागत्य सुधामंडलनिर्विशेषं नवनीतपिंडं हस्ते दधानः मणिमंजीरझंझलितमनो-
तेजोविशेषादतिदुर्निरीक्षं रध्यासु रथ्यासु कुतूहलेन ।तत्रैनमालोकयतां जनानामुच्चावचं भाषितमेवमासीत् ॥
अनेन खलु भद्रमेकैकतया लक्ष्यमाणास्सुखेन विजयलक्ष्मीस्वयंवररमणा भवेयुः ।
इत्यादि पौरवचनं निखिलं च शृण्वन्वीक्षाभिरेष विलसत्करुणाकरीभिः ।व्याकीर्णनव्यमृदुपुष्पपटीरचर्चावीथीरगाहत सुमेदुरवैजयन्तीः ॥
तदनु स मठमागात् क्ष्माधिपेन प्रदिष्टंस्फटिकमणिमयूखस्फारसोपानमार्गम् ।विपुलकनकवेदीविद्रुमस्तंभराजिंमृगपतिरिव कुंजं मेदिनीभृद्वरस्य ॥
तत्र व्यराजत समस्ततमोनिहंतामुद्रासने सनिवसन्मुनिसार्वभौमः ।मार्तंडबिंब इव मार्गवशेन मंदंमंदाकिनीपुलिनमध्यभुवं प्रविष्टः ॥
अर्चयंतमिममर्घ्यपूर्वया भागधेयपरिणाममात्मनः ।पार्थिवस्सपदि पर्यपूजयत्पांडुसूनुरिव बादरायणम् ॥
स च भगवाननतिसमीपोपविष्टमगणनीयस्यात्मगुणवर्णनस्याऽकर्णनेन संकुचंतमिव सकलावयवैर्दुर्वहेण विनयभारेण प्रह्वीभवंतं निदर्शनीक्रियमाणानां प्राक्तनपार्थिवानां द्राघीयसीभिः कर्णकुहरमाविशं तीभिः पावनकथातरंगिणीभिः सिकतिलमिव तुमुलपुलकितकपोलमुद्रहंतं नरपतिं प्रांजलिं चिरेण भगवानभिगमनाय तमन्वजानीत् । तस्मिन् गते समुचितं सकलं करणीयं क्रमेण स दिवानिशमत्यबाहयत् । भक्तया संभावयंतं धर्मपदोपदेशेन प्रत्यहमनुगृह्णन् स तपोनिधिस्तत्रैव चिरमवसत् ।
बहिर्गतैरंतरमप्रसारैराच्छादितं व्यासयतेर्यशोभिः ।ब्रह्मांडमालक्ष्यत शुक्तिलिप्तं तपः प्रकुर्वाणमिव प्रथिने ॥
एकदा तु तस्य व्यासमुनेरन्यादृशपरिपाटिं मनोवृत्तिमिव शारदायाः पार्थकृपाणीमिव कर्णारुंतुदामैरावतसलिलक्रीडामिव क्षोभकरीं समीरगतिमिवामोदहारिणीं वसंतलक्ष्मीमिव महाशोकसंवादां विजयकथामाकर्ण्य विषवल्गविटपिन इव महेया परिवेल्लिता:प्रयागपुलिनप्रदेशा इव सन्निहितसरस्वतीविलासा वरवर्णिनीकटाक्षा इव श्रुतिपारदृश्वानो भूपतय इव दुर्वारशास्त्रप्रणेतारो गंडोपला इव महीभृत्कटकस्थितिजुषः शबरा इव बहुपक्षव्याहारकृतमुखाः केचिदंगवंगकलिंगमालवचोलकेरलादिविविधदेशेभ्यस्सरोषोद्वेगमापतितमात्रा एव विपश्चितः संघीभूयाहंप्रथमिकया वादेन विजिगीषवो राजकुलद्वारतोरणस्तंभनासायां दर्वीकरजिह्मायामिनीं बिरुदपत्रिकां बबंधुः ।
आडंबरेण महता भुवि दृश्यमानाःसर्वेऽपि ते युगपदेव धराधिपस्य ।आमर्दितां सचिवपौरपुरोहितायैरास्थानभूमिमधिरुह्य ततो निषेदुः ॥
वैदेशिकानां सुधियां क्षितींद्रःतादृग्विधामारभटीं समीक्ष्य ।तं व्यासयोगीशितुरानुभावंजानन्नपि त्रस्त इवावतस्थे ॥
अत्रांतरे शिष्यमुखादाकर्ण्य तथाविधमुदंतम् ।
संप्रेषितेन पुरतो विकलय्य पत्रींतां शैबिकेन तरसा यतिकुंजरस्य ।आगच्छतो नृपसभां गगनावगाहीतालध्वनिस्समुदजृंभत संभ्रमेण ॥
तदानीम्—
कल्प्यमानजगदद्भुतमोदः कथ्यमानपरतंत्रविभेदः ।विद्विषामभवदाहितखेदो व्यासयोगिजयतालनिनादः ॥
आकर्ण्य तावदवनीरमणेन योगीप्रत्युद्गतिं कृतवता विनयेन दत्ते ।पीठे घनाघन इवाद्रितटे न्यषीदन्मंदस्मितोदयतृणीकृतवैरिसंघः ॥
आसनायुपचितं महीभुजा व्यासयोगिनममुं विरोधिनः ।नासहंत दमघोषजादयो वासुदेवभिव पार्थपूजितम् ॥
ते च दर्पोन्मत्तैर्बिरुदपत्रिकायास्तथाभूतेन छेदेन द्विगुणितरोषा वेशा विमतसुमतयो यूथपतिमिव मतंगजाः प्रवावदूकतातिरेकेण धिषणमपि तृणाय मन्वानं बसवाभट्टनामानं कंचन कालिंगमनीषिणं पुरस्कृत्य भगवता तेन तापसकेसरिणा सह विजिगीषया पक्षद्वयस्थापनावतीं कामपि कथां प्रारभंत । तत्र यथापूर्वं निर्व्यूढेऽपि सकले संघाबंधे-
विकचवदनारंभं विवादयिषोर्यते-र्बकुलधवला दंता विरेजुरितस्ततः ।गगनतटिनीपूरागभीरमध्वमतांबुधेःप्रतिभटसुधीप्रज्ञांबुजावलिचंद्रिकाः ॥
सुधापरिमिलोर्मिलास्सुरसरित्प्रवाहार्भटीकिरीटतटकुट्टनप्रकटपाटवोद्दामराः ।त्रयीयुवतिचूलिकासुमनसो यतिव्यासराङ्गिरो नृपसभाभुवं ध्वनिमयीमिवातन्वत ॥
किं वा भूमीधरालीपतनपरवशः प्रौढदंभोलिघोषःकल्पांतोज्जृंभिझंझाक्षुभितजलनिधिः सारकोलाहलः किम् ।किं वा दंभोलिधारापतनपरिलुठद्भूमिभृद्भीमघोषःकिं घोणीशानघोणाहतबलिसदनप्रोत्कटध्वानलक्ष्मीः ॥
इत्युत्प्रेक्षंत वाचामारभटीमरिसुधियो व्यासभिक्षोरुदग्राम् ।
परस्परोज्जृंभितयुक्तिगुंभाः समुल्लसत्तादृशवीरवादाः ।अथो तदानीमुभयेऽपि धीराः क्षणादिव त्रिंशदहान्यनैषुः ॥
अन्येद्युरेव विस्मयमानैस्संर्वैरपि सभ्यैरुपलाल्यमानवाग्वैखरीप्रभावः स भगवान् झटिति प्रयुक्तैरनभिहितग्राह्यैरज्ञानादिभिः पशुपतिरिव शूलशिरोभिस्त्रिभिः कांश्चिदाख्यायमानवसरग्रहणीयैरप्राप्तकालप्रमुखैर्जनार्दन इव भुजदंडैश्चतुर्भिः कांश्चिद्भाषितगृहीतप्रपुरोगमैः फल्गुन इव शरनिकरैरमोघैर्निग्रहै: कांश्चिद्विमतविबुधलोकान् सलीलमेव निराकुर्वन्निजयशः प्रपंच इव दिशामंडलं महतीं विजयलक्ष्मीं समाश्लिषत् । तावदपयशसा सह दीर्घीभवंतं निश्वासं दधतां मध्ये तेषाम्-
वैलक्ष्यमारचयतोऽपि कलिंगसूरे-स्तस्य प्रदातृमणिना मुनिना वितीर्णम् ।मध्ये नरेन्द्रसभमप्रतिभां गतस्यवैवर्ण्यमेव वपुषि प्रकटीबभूव ॥
केषांचिल्लालांबुना साकमहंक्रिया प्राशुष्यत् । परेषां स्वेदेन सममानन्दो निरगलत्। इतरेषामाभीलेन सह लज्जा समजनिष्ट । अन्येषां विस्मयेन सार्धं साध्वसमवर्तत । एतेषाम् आत्मनिंदया सत्रा स्वमतसंदेहः प्रादुरभूत् । अपरेषां स वासरः स्वप्नसमय इवालक्ष्यत । तदनु भगवान् यतिकुलावतंसो व्यासोऽपि चेतसा विस्मयभरं शिरसा श्लाघाकंपं चक्षुषा हर्षबाष्पं वचसा विजयस्तुतिंवपुषा पुलकितमुकुलं पाणिपल्लवेनांजलिं यौगपद्येन बिभ्राणेन नरसमहीपालेन पश्यतां प्रत्यर्थिनां समक्षमेव समर्पितैः प्रकटितदुग्धडिण्डीरपिण्डपाण्डिमोपहसनैर्दुकूलवसनैर्मेरुतटवास्तव्यचारणोपवनकूपगभीरिमकलहैर्हाटककटाहैश्च कुरुविंदशलाकानिर्मितेनाकलितमृदुलशिखावलयपिंछदलावली पवित्रेण धवित्रेण च परिणतामलपृथुलनिस्तुलमुक्ताफलखचितया चरणतलपुस्तकविन्यासकबलिकया मणिपादुकयुगलिकया च विशंकटनिकटतटिनीतटाकदीर्घिकोदारकेदारिकारामांभिरामैग्रमैः कांचनशिबिकाकुंभचामरविविधजनपदमठालयमणिपीठिकाभिः परिवसितो राजसदनात्सर्वैरपि सभासद्भिरनुगम्यमानः पुंखानुपुंखविजयतालकोलाहललेलिह्यमानसकलदिग्वलयो विस्मयमानहृदयैः पौरजनैः प्रतिविशिखं बहुमान्यमानविद्यावैभवो मन्दं मन्दं निजमावासं प्रत्यासदत् ।
प्रावादुकस्य परिपंथिजनस्य जेतायोगीश्वरो नरपतिश्च तथा वदान्यः ।अन्योन्यमुच्छ्रितकृपारसभक्तिभाजौव्यत्यस्तवासभवनाविव तावभूताम् ॥
धानुष्कवत्तस्य वदान्यभावोन्यपातयद्धद्धयशः कलापः ।पंक्तिं महाचापवता विमुक्तांसन्मार्गणानां धनलक्षणानाम् ॥
क्षोणीवल्लकितल्लजे जितमहामेरूदयास्ताचलस्थूलालाबुफले विशालतटिनीतंत्रीसमावेल्लिते।तन्वानो महतो गुणे कतिपयग्रामान् हसन्नादरंव्यासो ब्रह्मसभामुदे यतिपतिर्ग्रामान् बहून् व्यातनोत् ॥
तस्मिन्यतौ वितरणेन धनाधिनाथां-स्तन्वत्यधिक्षितितलं सकलान्बुधेंद्रान् ।सर्वज्ञतामपि वहन विवेद देवः कोवा सखेति कुलशैलसुतासहायः ॥
एवमेव स मुहुर्मुहुर्यदुपतिरिव सुभद्रानन्दहेतुना विजयेन क्रमेण विमतमतं खिलीकुर्वाणः सलिलसेचनेनेवारामं वैदिकाचारप्रवर्तनेन धर्मसंचयमुदञ्चयन्विश्राणनकुंजरविशदचामरायमाणयशः प्रकाशो लोकयकुशलागमसाधारणद्वारायमाणचरणारविंदसेविनां शिष्यवर्गाणां तत्त्वबोधोपदेशेनानन्यसुलभमुक्तिमत्तकाशिनीघटनपटीयसीं हरिभक्तिमुद्दामयन् चूडामणिमिव कोटीरो भूपतिसभां भूषयन् भूयसीस्समास्सुखमतिष्ठत्। ततस्स महनीययश: प्रचारो नरसनृपतिविक्रमगतिनामभिः वीरनरसिंहकूलंकषगुणसंपदः कुमारस्य भुजचण्डिमसहचरीं विधाय महतीं वसुमतीमनवरतमधिसुधर्मममरगणिकागणवीणागुणपथपथिकनिजविक्रमभोगावलिश्रवणजनितविस्मयेन पुरुहूतेनाहूत इव दानवबलविजयाय चारणशातोदरीकरांजलिशतप्रकीर्यमाणनन्दनकुसुममधुरझरीपरिरंभशिशिरीक्रियमाणचत्वरीं त्रिदशनगरीं लोचनयोर्गोचरीचकार ।
सबभार ततो वसुंधरां चतुरंभोनिधिचारुमेखलाम् ।कुलशैलकुलानि केवलं जगतो दिक्करिभिस्सहांचयत् ॥
तस्याभीक्ष्णं जैत्रयात्रासुखेनाधूलीपालीचूलितान् सिंधुबंधून् ।दानांभोभिस्त्वंगदुत्तुंगभंगैः प्रत्यापत्तिं प्रापयामास पाणिः ॥
विद्यापुरीगिरिदरीविहिताधिवासंकीर्तिच्छटासटमुपायचतुष्टयांघ्रिम् ।श्रुत्वैव वीरनरसिंहमहीपतिं तंदिग्वारणैस्सममरातिमृगा विबिभ्युः ॥
आरब्धघोरसमराजिरगोचरारिनारीजनस्मितसुधाकरकृष्णरात्रिः ।तस्य प्रतापसुहृदा करवालवल्लीश्वश्रूत्वमाप सुरवारविलासिनीनाम् ॥
तत्प्रतापदहनस्य सर्वदिक्रोडदुर्ललनकेलिशालिनःतापभारमिव सोढुमक्षमो नीरधौ स निममज्ज बाडवः ॥
तेन सकलगुणगणमणिखनीभूतेन विवाहविधिनेव प्रकटितकरग्रहणेन चन्द्रमसेवान्वर्थराजशब्देन पुरहरेणेवाचलकोदण्डेन हेरंबेणेव रणसहायशरजातेन योगपथेनेव समुज्जृंभमाणप्रतापानलमण्डलदुर्निरीक्षमहावीरपरिवृतेन पोषकेण प्रश्रयस्य, सादिना राजतुरंगस्य भद्रपीठेन धैर्यसाम्राज्यस्य, पुण्यकीर्तनेन वसुधाधिपेन, हंसेनेव कमलाकरः, प्रत्यहमुपसेव्यमानः कृतयुगसमय इव धर्मैकसहाय: कुशध्वज इव श्रुतकीर्तिप्रभावो देवकीनन्दन इव नरकविध्वंसिचरितः लक्ष्मीवक्षोज इवाच्युतप्रतिष्ठापितपृथुलाग्रहारो, वीणागुण इव श्रुतिमार्गसमुन्मेषणजागरूकः कोकलोक इव भूयिष्ठविप्रयोगो, मलयगिरिरिव सदानन्दस्पर्शनो, मन्मथ इव सन्निहितसुमनोमार्गणो, वक्षरशंकुर्विपक्षाणां, गरलग्रंथिमुकुलः कलिगुणानां, बिरुदडिण्डिमः पुण्डरीकाक्षभक्तेः गिरिकन्दरो धैर्यकण्ठीरवस्य मणिकुंभो मध्वमतगोपुरस्य, दौवारिको नियमकोशस्य, भगवान् स तपोनिधिः निरवशेषितसकलदुर्वादिकुलगर्वतया निराकुलमानसः सकलधर्मजीवातवे तत्त्वमतस्थापनाय तात्पर्यचन्द्रिकातर्कताण्डवन्यायामृतप्रमुखानि निधिनिकुरंबाणीव महनी यार्थगर्भितानि नूपुराणीव दृढपदबंधनानि, मुनिकुलानीवाबाधितयोगानि, भार्गवचरितानीव जीवहरिभेदनपरायणानि सुधानिष्यन्दनानीव विबुधलोकसेव्यानि प्रमदाजनमनांसीव प्रौढतरमानानि गीर्वाणवृन्दानीवधिषणाकारीणि ताराणीव शंसितविधुमुख्यभावानि राजकृत्यानीवालीकवादिमर्मभंजनानि महीयांसि भूयांसि क्रमेण व्यरीरचत् ।
तस्माद्यतेस्समुपसृत्य दिगंतरेभ्य-स्तानि श्रुतानि मुहुरादधिरे बुधेंद्राः ।अथांतविष्णुपदसेवनजागरूकावारीणि सागरपतेरिव वारिवाहाः ॥
विसृमरजगन्मिथ्याज्ञानांधकारभिदाकृतामहितविभवं संतन्वत्या च मध्वमतांबुधेः ।विमलितमभूद्योगिव्यासाननें दुसमुत्थयासपदि भुवनं सर्वं तात्पर्यचन्द्रिकया तया ॥
व्यासयोगिलसदुक्तिनर्तकीकल्पितं कमनतर्कताण्डवम् ।पश्यतस्सदसि कस्य मानसे तृप्तिरादित पदं विपश्चितः ॥
न्यायामृतं निगमवारिनिधेर्गृहीत्वाश्रीव्यासयोगिहरिणा प्रवितीर्यमाणम् ।पीत्वा भृशं सुमनसो धिषणाभिरन्यान्सर्वानमंसत तृणाय सपत्नवर्गान् ॥
एवं भगवतस्तस्य तादृक्षां प्रचुरशास्त्रप्रणयनप्रवीणतां लोकालोकंशिलातलचंक्रमविलासलोलकेसरिनिकरदायादर्शकांकूरणकारणं यशःप्रसरणं च द्वीपांतरभूपालसंप्रेषितप्रधानपुरुषैरसकृत्समर्प्यमा णानि बहुविधोपहारपूजनानि च वीक्षाविशेषमात्रेण निग्रहानुग्रहकरणसमुदग्रकौशलभाजनं तेजश्च वितरणलवावलेपदुर्ललितनिलिंपोपवनप्राश स्त्यपारणलंपटं पाणितलपाटवं च विलोकमानस्स वीरनरसिंहभूपतिराक्र-म्यमाण इव मोदैरालिंग्यमान इव विस्मयैरालिप्यमान इव विनयैरारुह्यमाण इव रणरणकैरवलंब्यमान इव श्लाघनैरजादिव दशरथो वसिष्ठं पितुरधिकमेव भक्तिभारेण तं यतिवरिष्ठमभ्यर्चयामास ।
ततोपयाते बहुवासरपरंपरापिचण्डिले समये -
कृष्णे कनीयसि महीयसि सद्गुणौघैर्विन्यस्य भारमवनेर्मकुटेन साकम् ।धीराग्रणीर्दिवमगात्स नृपः स्वधर्मप्रोत्तुंगकोशगणनामिव कर्तुकामः ॥
तदनु समस्तभुवनमङ्गलकन्दलसमयसलिलधारायमाणशासनचातुरीको विविधसुचरितचकोरनिश्शेषकबलितधुंधुमारादिवसुंधराधुरंधरयशश्चंद्रिकामण्डलः, प्रतिभटराजमहिषीकुचकमलांतरचारिहारहंसावलिसमुच्चाटननवमेघमालायमानकरवालस्सकललोकांगीकृतशास्त्र: शेष इव गृहीताहीनभावो, नारायण इव द्विजवरसंगप्रियः, सुरपतिरिव सुधर्माधिरूढो, विकर्तन इव वृत्रलवित्रप्रतापपरिपूरितदिमण्डलः, सत्कविरिव विबुधजनोपलाल्यश्लोकसंदोहः, कोदण्डदण्ड इव गुणप्रवणः, भृगुरिव जनितकाव्यः, कलभ इवांतस्थितदानवारिः, कुशध्वज इव जनकानुवर्तिचरितः, सरित्प्रवाह इव निजशब्दसंदर्भः, गौरिव निराकृतकविकुलकोलाहलः, हरिवंश इव युद्धसमुद्धतबलः परदारविमुखोऽपि रिपुनृपतिखण्डनपरः जैवातृकोऽपि निष्कलंक: सर्वज्ञोऽपि जिंहगसंगपरिहीणः महासेनोऽपि स्निग्धतारकः, लोकबांधवोऽपि कुवलयक्षेमंकरः, नरेन्द्रोप्यज्ञात भुजंगव्यापारः, सुबाहुरपि रामानन्दमूर्तिः, अभीमोऽपि दुश्शासननिग्रहजातप्रीतिः, अपामरोऽपि सन्निहितसुमनोगणः, शिरोमणिर्भूपतीनां नभोमणिर्वि-पक्षांधकाराणां, ग्रामणीर्धन्विनाम्, अग्रणीर्वैज्ञानिकानां, पारदृश्वा सकलविद्यानां स कृष्णरायो जलनिधिपरिधानप्रसाधितं धरावलयं भुजावलयमिवातिलीलया बभार । समरमहीषु दृढपाणिकृपाणलता समजनि सततं विविधवीर्यविलासनिधेर्विबुधविमानसौधनिगमोपविधिप्रणयिनीविरोधियोधे ॥
कालांबुदावलिरुचा करवालवल्यांतस्य प्रतापतपनेन समुज्ज्वलेन ।श्रीकंठहासधवला जनिता यशः श्रीःकार्ये गुणानितिनयं कलुषीचकार ॥
तस्मिन् प्रवीराग्रसरे रणेषु द्विषां समुत्सादयितुं समिंधे ।स्वर्वासिनस्ते स्वयमभ्यकांक्षन् कूलंकषां कौशिककोपमुद्राम् ॥
तस्य च सकलभूपालसार्वभौमस्य विजयमङ्गलयात्रायां दिशि दिशि विचरतः पुरस्सरायमाणं प्रलयकालप्रकटितनटनजटाटीरधूर्जटिनिटिलतटनयनपुटकृपीटभवसाटोपशिखाछटाटवीविघटितब्रह्माण्डस्फोटनरटितपाटवपरिमोटनलंपटं पटहध्वानमाकर्ण्य सर्वतः संप्रधावितानां विरोधिवसुधाधिपानां, विपिनभूमय एव राजधान्यो, गिरिकंदराण्येव मन्दिराणि, शिलातलान्येव सिंहासनानि, पादपमण्डलान्येवातपत्राणि, समीरणा एव तालवृंतानि, चरणावेवोपवाह्यौ, दावनला एव दीपिकाः, कीचका एव कुशीलवाः, पञ्चका एवालीकवादिनः, कन्दमूलप्रदेशा एव कनककोशानि, झर्झरा एव धारागृहाः, स्वकरा एवारालिकाः, स्वस्तिकबंधान्येव प्रच्छदवसनानि, जानून्येवावरोधनानि महीतलान्येव मञ्चानि बभूवुः । तादृशेन सकलगुणगणसंकेतमदेन, प्रांशुना, नयविचाराभ्यां, मांसलेन कीर्तिकरुणाभ्यां दुराधर्षेण शौर्यगांभीर्याभ्यां ललितेन विद्यासुषमाभ्यां प्रसाधितेन सौजन्यवितरणाभ्यां प्रवणेनभक्तिविनयाभ्यां, चित्तानुवर्तकेन भागवतमूर्धन्येन तेन कृष्णमहीपालेन त्रिसंध्यं कुलदेवतायामिव मकुटतटमालतीकुसुमशेखरीक्रियमाणनखमयूखजाते महानुभावे मार्ताण्ड इव मरीचिप्रकाण्डैस्संतमसमण्डलानि प्रतिभटबुधडिम्भकभूधरडंभारंभसंभेदनजृंभिजंभरिपुदंभोलिघोषायितैगंभीरैर्वाग्गुभैरेवोपहतप्रचण्डानि खांडनिकपाषण्डमतानि कथावशेषं खण्डितवति भगवति तस्मिन् व्यासयोगिनि पुनराहितावतारमिव भुवनमभूत्। तथाहि – चिरादारोपितात्परिवादादिव मिथ्यात्वादमुच्यत झडिति प्रपञ्चः । शल्यशलाकयेव लक्षणया च निर्वेदमापन्नास्सर्वेऽपि वेदव्याहाराः प्रकृतिधुरां बिभरांबभूवुः । विधुताभिधेया अपि स्मृतयः आश्चर्यभूतां तात्पर्यसरणिं प्रकटयामासुः । बोधोपपादननिपुणानि पुराणानि निरंतरं प्रावर्तत । रंभाकुचपरिरंभादिपरमार्थप्रयोजनविगलितव्यावहारिकफलरोगा, यागाः । जीवपरभिदावदावदेन तत्त्वबोधेन निर्निरोधेन बभूवे । अरमरंरम्यतरम्ये देवतातारतम्ये नारायणमुख्यभावविवरणा । पाराय, क्रियां विचारणोल्बणा जनानां धिषणा । अक्षीणलक्ष्मीसहायाचरणभक्तिभाजनमानसा बभूवुरिहैव सारूप्यभासि इव शंखचक्रलांछनाः सकलद्विजातिसंघाः समस्तबुधनिधानभूतो वृषः कृतयुग इव गर्जन् चतुर्भिः पदैः स्थैर्यमाव्यतनिष्ट । अथ जातुचिद्व्याममात्रं गगनतलमधिरूढे भगवति पद्मिनीरमणे समाप्य वैभातकीं नियम क्रियां महांतस्सर्वतः प्रत्यग्रसुधाद्रवालेपमसृणितद्विरदरदनैरिव विरचितं व्याख्याविलासकौशलगूढाभ्यसिषया क्षितितलमुद्भिद्य मण्टपाकारेण परिणतमिव कुंडलिसार्वभौमं भणितमाधुरीपराजितया सुधया निजमण्डलैः यमिन एवोपहारीकृतं दिगंतचारिणीभिर्यश छटाभि बंदीकृत्योपनीतमिव चन्द्रसदनं स्वप्रतिष्ठापनप्रसन्नेन धर्मेण निरंतरसेवनायेव निजांशपरिकल्पितं विरहासहिष्णुतया महीतलमवतीर्णमिव प्राग्जन्मवाहनराजहंसं व्याख्यामण्टपमधिवसंतं कैटभभेदिनाभिपुण्डरीकपुरवासिनमिव भगवंतं हिरण्यगर्भं, कलशसागरजठरोदयजुषमिव
द्वारि कृष्णनृपतिस्समेत्य सस्वामिनः सहपुरोहितादिभिः ।दर्शनावसरमीक्षतेऽधुना पाकशासन इवाब्जजन्मनः ॥
तावत्प्रवेशनविधौ गुरुणा नियुक्त-शिष्यैरुपेत्य विहितावसरः प्रधानः ।भक्तया नृपो भगवतः पदपद्मयुग्मविन्यस्त-मौलिमवनौ नमयांचकार ॥
भूपस्त्वथोपचरितं पुलकोदयश्रीःस्पष्टीभवद्विपुलभक्तिरसप्रचारम् ।दूरीकृताह्निकमपृच्छदथेंगितज्ञोयोगीशिता नवसदागमनस्य पातुम् ॥
तुष्यन्नभीष्टां स्वयमेव पृच्छां व्यातन्वते व्यासयतीश्वराय ।कृत्वाऽजलिं कृष्णधराधिनाथो विज्ञापयामास विनीतपूर्वम् ॥
स्वामिन् प्रतिभटवादिविजयेषु भगवद्वचोभिः पलायितमिव स्वदेशे गूढं विचरत् सच्छास्त्रं सुत्रामजालस्य, प्राणभूतं मायामतस्य, तत्त्वं व्यामोहकशब्दाभिधेयस्य, भूमिमनृतस्य, दुष्टपक्षं बंधिग्राहमिव गृहीत्वा शुकनीडाकारायां पुस्तिकायामाबध्य विद्याधरपात्रनामा कलिंगाधिपतिः कैश्चिदहंयुभिः विपश्चिद्भिः प्रबलितोत्साहो भगवते व्यासयोगिने प्रदर्शनीयो दुस्तरयुक्तिभिस्सह विस्तारितोऽयं महान् ग्रंथ इति स्वसेनापतिकरे मह्यं प्रैषिषत् । तदवश्यं तमेनं कतिपयैर्दिनैरेव दुर्लंघ्याभिर्वचोयुक्तिभिर्भगवान् शरद्बलाहकमिव झंझाभिश्शकलीकर्तुमर्हतीति पुस्तकां सन्निधौ संदर्शयामास । व्यासतपोनिधिरपि तामादाय रहसि सूचितविमतमतावमतिः पुरस्तादेव भूभृतस्तस्य मुहूर्तमात्रे बह्वीभिरतिवज्ज्रपाताभिरुपरिदूषणानवकाशप्रदायिनीभिर्युक्तिपरांपराभिः शतशः खण्डयित्वा पुनरपि कलिंगाधिपतये झडिति ग्रंथमेनं प्रेषयेति तस्मै भूपतये प्रादात्।
विलोक्य वाचां विभवं तदीयं विशेषतो विस्मयमानचेताः ।कृष्णक्षितींद्रः कृतसंप्रणामस्तस्मादनुज्ञाप्य सगेहमाप ॥
यावंतो विषयाहृता भुजबलं यावत्सपत्ना जितायावंतश्च वदान्यता करसरोजाताश्रया यावती ।यावत्यो धनसंपदो गुणगणो यावांश्व यावद्यशस्तावत्कर्तुमियेष पूजनमसौ श्रीव्यासभिक्षोर्नृपः ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते पञ्चमोल्लासः ॥

॥ षष्ठोल्लासः ॥

अन्येद्युरेव नृपतिप्रहितःपुरोधास्साकं प्रधानपुरुषैः सचिवैरुपेत्य ।तं व्यासयोगिनममुं तपसांनिधानं व्यज्ञापयद्विनयभावविनम्रमौलिः ॥
भगवन्निदानीं खलु–
स तु नृपतिरमात्यैस्सार्धमास्थान-मागाद्वलभिषु विशिखानां वैजयंत्यो निबद्धाः ।तरलनवसुपुष्पास्सर्वतो राजमार्गागगनतलमशेषं गाहते तूर्यघोषः ॥
स्वामिन् भवंतं स्वयमद्य रत्नैराकांक्षते भूरमणोऽभिषेक्तुम् ।कूटाग्रभागं कुलभूधरस्य प्रसूनजातैरिव पारिजातः ।
तं भक्तिपल्लवितमागमनोत्सवेनस्वामिन् प्रसीद बहुमंतुमपारकीर्ते ।पुष्पांजलि: प्रतिकलं भगवन्नरस्यकोणेऽपि यः कलयते कुलदैवभावम् ॥
एवंकारं तेन पुरोध : प्रधानेन संप्रार्थ्यमानस्स भगवान् व्यासतपोनिधिः क्षणं विचिंत्य भक्तवत्सलतया करुणामसृणहृदयः सभाजिगमिषया मणिबृसीवरादुदस्थात् ।
गोविंदतापसमुखैः कुशलाग्रगण्यैरंतेवसद्भिरखिलैरनुगम्यमानः ।मन्दं मठात्स निरगाद्वदनारविंदा-द्वेदैः पुरस्कृत इव प्रणवो विधातुः ॥
घंटास्वनो मध्वमतद्विपस्य त्रयीमयीतिस्तनयित्नुघोषः ।तस्याथ तालध्वनिरुज्जजृंभे श्रीव्यासभिक्षोश्शिबिकापुरोगः ॥
यां यामतीत्य स मुनिर्विशिखामयासीत्सासा समुत्थितजनांजलिराजपूर्णा ।उन्नालदण्डसरसीरुहकुट्मलानांसाधर्म्यकेलिमतनिष्ट शरनदीनाम् ॥
राज्ञां सभां क्षौमवितानयुक्तां व्यराजयद्वयासयतीश्वरोऽसौ ।शरत्पयोदावलिसंकुलां तामाकाशसीमानमिवाब्जबंधुः ॥
तस्मिन्नृपस्सविधमागत इत्यमात्यैस्साकंसभांगणतलात्त्वरितैरुदस्थात् ।पूर्वाचलाश्रयिणि पूषणिपद्मवाटात्सौरभ्यपूर इव चञ्चलचंचरीकैः ॥
उत्थाय स निखिलैस्सामंतमहीपालैर्झडिति सीमंतितोपांतसरणिं नरपतिरात्मानमनुकंपयानुग्रहीतुमापतंतं, कमलबंधुभवनवापिकासतीर्थमिव कनकचतुरंतयानपरार्ध्यमध्यमध्यासीनं, कालांजनरसनिर्णेजनसंस्क्रियासमुन्मिषिताक्षरमणिवेदिकायां करकमलमधुपधोरणिकायामिव पुस्तकविभागरेखायां निभृतनिक्षिप्तचक्षुषं नासिकानालभागप्रतिफलितेनेव नयनयुगलेन स्वच्छतरोपलोचनगोलकेनानुमितवार्धकदशातिशयं धर्मशास्त्रभूषकवरवालहस्तेनेव धवलचामरिकायुगलेन पार्श्वतः परिवीज्यमानं, वैदिकसरणीनर्तनचरणमणिमंजीरशिंजितैरिव पुरतस्सरै: कनकतालध्वनिभिस्सुरपथकटाहं तुंदिलयंतं, मध्वमुनीन्द्रप्रकरणैरिव मूर्तिमद्भिः शिष्यैर्ब्रह्मसंघैरासेव्यमानपरिसरं तं भगवंतं यतिकुंजरं सरभसमुपसृत्य तच्चरणनखमणिकिरणराजिघ्रामग्रिमभागेन किरीटिनामहतीमनन्यसुलभां धन्यतामाजहार ।
तत्र भूपश्शरत्काले राजहंसमिवांबुजे ।स्वर्णपीठे स्वयं दत्ते व्यासभिक्षुं न्यवेशयत् ॥
अहमहमिकयेव स्वामिपादारविन्द-प्रणतविबुधयूथैस्सालहल्लोहलश्रीः ।प्रहतकुशलवाया प्रांतधावत्पुरोधाःक्षणमजनि सभा सा कौतुकेनेव सृष्टा ॥
तत्र स्फुरन्मकुटकोटिषु बिम्बरूपं तंयोगिनं सरसिजासनमेव बुद्धा ।उन्मस्तकीकृतकरांजलिवारिजानितस्मै नृपावलिरिवासनयांचकार ॥
तदनु सकलदिङ्मुखमुखरीकरणनिपुणताधुर्येषु मङ्गलतूर्येषु भक्तिविनयपरमानन्दकन्दलितसुहृदयेषु राजनिचयेषु, समापितसकलसंविधानसंपादकृत्येषु अमात्यभृत्येषु, निरंतरोद्धुष्यस्वस्त्ययनसूक्तपदवीसमापितेषु पुरोहितेषु, निरवद्यविद्यावैभवश्लाघाकंपमानशिरस्सु सुमनस्सु, परिसरपापठ्यमाननानावादविजयबिरुदावलिपक्ष्मलितचाटुप्रपञ्चेषु कविसंचयेषु, आकौमारचरितारंभगंभीरयशस्तुतिकृतकेलिकेषु विस्मयस्मितपक्ष्मपुटलोचनेषु पौरजनपदेषु, स किल कृष्णमहीपालः स्वयमेव करकमलेनादाय कनककुंभमिमं भगवंतं व्यासतापसमादरान्मणिभिरभिषेक्तुमारभत ।
तं व्यासभिक्षुं सकलैस्सरत्नैर्भूपोऽभिषिञ्चन् पुरतो बुधानाम् ।वाराशिपुत्रीमकुटाग्रभागमाशावशानाथ इवाबभासे ॥
शास्त्रार्णवाः षडपि तेन सुखेन पीताःश्रीव्यासयोगपतिनेति चिराय भीता ।
आत्मोद्भवैर्मणिगणैरवनीन्द्रमूर्तिस्तस्याभिषेकमतनोच्चतुरर्णवीव ॥
भुवि नृप इव कृष्णो भूपतिर्वा बुधो वानवमणिभिरमुं यो नार्चति व्यासभिक्षुम् ।सकलमणिसमूहस्तं विनिन्दन्निवोच्चैःखलखल इति शब्दं कल्पयन्नाप भूमिम् ॥
तेऽभिषेकमणयो महीभुजा तत्र तत्र ससृपुर्निपातिताः ।दीपिताखिलदिगंतभित्तिना धिकृता इव मुनीन्द्रतेजसा ॥
ऊर्जस्वलैर्बहुविधैर्मणिभिर्व्यराजी-त्प्राकारितस्स भगवान् प्रमुखो यतीनाम् ।लोकाभिमोदनविचक्षणवर्षशंसीनानारुचापरिधिनेव नवांशुमाली ॥
तत्र भगवानर्थसरणिलङ्घनजंघालान्युपादानानीव तेजसां त्रयाणाम्, असदृशस्वतेजोबिभिक्षिषया क्ष्मातलमापतितानि सतारकदं बानीव ग्रहनिकुरंबाणि, पुष्पाणीव भूपतिभक्तिविमललतायास्स्फुलिङ्गानीव निजतपस्तनूनपातस्समुदंचन्मरीचिप्रपञ्चवञ्चितसभामण्डलमङ्गलमणिदीपिकासमुन्मेषयत्नानि क्षोणीसुरयत्नविश्राणितावशेषाणि तानि राशिं कारयित्वा नानादिशांचलेभ्यस्समागतानां कुण्डलाय तुण्डिराधिपानां, केयूराय केरलानां, हाराय पारशीकानां, मकुटाय लाटानाम्, अंगुलीयकाय कलिङ्गानां, कंकणाय कोंकणानां, निष्का तुरुष्कानां चूडनाय गौडानां, तरलाय चोलानां, काचीगुणाय पाञ्चालानाम् अन्येषामपि भूभुजां वदान्याग्रणीस्स भिक्षुः प्रादिक्षत् ।
हस्तांभोरुहमानतांगुलिदलं विस्तारयद्दातृतांविद्वद्राजिषु तस्य तत्र सदसि व्यासस्य योगीशितुः ।युष्माभिर्भुवि पञ्चजन्मभिरियं भोक्तुं ध्रुवं शक्यतेरत्नानां पटलीति सूचनमिव व्यातन्वदालक्ष्यत ॥
संभावनावाप्तिसमुन्मदानां कवीश्वराणां कमनीयवाचाम् ।हल्लोलैस्सा नृपतेस्सभाssसीदुल्लोलकल्लोलितजालमार्गा ॥
संपत्तीस्सकलदिगंतरार्जितायातादृश्यानरसमहीपसूनृतायाः ।व्यातानीत्समुचितमेष इत्यशेषैस्सश्लाघेसदसि जनैस्स कृष्णरायः ॥
एवं समधिगतसपर्याविशेषस्स भगवान् समुत्थाय कनकासनादति प्रगल्भेन करुणारसमन्दरेण मकरन्दनिष्यन्दकरंबितेन अरविंददानेव वीक्षाविशेषेण च सुधामधुरिमांतर्वत्नीभिर्भक्तिरसश्लाघनभारतीभिश्च क्षितिपतिं कृतार्थीकृत्य समधिरूढचतुरंतयानो वाद्यमानानवद्यमङ्गलातो द्यमण्डलानि ध्वानपिचण्डलितब्रह्माण्डभाण्डोदरेण त्वरमाणसामंतनरदेव कुमारकराधिष्ठितशुनासीरतुरगचटुलतरखुरशिखरझर्झरितधरातलविसृमरपरागकदंबजंबालितदिगंतस्तंबेरमकरटकटहेन पुरा प्रधावितदण्डिलोकविशालीकृतालोककोलाहलोद्वेजितश्रवणकुहरसैनिकसंघानुपातेन नयेन धर्म इव साक्षादनुगम्यमानो जनमयीमिव उपहारप्रसूनमयीमिव उपायनमयी मिव अंजलिमयीमिव हर्षमयीमिव भूयसीं राजवीथीपरंपरामतीत्य करधृतकमण्डलुदण्डमण्डनैर्ब्रह्मवादिभिरपरिमितैश्शिष्ययतिकुलैरुपास्यमानः प्रतिहारपरिसरं महांतं महाश्रममशिश्रियत् ।
भक्तया स तत्र प्रवणीकृतांगं करांगुलीभिः कलिताधरोष्ठम् ।श्रीव्यासयोगी स्मितपूर्ववाचा तमन्वजानीत्सदनाय गंतुम् ॥
स मान्यचरितः काचित् समा न्यक्कृतकल्मषः ।अत्ययेऽवहदत्यर्थम् अत्यविंदुर्महायशाः ॥
ग्रामे व्याससमुद्रनामनि ततस्तेन प्रतिष्ठापितेतेनाखानि यतीश्वरेण भुवनश्लाध्यस्तटाको महान् ।निद्रातुं स जुगुप्सितेन मुनिना पीतोऽपि तत्सागरोदैत्यारेरपरांबुराशिरिव यश्शुद्धांबुरुत्पादितः ॥
दिग्वेतण्डप्रकाण्डस्थपुटकटयुगक्षालिकाकेलिकृद्भिःकल्लोलानां कदंबै: कबलितधरणिं कांतपाथः कलापम् ।यं संवीक्ष्य प्रमोदाद् द्रुतमवतरतः पश्चिमांभोधिबुद्ध्यारोद्धुं सप्ताश्वसत्पीन् प्रतिदिनमरुणो यत्र भारं विधत्ते ॥
प्रौढाः स्त्रातुमुपागताः प्रियतमैस्सार्धं तरंगावलीवेगोत्कूलितबुद्बुदैर्मृगदृशो या या मुहुर्वंचिताः ।तास्ता व्रीलविनम्यमानमनसो फूत्कारबुद्धाच्छयतीरे पश्चिमशुक्तिगर्भगलितान् मुक्तामणीन् गृह्णते ॥
यत्तीरवासनिरतैर्यतिनां समूहैर्व्याख्यायमानमुपकण्ठतरुप्रतिष्ठाः ।न्यायामृतप्रभृतिषु प्रचुरं प्रमेयमुच्चारयंति शुकमाणवकाश्श्रुतेषु ॥
आनन्दमंतेवसतां वितन्वन् तरंगबाहाधृतशंखचक्रः ।मध्वागमाख्यागमपारगंता यो व्यासयोगींद्रमिवानुयाति ॥
किं बहुना ।
त्वंगत्तरंगावलिघोषिताशैरंभोभिराच्छादितसार्वभौमाः 1यस्याभ्रनिष्यंदिसमानभासः करा इवाभांति चतुस्समुद्राः ॥
तत्रांतरे स खलु कृष्णनृपोऽनुजस्यनाम्नाऽच्युतस्य नलभोजपराक्रमस्य ।हस्ते महीभरणशासनलक्षणस्यमस्ते मणिस्तबकितं मकुटं न्यधत्त ॥
तस्मिन् जलनिधिवेलावधिं वसुमतीवलयं लीलया छत्र सति केयूरस्य निरपायचतुरुपाये श्रीमदच्युतदेवराये ।
कृष्णभूमिपतिरायुषोऽवधौ व्यासतापसमणिं स सूक्ष्मधीः ।स्वर्गमार्गसुखसंप्रवृत्तये चेटिकामिव जिघृक्षुरागमत् ॥
तत्र स महीपतिर्भगवंतं यतिमघवंतं नमस्कृत्य विदांवरपरलोकपथा धिरोहिणीमिव तस्य महतीमाशिषमादरेणादाय प्रयाणे लीलाविषयीकृत-
नन्दनस्य देवकीनन्दनस्य पुनरपि स्मारयन्नंबरौक: कदंबानि बहुजन्मसुकृतेन वासववास्तव्यभावमभजत । तदनु तदनुजस्समग्रगुणग्राममौक्तिकमणिगणताम्रपर्णीसैकतायितचेतोऽवकाशश्शुभदिनरणमुखाभिमुखावनीपकविमतावनीपकदंबकनिरवधिविधीयमानदानद्वयी लीलाभिप्रहरीकीलालप्रवाहप्रणीततरंगिणीसहस्रस्वयंग्रहोत्सवसुखभवानुभवचतुरचतुरकृपालवाचालवीचीसूचितनिजभूमिसीमाजलधरलक्षितटिद्घटानि राघाटक्रीडनाडंबरक्षेमंकरमेघंकरसमयस्संततसंतमसनिरंतरसंक्रांतचक्रवालशैलोच्चयपश्चार्धकटकतटपरिसरकासारचिरकालशयालुकैरवकाशायसौखमयबिकाम्यमानयशश्शशिप्रकाशमविष्कृतोपायचतुष्कप्रवणितशुष्कमदतुरुष्कलुष्कराजकचूडापरिष्कारमणिनिष्क्रांतरोचिष्कलापपुष्करित-चरणपुष्करोधरायुवतीश्वरोमताचारमहीवरोधपारायणपरावनीशपराभावुकपरकामनिराश्रयमाणभगीरथपतिरथनहुषांबरीषमरुत्तनयपरीक्षिदुन्मुखमहिलेदुरंतशातकुंभस्तंभसौभाग्यगभीरिमकुंभलिकायमानभुजाशिखरमंजुलपंजरनिवासगलत्सर्वंसहाशारिको नलिनासनललनाहंसिकासंसेव्यमानवदनकोकनदस्वच्छंदनिष्यंदमानफणितिरसपारणलोलुपकविलोकलोलंबपृथुलभुजबलावलेपसंदीप्तिपूर्वदेवनंदीकरणकांदिशीकपुंरदरपारायणनारायणचरणस्मरणांकूरणपंतूपकरणपकोन्मेष श्रीमदच्युतदेवनृपतिरधिकाधिकां सीमानं नाशितारिरासीमांतमवन्तिदेशमशासीत ।
संखेसंखेलभाजः प्रतिभटपरभूपालकोटीरकोटीवल्गत्खड्गा ... गान्विनोरंचितमय ... त्यक्तां वैर्जातभंगैर्विपुलभुजबलैर्वैरिभिस्ते तु शस्त्रैस्सताधिर्मे पितृमृत्युरिव यंत्रासांत्वानो ... कृपाण्या दोर्वल्लीपदमरणसंप्रतिभटक्ष्माभृत्कीर्तिश्रीराशि बहुलक्षणदयासंपन्नक्षोणीं द्रान् समितिशतधाखंडितभूपयोधिभिः पुनरपि संयोजयति यः ।
संग्रामवर्षसमये ... मदीयो वर्षानसृग्बिंदुवलारिकोपान् ।तत्रापि विद्युत्प्रसरे ... पांतं करवालमेघः ॥
शत्रूणां शरणं रणावनिषु यः पाणौ कृपाणौजसाश्रान्तानां निजहस्ततोऽस्तधनुषां धिक्कोटिघाटि ।शैलानां विवराणि वारुरु घटगण्यान्यरण्यानि वासिंधूनां सलिलानि वा तृणमणिप्राग्रासकर्माणि वा ॥
तेन राजाधिराजपरमेश्वरेण नरसनरपाल ... परमभागवतविनयवितरणपराक्रमादिभिर्गुणैः पूर्वातिशयालुराश्रीमदच्युतमहाराजेन स भगवान् व्यासतपोनिधिर्विस्रंभजनकमहापूजनविशेषं कंचन कालं पर्यपूज्यत। ततः कदाचन तत्र भगवतो व्यासतापसस्य चित्तानुवर्तकःप्रियतमशिष्ययूथनाथो दुस्तर ... राशिनाचिकायमान शेमुषीविशेषो द्राधिषु वादगोष्ठीपराजित परानुष्ठितचर्वणविधिपरिणकिरणमणिस्फुटित च ... लसुधाद्रवालेपायितवितरणयशःप्रकाशस्वयंवरपतिस्सुधानताया विहारभूमिर्विनयस्येव जननोवेदस्य भारत ... परिज्ञानस्य सहचर ... स्साहित्यलक्ष्म्याः शाणोपलस्समाधिरत्नस्य वंशकांडो माधवभक्तिमुक्ताया: निर्व्याजपरोपकारपारायणः नारायणयतिः क्षीरकल्लोलितकल्लोलमल्लं मल्लपरंपराक्षालिकाकेलिलालितोपशल्येकगिरिशेखरमुररिपुमुखकमलवपापरिमलगर्वललितैरसहायसहकारमूलवासरसिकवलयांकपद ... रुहारविरहमाणसुरसरिद्रुमनिशिकरनिर्वर्तितहाराभरणप्रयोजनैः काञ्चीपुरगंधवहस्तनंधयैरपजितोपवनतरुमण्डलैर्मण्डितजनपदमण्डने सकलागमकलाव्यापृतिकुशलकोविदकलानिराकृतद्रुहिणपुरंदराहं कारे श्रीमति गोविंदतीर्थपुरनामनिर्मिताग्रहारे वास्तव्यकुटुम्बिने महोत्सेधवत्सकुलवेतण्डघंटामये सोमनाथकवये शिष्यमुखेन प्रविलसदावर्तमिव करुणापय: प्रवाहस्य, कनकताटंकमिव क्षेमाधिदेवतायाः, परिपूजनीयमाशी : पत्रं प्राहिणोत् । ... अथ विविधमहाराजलोक विशेषपूजनप्रकटितपाण्डित्यमहिमभार एव नानादेशसंचरमाणान्निवृत्तमात्रो महामणिमण्टपमध्यभागाधिरूढः परिसरवर्तिनो बहुश्रुत्य परिणतरसिकभावभाज: कोविदकुंजरान् स्वेन कृतं नाटकप्रकरणं श्रावयन् स सोमनाथकविरपि शुभंयौ दिने तेन महापुरुषेण गुरुशिष्येण प्रतिपादितं तदाशी : पत्रं सबहुमानमादाय स्वयमेव वाचयन् वाचयित्वा कदाचन विदग्धैः नानादेशादागतैर्व्याकरणनैपुणीसमुद्वहीकृतफणिनायकाचार्यैर्विविधालंकारपद्धतिमर्मज्ञताभारवैवधिकैश्शिष्यैर्विद्वद्भिः परितस्समुपास्यमानस्य तत्रभवतः स्वामिनस्सन्निधौ प्रासंगिकेन पथा, सति गणने वः कविकेसरिणां विशेषेण भगवत: श्रवणसरणिमवतारिताऽभूत्तावकीना वैदग्धी । तस्मादालोकनेनामिघलक्षतक्षतस्वामिनश्चरणकमलं स्वेन
शिष्येणाथ गुरोश्च मन्त्रमहता देदीप्यमानस्सदातेनाशु प्रसरद्गभीरफणिति श्रीसोमनाथः कविः ।काले कन्दलदीप्रसालकलिकाजाले शुभंयौ दिनेवीथीवेल्लिततुंगकेतनलतां विद्यापुरीं प्राविशत् ॥
तत्र सपरिच्छेदैः कतिपयैरनुगम्यमानः संगजसार्वलौकिककीर्तिकेतककलिकाप्रवर्तितानपायप्रावृषेण्यसंपदवतारस्वप्नसमयप्रकटितसमग्रसन्निधानप्रसादवेदः प्रधानावरोधविश्राणितमणिकेयूरभूषणधारणसमेधमानचतुर्विधकवितावनिताखण्डपाण्डितीशाश्वतशिबिकाधिरूढः प्रतिभटटंकपाटनपुटत ... दुर्वादवावदूकतावीरुधुपघ्नीकृतधिषणाहंकारो नैसर्गिकानन्यसुलभसौजन्यसंवहनगुलिकासमार्जितहृदयासकसुवांति लोकलालितचरितसोमनाथकविसुधाधिदेवताशिरः कम्पनसंपादन कार्मठीधुरीणमाधुरीतिलकितफणितिभिरवतंसितरसनांचलाभ्यां स्वप्रतिबिंबाभ्यामिव शुभगुणाभिजाताभ्यां कविभ्यां साकं प्रश्रयेण नमस्कृतः पूर्वं तन्नारायणयोगिपुंगवं पुरोधाय व्यासतपोधनस्य विश्वपावनं मठद्वारमुपा सीदत् । तावत्स नारायणयतिः प्रथमतः प्रविश्य तस्मै भगवते व्यासतापसाय सविनयं व्यजिज्ञपत् । स्वामिन् भगवदनुकम्पनीयशिष्य-कुलावतंसश्चतुरशीतिलेखनिनिरंतरविलेखनक्रियाक्षममुज्जृंभणवाग्गुंभनवैभवस्य तादृशस्सोमनाथकविर्भवदीयचरणसरसीरुहसिषेविषया समागतां तेवसतः न्ययुंजं तत्सेवायै भगवत्पदोदवसदोविद्वन् कवीन्द्रयतिनां मन्तेवसता निवेदितवता स्नेहात्पुरस्कृत्य आनीतः प्रथमं विलोक्य चरणौ व्यासस्य योगीशितुर्दृष्टः स्वां सफलां व्यधत्त युगलीं श्रीसोमनाथः कविः। यदीयाबिरुदावलिरेवं भुवि जागर्ति। जगति परिभ्रमंति ये लीढालीढव्याकरणैकदेशाकाशलेशावलोकनमात्रादुपजायमानया विकचधिषणया विद्रामवविद्राव्यवहारव्यापारेण समविततचिंतासतापं नृत्तचित्तौ बहुदिवससमाहितैः कतिपयपदैर्गद्यं वा पद्यमपरिसमाप्तमारचय्य बहुप्रबंधकर्तारवाश्रुप्रसरेण पामरान् भ्रामयंतं रीतिवृद्धाभ्रमातं दधाना विलसितप्रतिभां सभां विदुषां प्रविश्य साहसादायपाकैश्शोकैर्मुखरमुखद्राकुश्लाघयद्भिरिव शिरः कम्पेन परंपरमिंगितज्ञैरधिकैः पाणिनीयैविडंबमानास्तु शब्दनवमालिकाकवयः-
तेषामसौराजयतिप्रतीतश्श्रीसोमनाथः कविलोकनाथैः ।देव्या गिरा जन्मदिनं यदीयं विधातुरासीद्विरहैकहेतुः ॥
इति यत्पितामहस्य सकलभूतलप्रतीतसप्तविंशतिनाटकप्रकरणप्रबंधमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्राड्विवाकस्य समनुष्ठितसदाचारसंप्राणितसकल स्मृतिवचनाभिधेयस्य यज्ववरभास्करपौत्रस्य देवराजसोमपीथिकुमारस्य भट्टगयामूर्तिभास्करस्य जगद्विजयपद्य मिदमेव सूचयते-
ग्रामान् बुक्कमहीपतेरपि गयामुक्तं सुरत्राणतःकुप्यं गौडपतेर्गजान् गजपतेर्वकेश्वराद्वाजिनः ।रत्नच्छत्रकलां च चामरवतीमांदोलिकां कांचनींलब्ध्वा रायविभाटतो हरिहरान् किं भास्करो वांछति ॥
यज्जननी पितामहः कालमेघाध्वरिपुत्रं निर्विद्यतादूयमानतातचरणमनः प्रमोदविषयद्वात्रिंशद्वर्षदेशीयोऽपि मानवतामग्रेसरो विविक्तसौधतल धूल्यक्षरपरिचयादारभ्य सद्य एव सर्वश्रुतिसागरपारदृश्वत्वमादिश्यपृथग्विधसप्ततंतुक्रियाप्रबंधपरितर्पितैरमरगणैः अगणेधिकृतेनाखण्डश्चन्द्रमसाराकाश्चकरनिशिदिनिन्मिकलाः । तादृशस्स कविवराभ्यामवरजाभ्यामलंकृतपार्श्वभागमुपसृत्य सरभसं नवचित्रकंबलशेखरितशिखरभागे महास्थानमंटपमणिवेदितले निषेदिवान् स्वकर्तृकाणि शास्त्रप्रमेयजालानि समंतादुपन्यसद्भिः शिष्यवद्भिर्वालखिल्यैर्वासराधिकमिव वर्धयतोपकंठं शुचिमतिर्धनवीरतुंदिभेन कुरुविंदमणिकन्दलसंदानितेन तीर्थनारायणेन वदनरामणीयकपरीक्षिततया सेवितुं ससंभ्रमवात्सल्यः मकरन्दपूरितेन नलिनेनेव देदीप्यमानपार्श्वप्रदेशः प्ररोहितानुरागभारेणेव लोहितेन समागतेन सरस्वतीसरित्तरङ्गेणेव कोमलेन काषायवसनखण्डे समालिङ्गितवपुषं विकासविशेषप्रकाशितेन निरतिशयकरुणाप्रसादेन विलोचनेन महांतं वात्सल्यभारममर्यादयंतं भगवंतं व्यासयतिकेसरिणं शतकृत्वश्चरणारविंदयोरमन्दभक्तिरसंदिष्ट । वृद्धाय निजनिदेशाम्रेडनवशेन विहितासनोपवेशं तं कवींद्रं स भगवान् मधुरहसितकिरणकिशोरांकुरतरलिताननया वाचा कुशलमप्राक्षीत् । अये, मेदुरसरसकविताकुटुंबिन् वत्स सोमनाथकवे कारुण्येन कमलासहायस्य वर्धसे किमव्याहतेन मङ्गलेन । इत्थंकारमादरपुरस्सरेण क्षेमानुयोगेन कृत ... तजसेनलाभस्स कविः स्वामिन्भगवतः कटाक्षवीक्षणघटीयंत्रप्रवहितकरु णासलिलधारासेकानुबंधकिसलयितक्षेमारामसीमस्य जनसर्विधभूसंचारगोपि कथंकारं स्मृतिकल्याणेतरकर्णि इति विज्ञाप्य तद्विषयकमिदं पद्यमुदाहरत् ।
वादनिपुणैर्मन्दानिलराजिक्षौमनिर्मितसुधायितकीर्ते ।हासभूतसकलहितविद्वन् व्यासतापसमणे विजयस्व ॥
आकर्ण्य हर्षमाणेन तेन भगवता श्लाघाशिरः कम्पनैरनितरसुलभैरुपलालितस्स कविः प्रत्यहं प्रदर्शितेषु बहुविधकलावधानपाण्डित्येषु प्रतिपादितैः पारितोषिकविशेषैर्बहुमान्यमानस्तत्रैव वासराणि कतिचिदवात्सीत्। अथ जातुच्चित्रैस्सुरभिलमण्डले गगनपथचंक्रमणलीलया पञ्चषानपनीतघटिकाविभागानखिलमेषसंविधिमशेष इति महतीमा ख्यानिकाममधिरूढस्यागणनीयानुभवैर्योगिभिरंतेवसद्भिस्सनकादिभिस्सरसिजासनस्येव संसेव्यमानस्य नानादिगंतरादुपजिहीर्षया समानीतैरपरवसुमतीपतिभिः प्रणामक्रियाप्रवणितकनकमौलिशिखरमौक्तिकनिकरनिर्विशेषितचरणनखमणिलेखकनकरसपारावारयशोभिरालंकारिकैश्च वाणीनिराकृतपतंजलिप्रायैः पाणिनीयैश्च विवादविनोदवशंवदताचण्डिमकण्डूलजिह्वाप्रह्लीकारमात्रशिक्षितविपक्षपक्षयातिकैर्नैयायिकैश्च निरंतरसप्ततंतुंक्रियासंततिसंततसन्निधापितपुरुहूतपुरोगमसुरनिकरचिरविरहविधुरविबुधयुवतिजनविधूतकर्णावतंसकैश्च नवरसबंधुरबहुलप्रबंधप्रणेतृभावसहजपाण्डित्यैरकुण्ठमतिभिः कण्ठीरवैश्च बाहटवचनानुलोचनविवेचनेन धन्वंतरिज्ञानेयभाग्भिः षभिश्च करबदरायमाण कालत्रितयविज्ञानावज्ञातसुरासुरगुरुमनीषाविशेषैः ज्यौतिषिकैश्च संमुखीक्रियमाणचरणमणिपीठस्य भगवतो व्यासतपोनिधेस्समक्षं तत्कटाक्षवीक्षाप्रसादसूचितानुमतिस्स सोमनाथकविः अनतिसमीपवर्तिनौ परस्परोपमेयसुषुमाकारावतिमधुरशालीनवाग्भिः परतंत्रितसामाजिकश्रवणपुटौ कंबुकण्ठकलकण्ठनामानौ पाठकौ तदीयपावनचरितकोरकितं सकलविबुधगणश्रवणाभरणं निरुदाहरणमुदाहरणमपाठयत् । तदा तदाकर्ण्य भगवान् संमोदवशंवदहदयश्लाघमानानां सर्वेषामपि तेषां सभास्ताराणां ततः कदाचन क्षीरकल्लोलिनीकल्लोलमल्लपरंपरालिक्षालिकाकेलि विलासकलितोपशल्यकरिगिरिमुररिपुमुखकमलवफापरिमलपारणगर्वदुर्ललितैः असहायसहकारमूलवासरसिकैः कव कपर्दिकुहरविहरमाणसुरसरिदूर्मिशीकरारववीचीनि-र्वर्तितहाराभरणप्रयोजनैः कांचीपुरगंधवाहस्तनंधयैरुपजीवितोपवनमण्डले तुण्डीरजनपदमण्डने सकलागमकलापव्याकृतिकुशलकोविदनिराकृतद्रुहिणपुरंदराहंकारे श्रीमति गोविंदतीर्थपुरनामनिर्मिताग्रहारे महावास्तव्य कुटुंबवत्सकुलवेतण्डघण्टामणिस्वप्नसमयप्रकटितसमग्रसन्निधानप्रसादवेधोंतःपूरिकाविश्राणितमणिकेयूरभूषणधारणसमेधमानचतुर्विधकविताविलासस्स सोमनाथकविस्तस्य भगवतो व्यासयोगीश्वरस्य विश्वपावनमठाश्रमद्वारमुपासीदत् । यत्पिता सकलभुवनप्रतीतसप्तविंशतिनाटकप्रबंधभावमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्रावि वाकस्य सदाचारसंप्राणित सकलस्मृतिवचनाभिधेयस्य यज्वरवरभास्क रस्य पौत्रस्य देवराजसोमपीथिकुमारस्य भट्टरायमुक्तिभास्करस्य दिग्विजयपद्यमिदं ग्रामानिति पिताजननीपितामहः कालमेघाध्वरिपुत्रनिविद्यतादूयमान तातचरणमनः प्रमुमोदयिषया त्रिंशद्वर्षदेशीयः अजनि ।
सोऽयं चक्रे व्यासयोगीशसूक्तिंतेनाकांक्षं तल्पजल्पं पठन्तु ।लीलाम्बोधौ नीरधौ गन्धलालांपातुं धीरा लालसा किं भवन्ति ? ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते षष्ठोल्लासः ॥
॥ श्रीपतये नमः ॥