श्रीपार्वतीस्तोत्रम्

Click Settings to choose another script or language.
बालार्कायुतसत्प्रभां करतले लोलम्बमालाकुलांमालां संदधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् ।मन्दं मन्दमुपेयुषीं वरयितुं शम्मुं जगन्मोहिनींवन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीम् ॥ १ ॥
हेमाभां मतिवागतीतगुणशीलानल्पशिल्पाकृतिंप्रेमारोहमनोहरां करलसत्कल्याणदामाचिताम् ।श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनींकामापादनकल्पवल्लिमनिशं वन्दे परां देवताम् ॥ २ ॥
करधृतवरमाल्या सर्वरक्ताङ्गभूषानिखिलनयनचेतोहारिरूपाग्र्यवेषा ।भवतु भवदभीष्टप्राप्तये शैलकन्यापुरुषयुवतिवश्याकृष्टिनित्यप्रगल्भा ॥ ३ ॥
हेमाद्रौ हेमपीठे नतनिखिलसुरैरीड्यमानां विराज-त्पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषाभिरक्ताम् ।दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्यञ्चितैः स्व-र्वृक्षैः कॢप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ४ ॥
चक्रं शङ्खमसिं च चर्म सशरं चापं गदां शूलकंबिभ्राणां वरदाभयामृतघटान् रत्नौघपात्रं तथा ।भूषाभिर्मकुटादिभिस्त्रिनयनां पीताम्बरामम्बिकांध्यायेच्चन्द्रकलासितां सुरगणैरीड्यां जगन्मङ्गलाम् ॥ ५ ॥
श्रीकैलासे शुकाद्यैः शिवकरवटमूले निषण्णो निषेव्यःकृत्वोरौ वामपादं किसलयमृदुलं दक्षिणे दक्षवैरी ।विभ्राणो दोर्भिरक्षस्रजममृतघटं पुस्तकं ज्ञानमुद्रांभूयाद्भुक्त्यै च मुक्त्यै मम रजतनिभो दक्षिणामूर्तिशम्भुः ॥ ६ ॥
॥ इति श्रीपार्वतीस्तोत्रं सम्पूर्णम् ॥