श्रीपवनाष्टकम्

Click on words to see what they mean.

पूर्वचतुष्कम्

प्राणं प्रपञ्चस्य समीरमीडेनभः समन्तादपि गाहमानम् ।स एष मे स स्तुतिमस्तु वाचंपितेव कन्यां परिरभ्य हृष्टः ॥ १ ॥
विश्वोपकाराय विभोर्निदेशा-दहर्निशं गन्धवह प्रयासि ।श्रान्तोऽसि मन्ये पिब मे वचांसिसुधां जनस्तक्रमिवाध्वखिन्नः ॥ २ ॥
कन्यामिवास्मभ्यमुदारशीलांमनोरमां सम्प्रददौ गिरं यः ।तां वायवे सम्प्रति दर्शयामोविवर्धितां साधु विभूषितां च ॥ ३ ॥
सत्यं दुकूलं परिदेहि वाणिविधाय दूरे वितथं कुचेलम् ।मात्वज्जुगुप्सां गगनस्य नाथःकार्षीन्निजं पार्श्वमुपागतायाः ॥ ४ ॥

उत्तरचतुष्कम्

विश्वप्रियमेकं प्राणं पवन त्वाम् ।न स्तौति सचेताः को नाम शरीरी ॥ ५ ॥
खेलत्खगवर्गं तारासुमचित्रम् ।उद्यानमिदं ते खं वात विशालम् ॥ ६ ॥
ब्रह्माहुरयि त्वां मिथ्यात्वयि नेदम् ।मुक्ता भवता चेत्सेयं गतिदीक्षा ॥ ७ ॥
वृत्तीः परिभूय श्वभ्रे विचरन्तम् ।पश्यन्ननिल त्वां पश्येदमृतं ना ॥ ८ ॥
॥ पवनाष्टकं समाप्तम् ॥