श्रीत्रिपुराप्रातर्भजनम्

Click Settings to choose another script or language.
प्रातः स्मरामि भजतामभयङ्करं तंपादारविन्दमतिसुन्दरमम्बिकायाः ।दुस्स्वप्नदोषहरणं करणं सुखानांसुस्वप्नबोधमखिलौघनिबर्हणञ्च ॥ १ ॥
प्रातःस्मरामि सकलार्थवरप्रदानंपादारविन्दमतिकोमलमम्बिकायाः ।इन्द्रादिदिक्पतिविरिञ्चमुकुन्दमौलि-रत्नांशुसूर्यकिरणानुविकासितं तत् ॥ २ ॥
प्रातः स्मरामि सुरधेनुपयोधराय-मानं चतुष्टयकराम्बुजमम्बिकायाः ।पुण्ड्रेक्षुचापमदनास्त्रभुजंगपाश-रत्नाङ्कुशोज्ज्वलितकङ्कणभूषणाढ्यम् ॥ ३॥
प्रातः स्मरामि पृथिवीजलवह्निवायु-व्योमादिरूपमखिलं च पदारविन्दम् ।यद्रेणुमाप्य कमलासनमाधवेशाःकुर्वन्ति विश्वहरणस्थितिसर्गकेलिम् ॥ ४ ॥
प्रातः स्मरामि मुखपङ्कजमन्दहासंमन्दस्मिताधरतिरस्कृतचन्द्रबिम्बम् ।याद्दश्यकेन फणिताखिलवेदशास्त्र-...कचक्ररथमंङ्गजयोधनस्य(?)॥ ५ ॥
यः श्लोकपञ्चकमिदं पठति प्रभातेधर्मादिदं परहितं कथितं हरेण ।तस्मै ददाति पदवीमणिमादिरूपांतृप्तातपोभिरचलां त्रिपुरा भवानी ॥ ६ ॥
॥ इति श्रीत्रिपुराप्रातर्भजनं सम्पूर्णम् ॥