श्रीरामकर्णामृतम्

Click Settings to choose another script or language.
दिशतु स कुशलं जिते दशास्येविधिविहितस्तुतिवेदितस्वरूपः ।उपदिशति शिवो नृणां यदीयंमनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १ ॥
विहितविधिमपास्यता निषिद्धा-न्यपि चरताप्यकृताक्षनिग्रहेण ।यदघमुपचितं मया यतिष्येरघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २ ॥
चिरपरिचितया मनो विकृष्टंदिशि दिशि वासनया न मे नियाम्यम् ।इति कवनपथे तवार्य रामस्मरणविधावनधे करोम्युपायान् ॥ ३ ॥
प्रकृतिरिति सरस्वतीति लक्ष्मी-रिति गिरिजेति जगत्त्रयीति वा याम् ।गदति मुनिगणः कवित्वसिद्ध्यैकथमपि तां कलये विदेहकन्याम् ॥ ४ ॥
मधुरभणितये पतिव्रनानांमकुटमणिं कलये महीकुमारीम् ।पतिकृतरिपुपातनप्रतिज्ञा-दलनभयादहितेऽप्यदत्तशापाम् ॥ ५ ॥
हृदय विषयमेव सेवसे किंयदयमुदग्रविषोपमः क्रमेण ।मदयति च निहन्ति च प्रकामंतदयनमेत्य गिरा भजस्व रामम् ॥ ६ ॥
रघुवरचरणारविन्दभक्ति-च्छलमकरन्दनिरन्तराभिषिक्ताः ।वकुलपरिमला गिरा मदीयाकविकुलकर्णरसायनानि सन्तु ॥ ७ ॥
भरतविदितपादुकाप्रभावंधरतनुजारमणीयनामधेयम् ।करतलधृतकार्मुकं पुमांसंमरतकनीलशरीरमाश्रयामः ॥ ८ ॥
निटिलनयननिर्वृतिप्रदाख्यंकुटिलनिशाचरकुम्भिनां मृगेन्द्रम् ।कटिलसदसिमम्बुदाभमेकंजटिलमुरीकृतचापबाणमीडे ॥ ९ ॥
निलयमखिलमङ्गलस्य रक्षो-बलयवसप्रबलानिलायितास्त्रम् ।कलयति हृदयं विदेहकन्या-वलयपदाङ्कितकन्धरं पुमांसम् ॥ १० ॥
विमोहयति विष्टपत्रयजनान् गुणारोपण-क्षणत्रुटितचण्डिकारमणचापचण्डध्वनौ।जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपंपरपस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११ ॥
करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधे-र्निबन्धनमपीन्धन... ...बन्धुतूणीशयम् ।न कश्चिदपि दृश्यते जगति यस्य शक्तो जयेस्मरप्रहितजानकीनयनपद्मबाणं विना ॥ १२ ॥
क एष दलदुत्पलद्युतिरुदारवेषोज्ज्वलःस्वयं विशति मे मनस्त्वरितमाः परिज्ञायते ।स एष ननु जानकीकुचतटीपटीरद्रव-प्रसक्तरसवासनाघुमुघुमायमानः प्रभुः ॥ १३ ॥
भजे शरधनुर्धरं विकटचित्रकूटाटवी-चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् ।स्फुटं कलितकुङ्कुमा वदति यस्य वक्षस्तटीमृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४ ॥
चिराय विधुरस्य मे विषयघर्मघोरातपैःपयोदनिचयोदयप्रतिनिधिः किलेयं दशा ।नराधमुषि राघवे यदधुना मनः प्रीयतेसमस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५ ॥
कटीघटितवल्कलं घनलसज्जटामण्डलंकरात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् ।तमालदलमेचकं धरणिकन्यकाकामुकंतरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६ ॥
अचोदितफुलक्रमं पुनरपृष्टजातिक्रियंनयानयविचारणाविधुरमस्तशङ्काकणम् ।उपेयुषि विभीषणे झटिति दत्तमस्याभयंमयेति समुदीरिता भगवतो गिरः पातु नः ॥ १७ ॥
कल्हाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृतेकूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे ।पश्यान्वेति शुकं शुकीति चिबुके गृह्णन् करेण प्रियांचित्ते भाति हि कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८ ॥
कूजत्केकिनि चित्रकूटकटके गोदावरीमेदुरेप्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले ।कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरोनीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९ ॥
त्रस्तप्रस्थितहंसयूथमभितो नृत्यन्मयूरव्रजंवल्मीकान्तरसंप्रविष्टभुजगं पङ्क्तीभवच्चातकम् ।पुष्प्यन्नीपसिलीन्ध्रकेतकजनस्थानाटवीमेयुषाकालिम्ना मम केनचित् कवचितं चेतो विराधद्विषः ॥ २० ॥
संरम्भस्खलितोत्तरीयमवनिन्यस्ताम्रपादाम्बुजा-वुद्यम्य श्लथनीवि पुष्पनिचयं संगृह्णतीं जानकीम् ।पश्यन् पञ्चवटीवने मुहुरपि प्रच्छन्न एवान्तिकेहस्तोपात्तधनुश्शरः स्फुरति मे चित्ते रघुग्रामणीः ॥ २१ ॥
निर्वृत्ते खरदूषणत्रिशिरसामुन्मूलनादाहवेवैदेही परिषस्वजे सपदि यं मूर्ता जयश्रीरिव ।उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजेतस्मिन् सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२ ॥
पायात् पर्णकुटीगतो घनघटासिक्तावनीसौरभ-घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले ।केकाकण्ठशिखण्डिताण्डवपदे खेलत्पुरोमारुतेनन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३ ॥
अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित-ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् ।दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरेकन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४ ॥
चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुरंचञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् ।कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतंकौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५ ॥
दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहेगुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी ।दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलंपश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६ ॥
उन्मीलन्नवमञ्जरीपरिमलोदञ्चद्विरेफारवै-रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले ।शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला-ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७ ॥
सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकंहर्षावेक्षिविहारबर्ह्यपसृताभ्यर्णं घटोधन्या गवा ।स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणंसाकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८ ॥
पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये विभ्रतींवामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् ।पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनयामन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९ ॥
शैलान्मत्तोऽवतरति करिर्ज्यास्वनैर्वारय त्वंसौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् ।तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्ग्यागाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ । ३० ॥
हंसी मन्दं चरति हरिणी वीक्षते लोललोलंरम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ ।इत्याश्चर्याद्वभुवि वधूं दर्शयन्तीं यदि त्वांपश्याम्येतैरलमिति वदन् पातु नः कौसलेयः ॥ ३१ ॥
देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतंकारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव ।किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतःस्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२ ॥
खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कलेनीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे ।सीतां पुष्पसमित्कुशं हृतवतीं संभावयन्तं दृशाबद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३ ॥
संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिःसंक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् ।मृष्टा नेह मनश्शिलेति विसृतां रत्नाङ्गुलीयश्रियंवैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४ ॥
श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी-त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् ।वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकंदिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५ ॥
दलितदनुजाटोपे चापाधिरोपितसायकेमरतकमणिच्छायादायाददायिमहोभरे ।प्रणतजनताप्राणत्राणप्रवीणपराक्रमेस्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६ ॥
अविदितनतक्लेशानीशानपास्य दिशामहोसह परिहरत् कालीकेलीसखं मुरलीभृता ।वनमृगपरीवारे वीरे वरेण्यधनुर्धरेकुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७ ॥
स्फटिकधवलान्मेघश्यामे गृहीतमृगानलात्धृतधनुरिषौ भूतेशानात् प्लवङ्गमसेविते ।मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कलेशिखरितनयानाथात् पृथ्वीसुतापरिणेतरि ॥ ३८ ॥
स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रतेलीलावेणुलसत्करात् त्रिभुवनत्राणाय चापस्पृशि ।चोराकृष्टवधूजनात् परिणतौ कीटादिमुक्तिप्रदेव्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३९ ॥
कश्चिद्बालो मृत्तिकां भक्षयित्वाकश्चिद्वृद्धश्चूतमूले लुठित्वा ।मां रक्षेच्चेन्मास्तु तद्यन्ममास्तेत्राता सीताकेलिलोलो युवैकः ॥ ४० ॥
अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणांअनुसरति मनो मे यावदाबद्धमेकम् ।अपहरति निरुन्धन्नन्तरा तावदेतत्कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१ ॥
क्षणचलितनिरूढस्वर्णदीकर्णभूषेपरिहृतमयकन्यापत्रलेखप्रसङ्गे ।विरचितसुरसुभ्रूविभ्रमप्रातिभाव्येकुतुकितमतिभव्ये क्वापि कालिम्नि चेतः ॥ ४२ ॥
कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ-स्तनजघननितम्बं पश्यदन्याङ्गनानाम् ।मलिनयति मनश्चेन्मन्मथस्तावता किंविमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३ ॥
नवकुवलयदामश्यामलः कोमलाङ्ग्याविरचितमधुरश्रीरेकया विद्युतेव ।जलधर इव काले जृम्भमाणो मयूरंकुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४ ॥
मनसि मम समिन्धे पुण्यभाजामवेक्ष्यःकपिसदसि मुनीनां चेतसास्वादनीयः ।जनकनृपतिकन्यासस्पृहालिङ्गनार्हःश्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५ ॥
कुवलयदलनीलः कोऽपि रक्षोवधूनांकुचगिरिषु निपातं वाष्पवृष्टेर्विधाता ।निखिलभुवनचेतोबर्हिनृत्तैकहेतुःशमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६ ॥
निगमशिखरिशृङ्गान्नित्यमागत्य खेल-न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते ।दशवदनगजेन्द्रे दर्शिताघातलीलोवशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७ ॥
करयोः शरकार्मुकाभिरामंपदयोरश्मविवेककृप्तरागम् ।कलितेषुधिमंसयोः प्रभुं तंकरुणापूर्णमपाङ्गयोरुपासे ॥ ४८ ॥
अवलम्ब्य शरासमद्रिसारंगुणमाकृष्य घनध्वनिं विमुञ्चन् ।विशिखानहितेषु रुक्मपुङ्खान्विहरत्याहवसीम्नि वीररामः ॥ ४९ ॥
चरमाङ्गनिबद्धचारुतूणंसुरमाङ्गल्यधुरीणचापबाणम् ।अलिनीलमुपैति मानसं मेनलिनीनायकवंशभागधेयम् ॥ ५० ॥
दृशि कारुणिकः करे धनुष्मान्कुशिकापत्यमखस्य रक्षिता यः ।रजनीचरतूलचण्डवातोभजनीयो मम सोऽयमेक एव ॥ ५१ ॥
नवनीरदनीलमात्तचापंभवनीहाररविं शृणोति लोकः ।अवनीतनयासखं जगत्यास्तवनीयं मम दैवमेकमेव ॥ ५२ ॥
भरिता दयया दृशोः सुराणांपरितापक्षतये गृहीतचापा ।दुरितानि धुनोतु कापि लीला-च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५३ ॥
सुरचारणसिद्धबद्धसेवःशरचापाभरणो नवाम्बुदश्रीः ।अहिमांशुकुलार्णवेन्दुरेकोमहिमान्तःकरणे ममाविरस्तु ॥ ५४ ॥
धनुषा सह सायकं दधानेजनुषा भूषितचण्डरश्मिवंशे ।कुचनम्रमहीसुतानुरक्तेक्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५५ ॥
भयकम्पितसागरप्रशस्तेमयकन्यातनुमण्डनासहिष्णौ ।नवगारुडरत्नभासुरे स्या-दवगाढं हृदयं क्वचित् प्रभौ मे ॥ ५६ ॥
निजनामरसज्ञनीलकण्ठंभजनाय प्लवगावृतोपकण्ठम् ।बलयन्त्रितसिन्धुमन्तरेकंकलयन्नन्यमुपासितुं यते कम् ॥ ५७ ॥
विकटभ्रुकुटीन् विलोकतेऽरीन्विशिखान् मुञ्चति विग्रहान् बिभर्ति ।अनुलिम्पति शोणितैर्धरित्रींरणरङ्गे रघुपुङ्गवः समिन्धे(?)॥ ५८ ॥
स्मयमानमुखेन्दुरिन्द्रनील-द्युतिरम्भोजदलेक्षणो धनुष्मान् ।तरलीकृतजानकीद्दगन्त-स्तरुणः कश्चन में मनोधिनोति ॥ ५९ ॥
दलदुत्पलदामकोमलाङ्गीदशकण्ठायुरपायकालभङ्गी ।मनसे मम रोचतेऽभिरूपाकरुणा काचिदुपात्तबाणचापा ॥ ६० ॥
मौलौ निधेहि मकुटं त्यज बर्हिगर्हंबाणं गृहाण धनुषा सह मुञ्च वेणुम् ।शाखामृगैर्विहर सन्त्यज गोपबालान्रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥
कृष्णैकसूतरथकेतनभूतदूतआनूरुसारथिरथात्मजमित्रभूतः ।पाणीश. . . .रथस्य शरासभूतःकश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥
दृप्यद्दशाननकलत्रकठोरगर्भ-विभ्रंशविभ्रमपरिस्फुटसाहसेन ।घण्टा विलुण्ठयतु नः कलुषं रवेणकोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥
देवद्विषां विजयदेहभृतां शरण्यंकारुण्यभूषितकटाक्षमुदग्रचापम् ।टङ्कत्रुटन्मरतकोपलरत्ननील-धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥
आस्ते कृतान्त इति पापिषु दण्डधारी-त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।रक्षिष्यतीति रघुनन्दनमेव साक्षा-द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥
तिष्ठन्तु दारुणतरा निरयाः सहस्रंतिष्ठन्तु घोरचरिता यमकिङ्करा वा ।पापात्मनोऽपि नियतं परिपालनायकोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥
लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणावैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहंप्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥
सौवर्णीमवसक्थिकामधिवसन् पार्श्वस्थपृथ्वीसुताहास्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्घया ।पाणिभ्यामपि वेष्टयन् कचभरं मौल्येकपार्श्वो चितंदेवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६८ ॥
स्वप्नदृष्टं श्लोकान्तरम् ---चापसंहितशरं चरमाङ्नेबद्धतूणमुपनीविकृपाणम् ।वञ्चनामृगवधाय वनान्तेसञ्चरन्तमिममन्तरुपासे ॥ ६९ ॥
कौणपाधिपकदर्शितामरी-काङ्क्षितप्रणयिबाणकार्मुकम् ।कञ्चन श्रुतिकरण्डमौक्तिकंकालिमानमवलोकयामहे ॥ ७० ॥
जानकीस्तनतटैकपालिका-जातकुङ्कमविभागपिञ्जरः ।दृश्यते हृदि दयाधुरन्धरःकोऽपि कोसलकुलीनकुञ्जरः ॥ ७१ ॥
मामके हृदि महीकुमारिकाकामकेलिकुतुकी नृपात्मजः ।... ...पदमस्त्रबन्धुरोनूतनोदयपयोदसुन्दरः ॥ ७२ ॥
चन्द्रशेखरशरासनच्छिदाचातुरीचणकरारविन्दया ।स्वीकृतं मम सुरानुकूलया. . . . . . भ्रनीलया ॥ ७३ ॥
कौणपालिकदलीविषाणिनाबाणचापपरिकर्मपाणिना ।चण्डिकारमणचापखण्डनेपण्डितेन मम मण्डितं मनः ॥ ७४ ॥
तुन्नकीर्णकुटिलक्षपाचरेकृत्रिमेतरगिरामगोचरे ।धावते हि कुलदेवतेति मेचित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥
कालिकानिभरुचिः कनीयसाकान्तया च सह कल्पितासिका ।कार्मुकाशुगलसत्कराम्बुजाकाचिदस्ति करुणा गतिर्मम ॥ ७६ ॥
मामके मनसि धान्यमालिनी-भूषणासहभुजोष्मशालिनी ।सा चकास्ति शरचापधारिणीभालुमालिकुलभाग्यधोरणी ॥ ७७ ॥
याति तेजसि मनः सनातनेदूतभूषितकिरीटिकेतने ।यामिनीचरचमूभयङ्करेजानकीनयनकेलिकिङ्करे ॥ ७८ ॥
चङ्क्रमानुकृतगन्धसिन्धुरासिन्धुराजकृतसेतुबन्धना ।वासनाधृतशरासनाशुगामेचका मनसि मे चकास्ति सा ॥ ७९ ॥
बानरक्षपितराक्षसव्रजंदीनरक्षणविचक्षणं प्रभुम् ।श्रीमदग्र्यशरचापमेति मेजामदग्न्यमदनिग्रहं मनः ॥ ८० ॥
कण्ठेकालशरासखण्डनचणं कल्याणनानागुणंकारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषंपौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥
कुवलयदलनीलश्रीभृतां भूकुमारी-कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।दशमुखभुजतेजोदर्पतूलानिलानांदशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥
करधृतशरचापः कान्तिमत्पङ्कजाक्षोनिहितशरधिरंसे नीरदस्निग्धनीलः ।वनमृगपरिवारो वन्दनीयो मुनीनांमदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३ ॥
मघवदुपलनीले मण्डलीकृत्य चापंमुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।रणधरणिरजोभिर्धूसरे वासरेश-प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४ ॥
शुभगुणकलकण्ठस्तोममाकन्दशाखा-नियमिनिवहचेतोनीलकण्ठाभ्ररेखा ।दशवदनवधूटीचक्रवाकीत्रियामाजनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५ ॥
तारुण्यदर्पतरलीकृतगोपकन्यादृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।काकुत्स्थवीर कमलानयनाभिरामंगात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६ ॥
कल्याणमावहतु दाशरथेः कटाक्षःशाखामृगे शतमखादपि सानुकम्पः ।आभाति भूमितनयाधरबिम्बलोभ-सम्पातसंक्रमितलाक्ष इवारुणो यः ॥ ८७ ॥
(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया ।)स कश्चन गिरीन्द्रजासखशरासनव्रश्चकोमनो हरति मामकं मरतकोपलश्यामलः ।धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८ ॥
धन्या वयं धरणिकन्याकया सनाथेनाथे स्थिते जगति नः परिपालनाय ।यश्शीलितो यतिभिरात्मनि निष्कलङ्केलङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९ ॥
दीनानुकम्पि दिवसेश्वरवंशरत्नंकर्तृव्यपेतवचसां कथमप्युपेयम् ।तापिञ्छनीलरुचि तामरसायताक्षंचापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९० ॥
आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।पश्यामि हृदयकमले रामं दूर्वादलश्याम(ल)म् ॥ ९१ ॥
मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२ ॥
जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे ।निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३ ॥
सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९४ ॥
विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५ ॥
गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६ ॥
कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७ ॥
कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८ ॥
दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९ ॥
निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०० ॥
॥ इति श्रीरामकर्णामृतं सम्पूर्णम् ॥