श्रीवेंकटेशसुप्रभातम्

कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २ ॥
मातस्समस्तजगतां मधुकैटभारेःवक्षोविहारिणि मनोहरदिव्यरूपे ।श्रीस्वामिनि श्रितजनप्रियदानशीलेश्रीवेंकटेशदयिते तव सुप्रभातम् ॥ ३ ॥
तव सुप्रभातमरविन्दलोचनेभवतु प्रसन्नमुखचन्द्रमण्डले ।विधिशंकरेन्द्रवनिताभिरर्चितेवृषशैलनाथदयिते दयानिधे ॥ ४ ॥
अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्याम्आकाशसिन्धुकमलानि मनोहराणि ।आदाय पादयुगमर्चयितुं प्रपन्नाःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५ ॥
पञ्चाननाब्जभवषण्मुखवासवाद्याःत्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।भाषापतिः पठति वासरशुद्धिमारात्शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६ ॥
ईषत्प्रफुल्लसरसीरुहनारिकेल-पूगद्रुमादिसुमनोहरपालिकानाम् ।आवाति मन्दमनिलस्सह दिव्यगन्धैःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७ ॥
उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाःपात्रावशिष्टकदलीफलपायसानि ।भुक्त्वा सलीलमथ केलिशुकाः पठन्तिशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८ ॥
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्यागायत्यनन्तचरितं तव नारदोऽपि ।भाषासमग्रमसकृत्करचाररम्यंशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९ ॥
भृङ्गावली च मकरन्दरसानुविद्ध-झंकारगीतनिनदैस्सह सेवनाय ।निर्यात्युपान्तसरसीकमलोदरेभ्यःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १० ॥
योषागणेन वरदध्नि विमथ्यमानेघोपालयेषु दधिमन्थनतीव्रघोषाः ।रोषात्कलिं विदधते ककुभश्च कुम्भाःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११ ॥
पद्मेशमित्रशतपत्रगतालिवर्गाःहर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।भेरीनिनादमिव बिभ्रति तीव्रनादंशेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२ ॥
श्रीमन्नभीष्टवरदाखिललोकबन्धोश्रीश्रीनिवास जगदेकदयैकसिन्धो ।श्रीदेवतागृहभुजान्तरदिव्यमूर्तेश्री वेंकटाचलपते तव सुप्रभातम् ॥ १३ ॥
श्रीस्वामिपुष्करणिकाप्लवनिर्मलाङ्गाःश्रेयोर्थिनो हरविरिञ्चसनन्दनाद्याः ।द्वारे वसन्ति वरवेलहतोत्तमाङ्गाःश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १४ ॥
श्रीशेषशैलगरुडाचलवेंकटाद्रि-नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।आख्यां त्वदीयवसतेरनिशं वदन्तिश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १५ ॥
सेवापराश्शिवसुरेशकृशानुधर्म-रक्षोम्बुनाथपवमानधनाधिनाथाः ।बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाःश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १६ ॥
धाटीषु ते विहगराजमृगाधिराज-नागाधिराजगजराजहयाधिराजाः ।स्वस्वाधिकारमहिमादिकमर्थयन्तेश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १७ ॥
सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।त्वद्दासदासचरमावधिदासदासाःश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १८ ॥
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाःस्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।कल्पागमाकलनयाऽऽकुलतां लभन्तेश्रीवेंकटाचलपते तव सुप्रभातम् ॥ १९ ॥
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाःस्वर्गापवर्गपदवीं परमां श्रयन्तः ।मर्त्या मनुष्यभुवने मतिमाश्रयन्तेश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २० ॥
श्रीभूमिनायकदयादिगुणामृताब्धेदेवाधिदेव जगदेकशरण्यमूर्ते ।श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रेश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २१ ॥
श्रीपद्मनाभ पुरुषोत्तम वासुदेववैकुण्ठ माधव जनार्दन चक्रपाणे ।श्रीवत्सचिह्न शरणागतपारिजातश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २२ ॥
कन्दर्पदर्पहरसुन्दरदिव्यमूर्तेकान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।कल्याणनिर्मलगुणाकरदिव्यकीर्तेश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २३ ॥
मीनाकृते कमठ कोल नृसिंह वर्णिन्स्वामिन् परश्वथतपोधन रामचन्द्र ।शेषांशराम यदुनन्दन कल्किरूपश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २४ ॥
एलालवङ्गघनसारसुगन्धतीर्थंदिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।धृत्वाऽद्य वैदिकशिखामणः प्रहृष्टाःतिष्ठन्ति वेंकटपते तव सुप्रभातम् ॥ २५ ॥
भास्वानुदेति विकचानि सरोरुहाणिसंपूरयन्ति निनदैः ककुभो विहङ्गाः ।श्रीवैष्णवास्सततमर्थितमङ्गलास्तेधामाश्रयन्ति तव वेंकट सुप्रभातम् ॥ २६ ॥
ब्रह्मादयस्सुरवरास्समहर्षयस्तेसन्तस्सनन्दनमुखास्तव योगिवर्याः ।धामान्तिके तव हि मङ्गलवस्तुहस्ताःश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २७ ॥
लक्ष्मीनिवास निरवद्यगुणैकसिन्धोसंसारसागरसमुत्तरणैकसेतो ।वेदान्तवेद्यनिजवैभव भक्तभोग्यश्रीवेंकटाचलपते तव सुप्रभातम् ॥ २८ ॥
इत्थं वृषाचलपतेरिह सुप्रभातंये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।तेषां प्रभातसमये स्मृतिरङ्गभाजांप्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९ ॥
॥ इति श्रीवेंकटेशसुप्रभातम् ॥

Settings