श्रीवानाद्रिनाथदयितास्तोत्रम्

Click Settings to choose another script or language.
मातः समस्तजगतां वनशैलनाथ-वक्षोविहारिणि मनोहरदिव्यवक्त्रे ।श्रीभूषणैर्मणिमयैः शुभदिव्यगात्रेत्वत्पादपङ्कजयुगं शरणं प्रपद्ये ॥ १ ॥
श्रीमद्वनाद्रितटगस्य सुसुन्दरस्यदोर्दण्डषण्डसुविहारिणि सिन्धुकन्ये ।त्वद्वीक्षणैर्विलसितः स्तिमितैः शुभैश्चलक्ष्मि त्वमेव परिपालय दुर्बलं माम् ॥ २ ॥
दयानिधे कोमलदिव्यगात्रेशुचिस्मिते निर्मलचन्द्रवक्त्रे ।सरोजकान्तायतलोचने त्वंममाधिकन्ये सुसुखं प्रदेहि ॥ ३ ॥
पिता च माता च गुरुश्च बन्धुःत्वमेव सर्वं मम सिन्धुकन्ये ।पदारविन्दे शरणं गतं मांततस्तु ते पालय लोकमातः ॥ ४ ॥
मणिसङ्घभूषणगणैरलङ्कृतेगणनाविहीनसुगुणैर्विभूषिते ।अपि मां सुधाब्धितनये शुचिस्मितेगुणहीनकं च परिपालयेन्दिरे ॥ ५ ॥
वनशैलनाथदयिते दयानिधेभुवनाधिपेश्वरि शुचिस्मितानने ।नलिनायताक्षि नमतां सुखप्रदेतव पादपङ्कजयुगं भजे सदा ॥ ६ ॥
वृषाचलेशस्य सुसुन्दरस्यभुजान्तरारामयथेच्छलीले ।गुणेन रूपेण विलासितैस्त्वंरमे सदानन्दयसे मुकुन्दम् ॥ ७ ॥
मुकुन्दवक्षःस्थलदिव्यलीला-विलासितैस्त्वं वनशैलराजम् ।त्वदङ्गसौन्दर्यसदाविमुग्धंहरिप्रिये नन्दयसे त्वदीशम् ॥ ८ ॥
सर्वाङ्गसुन्दरहरिस्तव दिव्यागात्र-सौन्दर्यमज्जितहृदस्तमितान्यभावः ।त्वां वीक्षते सततमब्धिसुते सुशीलेसौन्दर्यवल्लि कमले परिपाहि मां त्वम् ॥ ९ ॥
सौन्दर्यवल्लि कमले सकलैकमातःसर्वाङ्गसुन्दरमनोहरदिव्यरूपे ।पद्मे मनोज्ञवदने सुभगे सुशीलेत्वत्पादपङ्कजयुगं शरणं गतोऽस्मि ॥ १० ॥
वितर वितर भद्रं सम्पदं भक्तिरूपा-मिह च मम परत्र श्रीपतौ भाष्यकारे ।वरवरमुनिवर्ये त्वत्पदाम्भोजयुग्मेमम तु जलधिकन्ये निश्चलां लोकमातः ॥ ११ ॥
कलशजलधिकन्ये लोकमातः सुशीलेस्मितविलसितवक्त्रे कल्पवल्लि श्रितानाम् ।दिवि भुवि वनशैलक्ष्मापतेर्वल्लभे श्रीःमम तु तव पदाब्जे निश्चला भक्तिरस्तु ॥ १२ ॥
दिवि भुवि मम पद्मे सम्पदं भक्तिरूपांवितर तव पदाब्जे सुन्दरश्रीपदाब्जे ।शठरिपुपदपद्मे भाष्यकारे यतीन्द्रेवरवरमुनिवर्ये लक्ष्मि कल्याणशीले ॥ १३ ॥
कल्याणशीले रमणीयगात्रेलावण्यसौन्दर्यनिधे मनोज्ञे ।कल्याणदे कल्पलते श्रितानांपद्मे प्रयच्छ प्रियमब्धिकन्ये ॥ १४ ॥
प्रियमिह मम पद्मे संप्रयच्छ प्रयच्छतव तु चरणपद्मे संस्मरामि स्मरामि ।गतिरिह मम नास्ति त्वत्पदाम्भोजयुग्मा-दशरणमतिदीनं पाहि मां सिन्धुकन्ये ॥ १५ ॥
शरणमिह परत्र त्वत्पदाम्भोजयुग्मंमम वनगिरिराजः पादकैङ्कर्यलक्ष्म्याः ।सपदि किल ततस्त्वं लक्ष्मि पद्मायताक्षिसकलभुवनमातः पाहि मां सिन्धुकन्ये ॥ १६ ॥
नमो लोकमातो न माता विना त्वांरमे सिन्धुकन्ये सरोजायताक्षि ।ततस्त्वं सुशीले प्रसीद प्रसीदप्रियं विष्णुकान्ते प्रयच्छ प्रयच्छ ॥ १७ ॥
कृतान्मे सुशीले तनुस्वान्तवाग्भिःसमस्तापचारान् ममाम्ब क्षमस्व ।वनाद्रीश्वरि त्वं पयस्सिन्धुकन्येसरोजाक्षि पद्मे प्रसन्नाब्जवक्त्रे ॥ १८ ॥
न माता पिता वा विना त्वां सुशीलेन नाथः प्रियो वा विना सुन्दरेशम् ।कलानाथवक्त्रे कटाक्षैस्ततस्त्वंसुधासिन्धुकन्ये रमे रक्ष मां त्वम् ॥ १९ ॥
श्रियै सुन्दरराजस्य महिष्यै नित्यमङ्गलम् ।माणिक्यभूषणोद्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २० ॥
॥ इति श्रीवानाद्रिनाथदयितास्तोत्रं सम्पूर्णम् ॥