श्रीवराहाष्टकम्

Click Settings to choose another script or language.
कमलायतनेत्राय कमलायतनोरसे ।वराहवपुषे दैत्यवराहवपुषे नमः ॥ १ ॥
वामांसभूषायितविश्वधात्री-वामस्तनन्यस्तकरारविन्दः ।जिघ्रन् मुखेनापि कपोलमेनांजीवातुरस्माकगुरोः स जीयात् ॥ २ ॥
वेदिस्तनूराहवनीयमास्यंबर्हींषि लोमानि जुहूश्च नासा ।शम्या च दंष्ट्राजनि यस्य यूपोवालो मखात्मा स पुनातु पोत्री ॥ ३ ॥
पापेन दैन्येन भवाम्बुराशौनिपातितं मां निरवग्रहोर्मौ ।धूतारिरुद्धृत्य धरामिवोच्चैःकुर्यान्मुदं मे कुहनावराहः ॥ ४ ॥
वेशन्तति व्रतजुषां हृदयं मुनीनांवेगापगाविहृतिकाननचङ्क्रमाणाम् ।मुस्तागणन्ति किल यस्य सुरारिवर्गाःकोलः स कोऽपि कुशलं कुरुतादजस्रम् ॥ ५ ॥
कल्याणमङ्कुरति यस्य कटाक्षलेशा-द्यस्य प्रिया वसुमती सवनं यदङ्गम् ।अस्मद्गुरोः कुलधनं चरणौ यदीयौभूयः शुभं दिशतु भूमिवराह एषः ॥ ६ ॥
कल्पान्तसन्ततघनाघननिर्विघात-निर्घातवातरवनिष्ठुरतारधीरम् ।मायाकिटेर्बधिरितद्रुहिणश्रवस्कंघोणापुटीघुरघुरारसितं पुनातु ॥ ७ ॥
झटिति विलुठदूर्मीचाटुवाचाटसिन्धु-स्फुटपटहविदस्रस्फेाटदीप्तोटमुद्यम् ।खरखुरपुटघाताधूतखाटारिवाटःकपटकिटिरघौघाटोपमुच्चाटयेन्नः ॥ ८ ॥
यत्कारिकादर्पणाख्यकृतिनावा भवाम्बुधिम् ।सन्तस्तरन्ति वरदगुरवे श्रीमते नमः ॥ ९ ॥
॥ इति श्रीवराहाष्टकं सम्पूर्णम् ॥