श्रीपञ्चाक्षरार्थस्तवः

Click Settings to choose another script or language.

॥ षडक्षरश्लोकाः ॥

ओमित्येकाक्षरोऽसि प्रकृतिविरहितस्त्वोमितीदं च सर्वं ।त्वत्तो भिन्नं न चैतच्छिव तवमहितंवक्ति वेदः सदैवोम् ।... ... ... ... ... ... ..... ... ... ... ... ... ...॥ १ ॥
ईशानस्त्वं सर्वविद्याधिनाथ उद्गीथस्त्वं वाचकस्त्वं तथैवोम् ।माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २ ॥
नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसांभवानन्तो नाथो नतिकरणनानाविधतनुः ।न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषानमः शेषी देवो न हि शिव विवादः श्रुतिबलात्(?)॥ ३ ॥
महानात्मा मायाविरहितशरीरो मनुगतोमहेशो मन्त्रार्थस्त्वमसि मतिदाता मनसिगः ।मनस्वी मध्यस्थो मरणजनाद्यन्तरहितोमधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४ ॥
शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरःसिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा ।शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक्शतावर्तो हर्ता त्वमसि भवहर्तासि जगताम्(?)॥ ५ ॥
वाहीकृतोक्ष भगवन् हर वामदेववाताशनाधिपतिभूषितदिव्यकाय ।वास्तव्यवास्तुप महेश्वर वामनेत्रा-कॢप्तार्धकाय भगवन् नववारणारे ॥ ६ ॥
यतो जातं विश्वं यमयति तथान्ते च यदृतेन हि स्वस्थं यस्मान्न भवति तथा नो नगतिकम् ।यमात्मानं सर्वे न हि खलु विजानन्ति तमसःपरं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७ ॥
पञ्चाक्षरार्थस्तवमेतमेवं पठन्ति येचाध्यवसायवन्तः।त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८ ॥
॥ इति श्रीशिवपञ्चाक्षरार्थस्तवः सम्पूर्णः ॥